भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥ १५॥

प्र० खं० अ० २७ ॥ १५॥

श्रीमान्वज्रपाणिर्जगत्प्रियः ॥ १७ ॥ तेजसा तपसा यज्ञैः श्रुतेन च दमेन च ॥ त्वत्तो विशिष्टं लोकेऽस्मिन्न पश्यामि शचीपते ॥ १८ ॥ वेदेषु सरहस्येषु गीयसे त्वं पुनःपुनः ॥ वेदाः प्रवृत्ता यज्ञार्थं तदर्थं क्रतवस्तथा ॥ १९ ॥ ये हता दानवा युद्धे त्वया शक्र पुनःपुनः ॥ त इमे दनु सम्भूताः कर्तुंवीर्यं समाश्रिताः ॥ २० ॥ तेऽद्य जाता मम विभो पीडयन्ति च मां भृशम् ॥ सोऽहं भ्रातृसमाक्रान्तो त्वामद्य शरणं गता ॥ २१ ॥ ॥ शक्र उवाच ॥ जानामि भार्गवश्रेष्ठ ! त्वां दैत्येभ्यो वरवर्णिनि ॥ तेषां गत्वा वधोपायमहं प्रक्ष्यास्म्यि वेधसम् ॥ २२ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वा त्रिदशप्रधानः पृथवीसमेतो गुरुणा च राजन् ॥ ययौ सभां देववरस्य तस्य पितामहस्याप्रतिमस्य वीरः ॥ २३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे पृथ्वीशक्रलोकगमनं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥ ॥ छ ॥ ॥

॥ मार्कण्डेय उवाच ॥ ॥ ते समेताः समासाद्य पितामहसभां शुभाम् ॥ पद्मासनगतं तत्र ददृशुः पद्मसंभवम् ॥ १ ॥ पद्मपत्रसवर्णांगं पद्मबोधसमप्रभम् ॥ चतुर्वक्त्रं चतुर्वेदं चतुराश्रमपूजितम् ॥ २ ॥ चातुर्वर्ण्यधरं देवं चातुर्होत्रप्रवर्तकम् ॥ कृष्णाजिनधरं शान्तं प्रभुं प्रभवतामपि ॥ ३ ॥ स्वयंभुवमचिन्त्यं च सर्वसंहारकारकम् ॥ तं समासाद्य जगती शक्रश्च गुरुणा सह ॥ ४ ॥ ववन्दुस्ते महाभागं तुष्टुवुश्च जगत्प्रभुम् ॥

शक्रादय ऊचुः ॥ नमस्ते देवदेवेश सृष्टिसंहारकारण ! ॥ वदन्ते तदाधार यज्ञं यज्ञांग यक्षप ॥ ५ ॥ यज्ञयोने जगद्योने सर्वसत्त्वाभयप्रद ॥ प्रजापतिपते देव जगद्बीज नमोऽस्तु ते ॥ ६ ॥ स्वयम्भुवे स्वयं कर्त्रे सर्वभूतान्तरात्मने ॥ सर्वभूतेश्वरोत्पत्तौ सर्वभूतेश्वराय च ॥ ७ ॥ अचिन्त्यायऽप्रमेयाय प्रकाशाय महात्मने ॥ त्वमस्य जगतो नाथैस्त्वयि सर्वं प्रतिष्ठितम् ॥ ८ ॥ त्वया विना जगत्यस्मिन्नात्किंचित्त्वन विद्यते ॥ इन्द्रियाणीन्द्रियार्थाश्च तेभ्यः परतरञ्च यत् ॥ ९ ॥ व्यक्ताव्यक्तौ जगन्नाथ त्वमेवैकः प्रकीर्तितः ॥ त्वं तपांसि वरिष्ठानि कृच्छ्राणि नियमानि च ॥ १० ॥ कलांः काष्ठा मुहूर्ताश्च कालस्यावयवाश्च ये ॥ कालचक्रं जगच्चक्रं त्वमेकः पुरुषोत्तमः॥ ११ ॥ त्वमेव वरदो दाता देवः शुभवचोमुखः ॥ ततः प्रसूतो लोकेऽस्मिन्त्सर्वज्ञा जगत्पति ॥ १२ ॥ भृग्वंगिरा मरीचिस्तु पुलस्त्यः पुलहः क्रतुः ॥ अत्रिश्चैव वशिष्ठश्च त्वया सृष्टा जगत्पते ॥ १३ ॥ सनत्कुमारो भगवान्सन्कश्च सनन्दनः ॥ आङ्गीरतिक्ष रुचिः श्रद्धा तया देव विनिर्मिता ॥ १४ ॥


