विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 81, कुल 1001 में से
संदर्भ में पढ़ेंपूर्वात्ते वदनाज्जातमृग्वेददमृतप्रभम् ॥ दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च ॥ १६ ॥ पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ॥ उत्तराद्वदनाज्जात- मथर्वाङ्गिरसं शुभम् ॥ १७ ॥ ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्रियास्तथा ॥ ऊरूभ्यान्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च ॥ १७ ॥ विद्युतोऽथ शनिमेघाश्च रोहितेन्द्रधनूंषि च ॥ त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि ॥ १८ ॥ स्वयम्भूभगवान्विष्णुर्देवदेवः सनातनः ॥ नाममात्रविभे- देन मोहयस्यखिलं जगत् ॥ १९ ॥ त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ॥ ते क्षितौ क्षत्रिया जाताः पीडयन्ति तथा क्ष्माम ॥ २० ॥ एवं तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ॥ वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते ॥ २१ ॥ मार्कण्डेय उवाच ॥ एवं पितामहो देवः स्तुतः शक्रेण धीमता ॥ गुरुणा च समेतेन पूजयामास तावुभौ ॥ २२ ॥ पूजयित्वा च वसुधां शक्रं वचनमब्रवीत् ॥ ब्रूध्वं देवदेवस्य शङ्करस्य महात्मनः ॥ २३ ॥ मुखकीर्त्तितं सर्वं निवेदयत मा चिरम् ॥ उपायं क्षत्रियवधे युष्माकं कथयिष्यति ॥ २४ ॥ इत्येवमुक्त्वास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ॥ शक्रेाऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स धर्मशीलः ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥ मार्कण्डेय उवाच ॥ रुद्रलोकमथासाद्य ददृशुस्त्र्यम्बकं तदा ॥ वह्निपुञ्जप्रतीकाशं जटाभारेण राजितम् ॥ १ ॥ सूर्य्यभासा तृतीयेन नयनेन च शोभितम् ॥ भालचन्द्रेण शुभ्रेण जटामण्डलशोभिना ॥२॥ व्यालयज्ञोपवीतञ्च नागेन्द्रकृतकङ्कणम् ॥ नीलकण्ठं विशालाक्षं दन्तित्वचमथोरुच्छदम् ॥ ॥ ३ ॥ उमासहायं वरदं सर्वभूतभवोद्भवम् ॥ नन्दिनानुगतं वीरं प्रमथैश्च सहस्रशः ॥ ४ ॥ नानाचक्रशिरोग्रीवैर्नानायुधविभूषणैः ॥ तं दृष्ट्वा प्रणतः प्राह शक्रस्तु गुरुणा सह ॥ ५ ॥ शक्र उवाच ॥ नमोऽस्तुदेवदेवेश प्रणतार्त्तिनिवारण ॥ नीलकण्ठ महाभाग ह्युमाभूषणतत्पर ॥ ६ ॥ गङ्गातरङ्गनिर्धौतजटामण्डलमण्डित ! ॥ शशाङ्कशतसङ्काश सूर्य्यकोटिसमप्रभ ॥ ७ ॥ वामनैर्जटिलैर्मुण्डैः प्रमथैरीक्ष्यसे सदा ॥ तैश्च सार्धं महादेव रमसेऽमितविक्रम ॥ ८ ॥ घोरं हि ब्रह्मचर्यं ते यथा नान्यस्य कस्यचित् ॥ तव लिङ्गार्चनरताः पूयन्ते सर्वकिल्बिषैः ॥९॥ स्मरन्ति ये त्वां सततं ते हि यान्ति परां गतिम् ॥ विष्णोरिचिन्त्यभागोऽसि प्रजासंहरणे कृते ॥ १० ॥ सर्वदेवमयो धाता सर्वदेवमयोऽपि च ॥ सर्वदेवरूपस्त्वं
१ 'क्षत्रियाः सूताः इति ख० । २ 'मोहयस्यखिलाम्' इति ख० । ३ 'गुरुणाऽनुसमेतेन 'इति खः । ४ 'निकेतिनं' इति ख० । ५ 'बालचन्द्रेण' इति ख० । ६ 'नानायुधविभूषयैः' इति ख० । ७ 'नमस्ते' इति ख० । १ 'सर्वभूतवरप्रदम्' इति ख० । 'सर्वभूतविभावितः' इति च ख० ।