विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 80, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ १५॥
प्र० खं० अ० २७ ॥ १५॥
श्रीमान्वज्रपाणिर्जगत्प्रियः ॥ १७ ॥ तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ॥ त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते ॥ १८ ॥ वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ॥ वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा ॥ १९ ॥ ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ॥ त इमे दनु सम्भूताः कर्तुंवीर्यं समाश्रिताः ॥ २० ॥ तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ॥ सोऽहं भ्रातृसमाक्रान्तो त्वामद्य शरणं गता ॥ २१ ॥ ॥ शक्र उवाच ॥ जानामि भार्गवश्रेष्ठ ! त्वां दैत्येभ्यो वरवर्णिनि ॥ तेषां गत्वा वधोपायमहं प्रक्ष्यास्म्यि वेधसम् ॥ २२ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वा त्रिदशप्रधानः पृथवीसमेतो गुरुणा च राजन् ॥ ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः ॥ २३ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥ ॥ छ ॥ ॥
॥ मार्कण्डेय उवाच ॥ ॥ ते समेताः समासाद्य पितामहसभां शुभाम् ॥ पद्मासनगतं तत्र ददृशुः पद्मसंभवम् ॥ १ ॥ पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ॥ चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम् ॥ २ ॥ चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ॥ कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि ॥ ३ ॥ स्वयंभुवमचिन्त्यं च सर्वसंहारकारकम् ॥ तं समासाद्य जगती शक्रश्च गुरुणा सह ॥ ४ ॥ ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ॥
शक्रादय ऊचुः ॥ नमस्ते देवदेवेश सृष्टिसंहारकारण ! ॥ वदन्ते तदाधार यज्ञं यज्ञांग यक्षप ॥ ५ ॥ यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ॥ प्रजापतिपते देव जगद्बीज नमोऽस्तु ते ॥ ६ ॥ स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ॥ सर्वभूतेश्वरोत्पत्तौ सर्वभूतेश्वराय च ॥ ७ ॥ अचिन्त्यायऽप्रमेयाय प्रकाशाय महात्मने ॥ त्वमस्य जगतो नाथैस्त्वयि सर्वं प्रतिष्ठितम् ॥ ८ ॥ त्वया विना जगत्यस्मिन्नात्किंचित्त्वन विद्यते ॥ इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरञ्च यत् ॥ ९ ॥ व्यक्ताव्यक्तौ जगन्नाथ त्वमेवैकः प्रकीर्तितः ॥ त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च ॥ १० ॥ कलांः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ॥ कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः॥ ११ ॥ त्वमेव वरदो दाता देवः शुभवचोमुखः ॥ ततः प्रसूतो लोकेऽस्मिन्त्सर्वज्ञा जगत्पति ॥ १२ ॥ भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥ अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते ॥ १३ ॥ सनत्कुमारो भगवान्सन्कश्च सनन्दनः ॥ आङ्गीरतिक्ष रुचिः श्रद्धा तया देव विनिर्मिता ॥ १४ ॥
१ 'सर्वतस्त्वममय' इति ख० । २ 'सर्वभूतेश्वरासमे' इति ख० । ३ 'त्वमस्य जगतो नाथ' इति क० । ४ 'नान्यत्किंचिद्वि' इति क० । ५ 'अनेकैर्वा' इति क० । ६ 'ततस्तां चन्' इति क० । ७ 'कालां' इति क० । ८ 'जगत्पर्ता' इति ख० । ९ 'अत्रिश्चैवेतिश्च तया' इति ख० ।