१ 'सर्वतस्त्वममय' इति ख० । २ 'सर्वभूतेश्वरासमे' इति ख० । ३ 'त्वमस्य जगतो नाथ' इति क० । ४ 'नान्यत्किंचिद्वि' इति क० । ५ 'अनेकैर्वा' इति क० । ६ 'ततस्तां चन्' इति क० । ७ 'कालां' इति क० । ८ 'जगत्पर्ता' इति ख० । ९ 'अत्रिश्चैवेतिश्च तया' इति ख० ।

पूर्वात्ते वदनाज्जातमृग्वेददमृतप्रभम् ॥ दक्षिणाद्वदनाज्जातं यजुर्वेदं तथैव च ॥ १६ ॥ पश्चिमाद्वदनाज्जातं सामवेदं तथा तव ॥ उत्तराद्वदनाज्जात- मथर्वाङ्गिरसं शुभम् ॥ १७ ॥ ब्राह्मणास्ते मुखाज्जाता बाहुभ्यां क्षत्रियास्तथा ॥ ऊरूभ्यान्तथा वैश्याः पद्भ्यां शूद्रास्तथैव च ॥ १७ ॥ विद्युतोऽथ शनिमेघाश्च रोहितेन्द्रधनूंषि च ॥ त्वत्तः प्रभो प्रसूतानि प्रविशन्ति तथा त्वयि ॥ १८ ॥ स्वयम्भूभगवान्विष्णुर्देवदेवः सनातनः ॥ नाममात्रविभे- देन मोहयस्यखिलं जगत् ॥ १९ ॥ त्वत्तेजसा मया दैत्या ये युद्धे विनिपातिताः ॥ ते क्षितौ क्षत्रिया जाताः पीडयन्ति तथा क्ष्माम ॥ २० ॥ एवं तेषां भारेण खिन्नेयं त्वत्सकाशमुपागता ॥ वसुधा वसुधापाल तां त्रायस्व नमोऽस्तु ते ॥ २१ ॥ मार्कण्डेय उवाच ॥ एवं पितामहो देवः स्तुतः शक्रेण धीमता ॥ गुरुणा च समेतेन पूजयामास तावुभौ ॥ २२ ॥ पूजयित्वा च वसुधां शक्रं वचनमब्रवीत् ॥ ब्रूध्वं देवदेवस्य शङ्करस्य महात्मनः ॥ २३ ॥ मुखकीर्त्तितं सर्वं निवेदयत मा चिरम् ॥ उपायं क्षत्रियवधे युष्माकं कथयिष्यति ॥ २४ ॥ इत्येवमुक्त्वास्तु पितामहेन जग्मुस्तदा रुद्रसदः प्रतीताः ॥ शक्रेाऽथ देवी च वसुन्धरा च गुरुः सुराणाञ्च स धर्मशीलः ॥ २५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे ब्रह्मलोकगमनं नाम सप्तविंशतितमोऽध्यायः ॥ २७ ॥ मार्कण्डेय उवाच ॥ रुद्रलोकमथासाद्य ददृशुस्त्र्यम्बकं तदा ॥ वह्निपुञ्जप्रतीकाशं जटाभारेण राजितम् ॥ १ ॥ सूर्य्यभासा तृतीयेन नयनेन च शोभितम् ॥ भालचन्द्रेण शुभ्रेण जटामण्डलशोभिना ॥२॥ व्यालयज्ञोपवीतञ्च नागेन्द्रकृतकङ्कणम् ॥ नीलकण्ठं विशालाक्षं दन्तित्वचमथोरुच्छदम् ॥ ॥ ३ ॥ उमासहायं वरदं सर्वभूतभवोद्भवम् ॥ नन्दिनानुगतं वीरं प्रमथैश्च सहस्रशः ॥ ४ ॥ नानाचक्रशिरोग्रीवैर्नानायुधविभूषणैः ॥ तं दृष्ट्वा प्रणतः प्राह शक्रस्तु गुरुणा सह ॥ ५ ॥ शक्र उवाच ॥ नमोऽस्तुदेवदेवेश प्रणतार्त्तिनिवारण ॥ नीलकण्ठ महाभाग ह्युमाभूषणतत्पर ॥ ६ ॥ गङ्गातरङ्गनिर्धौतजटामण्डलमण्डित ! ॥ शशाङ्कशतसङ्काश सूर्य्यकोटिसमप्रभ ॥ ७ ॥ वामनैर्जटिलैर्मुण्डैः प्रमथैरीक्ष्यसे सदा ॥ तैश्च सार्धं महादेव रमसेऽमितविक्रम ॥ ८ ॥ घोरं हि ब्रह्मचर्यं ते यथा नान्यस्य कस्यचित् ॥ तव लिङ्गार्चनरताः पूयन्ते सर्वकिल्बिषैः ॥९॥ स्मरन्ति ये त्वां सततं ते हि यान्ति परां गतिम् ॥ विष्णोरिचिन्त्यभागोऽसि प्रजासंहरणे कृते ॥ १० ॥ सर्वदेवमयो धाता सर्वदेवमयोऽपि च ॥ सर्वदेवरूपस्त्वं


१ 'क्षत्रियाः सूताः इति ख० । २ 'मोहयस्यखिलाम्' इति ख० । ३ 'गुरुणाऽनुसमेतेन 'इति खः । ४ 'निकेतिनं' इति ख० । ५ 'बालचन्द्रेण' इति ख० । ६ 'नानायुधविभूषयैः' इति ख० । ७ 'नमस्ते' इति ख० । १ 'सर्वभूतवरप्रदम्' इति ख० । 'सर्वभूतविभावितः' इति च ख० ।

सर्वभूतविभावनः ॥११॥ सर्वामरगुरुर्देवः सर्वभूतेश्वरेश्वरः ॥ सर्वदेवो महायोगी महाजयो महाबलः ॥ १२॥ महाबुद्धिर्महावीर्यो महातेजा महायशाः ॥ चतुष्पात्सकलो धर्मो वहनस्ते महद्वपुः ॥ १३ ॥ श्मशाने वसतिर्नित्यं चिताभस्मसमाकुले ॥ नृत्यद्भूतकुले भूमर्भूतैः श्वेतानुलेपनः ॥ १४ ॥ भूर्लोकश्चैवं सलिलयजमानोऽनिलानुवायवः ॥ मूर्तयस्ते स्मृता देव यस्मिन्निदं जगत् ॥ १५ ॥ त्वया विना जगत्यस्मिन्नान्यत्किञ्चन विद्यते ॥ दैत्यभाराभितप्ताङ्गां पालयस्व नमोऽस्तु ते ॥ १६॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तु शक्रेण देवः शक्रमभाषत ॥ कार्त्तवीर्यमहं त्याजो कर्त्ता निःक्षत्रियां महीम् ॥ १७ ॥ न शक्रास्त्रिदशश्रेष्ठ यतः स्तौतीस्म तद्ध्रुवं ॥ विष्णुदत्तवरो राजा सोढव्यो मम वासव ॥ १८ ॥ तमेव प्रार्थयिष्यामि वरं तस्य महात्मनः ॥ सर्वं यात स्वकं स्थानं त्वंहस्याम्येश्वरेश्वरम् ॥ १९ ॥ चन्द्रमण्डलमध्यस्थं यास्ये वरदमीश्वरम् ॥ विष्ण्वंशेन भागेन दत्तात्रेयोऽभवत्क्षितौ ॥ २० ॥ तेन दत्तवरो राजा पालयत्यखिलां महीम् ॥ २१ ॥ इत्येवमुक्त्वा त्रिदशेश्वरस्तु देवेन साक्षात्त्रिपुरान्तकेन ॥ जगाम शीघ्रं स्वपुरं प्रविष्टो महीं समासाद्य गुरुश्च राजन् ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेय वज्रसंवादे दृष्टदर्शनं नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ मार्कण्डेय उवाच ॥ गते सुरेश्वरे देवे शक्रे च सपुरोहिते ॥ जगायाश्च प्रया तायां देवदेवो महेश्वरः ॥ १ ॥ अङ्गुष्ठमात्रको भूत्वा गङ्गातोये न्यमज्जत ॥ सोऽवगाह्य श्लोकगङ्गां गङ्गां सर्वगतां नदीम् ॥ २ ॥ तयोद्यमानः प्रययौ विस्तीर्णं चन्द्रमण्डलम् ॥ नवयोजनसाहस्रो विक्रममो यस्य कीर्तितः ॥ ३ ॥ विन्तामणिगुणश्चैव पणिगाहः समन्ततः ॥ तोयसागर्म्यं पिण्डं पितॄणां धाममव्ययम् ॥ ४ ॥ प्रजानां भावनं सर्वं चाधारं जगतामपि ॥ शृङ्गिणां शृङ्गेषु गमं पक्षात्मकं स्मृतम् ॥ ५ ॥ आलम्बकं कुरुंदकं च तथा चैवावबोधकम् ॥ संधातकं तर्पकञ्च दृष्टिनां देवगोचरम् ॥ ६ ॥ मनःमर्विन्दु याणाञ्च संवेषां नायकं तथा ॥ ओषधींशं जगद्योनिममृतानामयञ्चयम् ॥ ७ ॥ यं पिबन्ति सदा देवाः पितॄन्श्वामृतान्यितः ॥ यश्चामृतः


१ 'महादेवो महायोगी महामायो महाबलः' इति ख० । २ 'तथा दृक्' इति पु० । ३ 'नृत्यद्भुतमितिस्वैभवैर्श्वेतानुलेपन' इति ख० । किञ्चत् तत्रेतीवनेत्याहुः इति केवलं दृश्यतः। ४ 'त्रिदिवश्रेष्ठ' इति ख० । ५ 'सर्वं यात स्वकं स्थानमहमागमनेश्वरं । चन्द्रमण्डलमध्यस्थं याथे वरदमीश्वरं' इति ख० । ६ 'द्विषांवेदन्तं महीं' इति ख० । ७ 'नेते मुक्को' शको तथा 'इन्दुलोहितं' इति ख० । ८ 'तर्पयम्' इति ख० ।

वपुर्वस्य विष्णोर्वा स प्रकीर्तितः ॥ ८ ॥ हव्यकव्याशनो देवो भूतात्मा भूतभावनः ॥ प्रविश्य मण्डलं तस्य १ देवदेवो महेश्वरः ॥ ९ ॥ तस्य यद्व्यापकं तेजः सूक्ष्ममन्नरसं हि तम् ॥ अङ्गुष्ठमात्रं पुरुषं यं बुधाः के शिवं विदुः ॥ १० ॥ ३ चक्षुर्गोलकमध्यस्था दृक्शक्तिरिव यः स्थितः ॥ चन्द्रगोलकमध्यस्थः पुरुषः स परः स्मृतः ॥ ११ ॥ कर्मसाक्षी स लोकानां स चाधारः परः स्मृतः ॥ आदित्यरश्म्यंशे तमःसंमूर्च्छितं क्षितौ ॥ १२ ॥ क्षपयिष्यति यश्चैवं शीतांशुस्तस्य तेजसा ५ ॥ यस्य रूपमनिर्देश्यं यस्य तेजः सुदुःसहम् ॥ १३ ॥ तं तु देववरं दृष्ट्वा तुष्टाव त्रिपुरान्तकः ॥ ईश्वर उवाच ॥ अग्नीषोमामयं चेतज्जगदेतत्प्रकीर्तितम् ॥ अग्नीषोमौ जगन्नाथौ देवदेवौ जनार्दनः ॥ १४ ॥ तस्यामयी तनुर्या न सोढुं स च दिवाकरः ॥ सौम्या तु या तनुस्तस्य स भवान् स पितामहः ॥ १५ ॥ त्वंयदं धार्यते सर्वं नात्यन्तपश्यामि कारणम् ॥ त्वंविद्म्वे निर्मले पृथ्वी सशैलवनकानना ॥ १६ ॥ शशाकृतिः सदा दृश्या शशलाञ्छ्माऽसि चानघ ॥ तेनैव कारणेन त्वमुच्यसे मृगलाञ्छनः ॥ १७ ॥ शशी शशत्वसंबन्धात्सौम्यत्वात्सोम उच्यते ॥ शीतांशुत्वाच्च शीतांशुः निशेशे त्वद्विराजनात् ॥ १८ ॥ नक्षत्रनाथस्तत्साम्याद्राजत्वाच्च द्विजेश्वरः ॥ वसन्ति ते पितृगणाः पितृनाथस्ततो भवान् ॥ १९ ॥ बर्हथश्चन्द्र इत्येष धातुर्ह्लादौ मनीषिभिः ॥ शुक्लेवे ह्लादकत्वे च शीतत्वे ह्लादनेऽपि च ॥ २० ॥ तेन ते चन्द्रताख्याता सततं धर्मवत्सल ! ॥ सर्वं चाह्लादयान्ती दृक् त्वयि महाद्युते ॥ २१ ॥ प्रजाकार्यं त्वदायत्तं तत्कुरुष्व जगत्प्रभो ॥ दूतोऽथन्त्वमसालाभ त्वया दुस्तवो नृपः ॥ २२ ॥ कार्त्तवीर्यार्जुनो नाम दानवास्तुमुपाश्रिताः ॥ सर्वं क्षत्रिपतां प्राप्यतद्वधे यत्नवान् भव ॥ २३ ॥ त्वया दूतत्वं हन्तुनान्यः शक्नोति कश्चन ॥ अवश्यं च त्वया कार्यं देवकार्यं सदा विभो ॥ २४ ॥ मार्कण्डेय उवाच ॥ शंकरेणैवमुक्तस्तु प्रतिपूज्य च शंकरम् ॥ उवाच देवदेवेशं प्रणतातिहरं हरम् ॥ २५ ॥ चन्द्र उवाच ॥ इयं शङ्कर सौम्या मे तनुः सुविहिता तव ॥ तस्मादकीर्स्थितां गच्छ सा ते कार्यं करिष्यति ॥ २६ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वित्रिपुरान्तकारी सोमेन राजा परमेश्वरेण ॥ संपूज्य देवं प्रययौ स शीघ्रं तेजोमयं मंडळमाशु राजन् ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चन्द्रमण्डळदर्शनं नामैकोनत्रिंशत्तमोऽध्यायः ॥ २९ ॥ ॥ मार्कण्डेय उवाच ॥


१ ‘वपुर्वपुर्देवदेवस्य विष्णोर्वाम्’ प्रकीर्तितः’ इति ख० । २ 'केशवम्' इति ख० । ३ 'चक्षुर्गोलकमध्यस्थः कृष्णशक्तिरिव यः स्थितः' इति ख० । ४ 'तमः संमूर्च्छते' इति ख० । ५ 'तेजसः' इति ख० । ६ 'तस्याग्नेये तनुर्या तु सोढुं सोपि दिवाकरः । सौम्या तुर्या तनुस्तस्य स भवानेव पितामह' इति ख० । ७ 'विश्वम्' इति ख० । ८ 'त्विन्द्रिंवे' निर्मले पृथ्वी सशैलवनकानना । शशाकृतिः सदा दृश्या येन त्वं शशलाक्षणः इति खः । ९ 'स्मतस्त्वं' इति ख० ।

॥ श्रीः ॥

वि० ध०प्र० खं० अ० ३०
॥ १७ ॥॥ १७ ॥

स ददर्श ततो गत्वा विपुलं सूर्यमण्डलम् ॥ चन्द्रमण्डलमानेन मानं यस्य च संस्मृतम् ॥ १ ॥ ज्वलज्ज्वलितं पिण्डं पिण्डितस्य विभावसोः ॥
देवदेवस्य यद्धाम वासुदेवस्य धीमतः ॥ २ ॥ तस्य धर्मः परं पिण्डं ब्रह्माण्डान्तरदीपनम् ॥ आंगारं सर्वभूतानां जठरस्थं हुताशनम् ॥ ३ ॥
पञ्चधाऽवस्थितं देहे सर्वेषां प्राणिनां स्मृतः ॥ आलोचकः पाचकश्च रोचको भ्राजकस्तथा ॥ ४ ॥ भ्राजकश्च तथा देवः सर्वेषां प्राणिनां तथा ॥
यन्मयं देहिनां चक्षुर्दृग्दक्षिणस्तथा ॥ ५ ॥ सैवं देवादिदेवस्य वासुदेवस्य कीर्त्तिताः ॥ अग्नौ प्रास्ताहुतिः सम्यगादित्यं चोपतिष्ठते ॥ ६ ॥
यस्य द्रुतं सदा तेजः सर्वषामेव तेजसा ॥ यस्मादभ्युदयोत्यर्थात्तृप्यासात्तर्पणसम्भवः ॥ ७ ॥ यस्मात्प्रवर्त्तते सर्वं कालचक्रं तथैव च ॥ ओषधीनां परः
पाकः परं यस्मान्न विद्यते ॥ ८ ॥ तन्मण्डलमुपासाद्य कृत्वा रूपं तु तैजसम् ॥ विवेश मण्डलं भित्त्वा तन्मध्यं शङ्करस्तदा ॥ ९ ॥ सोऽङ्गुष्ठमात्रं
पुरुषं दृक्शक्तिमिव वेदितम् ॥ तेजसं दृष्टवान् रुद्रः तुष्टाव च महाद्युतिः ॥ १० ॥ रुद्र उवाच ॥ त्वां नमस्यामि देवेशं तेजसां
तु परं निधिम् ॥ आराध्यस्त्वं वरेण्यस्त्वं सर्वभूतभवोद्भवः ॥ ११ ॥ स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं तथा भवान् ॥ अनन्तश्चा
प्रमेयस्त्वं सूक्ष्मात्सूक्ष्मतरस्तथा ॥ १२ ॥ मया समर्पितं तेजः सकलं त्वयि भास्कर ॥ मत्तोस्त्वं न हि भिन्नोऽसि न च देवाज्जनार्दनात् ॥ १३ ॥ अहम्
विष्णुर्भवान् विष्णुर्ब्रह्मा विष्णुः प्रभाकर ॥ अस्माकं सकलं धाम त्वयि तिष्ठति भास्कर ॥ १४ ॥ धामकार्यं हि क्रियते येनास्य जगतः सदा ॥
प्रजानां तु प्रसवनात्सवितेति निगद्यते ॥ १५ ॥ रसानाञ्च तथा दानाद्रविरित्यभिधीयते ॥ आदित्यस्त्वं तथा दानान्निमग्नत्वं मेत्रभावतः ॥ १६ ॥
पुष्णासि सकलोल्लोकांस्तेन पूषा निगद्यसे ॥ धारणाच्च तथा धाता यमनाद्यम तथा ॥ १७ ॥ अंशुस्त्वमंशुधारित्वाद्विसर्गाद्रूपलन्तथा ॥ भवः
सौभाग्यार्च्यत्वात्त्वया सर्वक्रियाकृतेः ॥ १८ ॥ सर्वजन्तुसमत्वाच्च विवस्वानाभिधीयते ॥ क्रमणाच्च तथा विष्णुर्गोभिश्चालिन्दु उच्यते ॥ १९ ॥
तस्मात्त्वया प्रजाकार्यं कर्तव्यमविचालितम् ॥ स्थावरैर्जङ्गमश्चैषां भूमिर्भागैर्निपीडिता ॥ २० ॥ कदाचिद्रजनैर्भूमेः सूर्य्यभारेण पीडिता ॥
कदाचित्स्थावरैश्चैव भारितायतिपीडिता ॥ २१ ॥ अद्धैर्न तृप्तौ वृद्धिः परा भास्कर शालिनाम् ॥ दैत्याः क्षियन्तां प्राप्य पीडयन्ति च
मेदिनीम् ॥ २२ ॥ सूर्य उवाच ॥ तव दर्शनकामेन प्रयोग न कृता मया ॥ स्थावरैर्जङ्गमः सर्वं प्रकृतिस्थं वपुर्नयम् ॥ २३ ॥ यथा पूर्वं तथैवैतद् ॥ १७ ॥


१ 'आवासं' इति ख० । २ 'देहं सर्वेषां प्राणिनां तथा' इति ख० । ३ 'सर्वहविर्हिवम्' इति ग० । ४ 'अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते' इति मु० । ५ 'ञ्चतः' इति कु० । ६ 'उक्तशक्तिरेव' इति ख० । ७ 'अतव्यथाप्रत्ययस्त्वम्' इति ख० । ८ 'भीमत्वाच्चाह्वितान्' इति ख० । ९ 'दूरतस्तेन' इति ख० । १० 'आदित्य' इति ख० । ११ 'संवहन्' इति ख० ।

बाहं करिष्यामि महेश्वर ॥ साम्प्रतं ब्राह्मणो भूत्वा चार्जुनैनैव पादपान् ॥ २४॥ सर्वान्विननाशयिष्यामि शासनेन तथाऽर्जुनम् ॥ वसिष्ठाच्छापजायिष्यामि ततोऽशेन वसुन्धराम् ॥२५॥ मृगेन्द्रो १ करिष्यामि ततो निःक्षत्रियां प्रजाम् ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तोत्रिपुरान्तकारी सूर्येण सद्भक्तिमिवोर्जगतेन ॥ जगाम धाम स्वमसौ विभेति यत्सर्वलोकाज्जगतां प्रधानः ॥ २६ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे आदित्यदर्शनं नाम त्रिंशत्तमोऽध्यायः ॥ ३०॥ मार्कण्डेय उवाच ॥ द्विजंरूपमास्थाय देवदेवोऽपि भास्करः ॥ माहिष्मतीं ययौ शीघ्रं नगरीं रत्नमालिनीम् ॥१॥ ब्राह्मणं स तत्र ददर्श वीरं कार्तवीर्यार्जुनं नृपम् ॥ यजमानं सुबोद्दण्डं कल्पवृक्षमिवापरम् ॥ २ ॥ पूजितः कार्तवीर्येण ब्राह्मणो नृपमब्रवीत् ॥ ३ ॥ ब्राह्मण उवाच ॥ महारशनं मां जानीहि ब्राह्मणं क्षुधयान्वितम् ॥ प्रयच्छ तस्य मे तृप्तिं त्वमेको हेतुरुत्तम ॥ ४ ॥ अर्जुन उवाच ॥ केनाऽन्नेन २ भवतृप्तिः किमन्नं विदधामि त ॥ तन्ममाऽऽचक्ष्व ३ भगवन् सुच्छेदेन मा चिरम् ॥ ५ ॥ ब्राह्मण उवाच ॥ आदित्यं मां विजानीहि स्थावरान् ४ भोक्तुमुद्यतम् ॥ प्रयच्छ तानि सर्वाणि मम पार्थिवपुंगव ॥ ६ ॥ अर्जुन उवाच ॥ स्थावरं भूगतं दातुं शक्तिर्नाऽस्ति ममाऽनघ ॥ कथं हि स्थावरान् दग्धुं शक्त्या मातृष्यतेजसा ॥ ७ ॥ आदित्य उवाच ॥ रथस्थः पार्थिवश्रेष्ठ शरान्मुंच यदृच्छयां ५ ॥ तेऽहं प्रबलैर्वाजन्मक्षयिष्यामि पादपान् ६ ॥ ८ ॥ तावदेव त्वया कार्यं नृपते शरमोक्षणम् ॥ यावन्न प्रज्वलिष्यामि मुक्तेष्वपि शरेष्वहम् ॥ ९ ॥ मार्कण्डेय उवाच ॥ एवमुक्त्वा गते सूर्ये कल्पयित्वा रथोत्तम्म् ॥ चिक्षेप स शरानाशु यत्र ७ तत्र द्रुमोत्करम् ॥१०॥ ते क्षित्ता ८ हैहयेशेन शातकोम्भोऽज्ज्वलाः शराः ॥ जज्वलन्नृपशार्दूल ज्वलंतो वने द्रुमान् ॥ ११॥ डुंदुभिखननिर्घोषो विस्फुलिंगगणाकुलः ॥ आलोलोर्चिर्महावेगः सर्वसत्त्वभयंकरः ॥ १२॥ निदहन् वृक्षपुंजानि तप्तकांचनसुप्रभः ॥ ज्वालामाली तदा भाति सर्वतः पावकः क्षितौ ॥ १३॥ वनेषु दह्यमानेषु तापतृष्णादिता मृगाः ॥ जलाशयेषु चित्रेषु गतच्छायाभिक्षेकु च ॥ १४ ॥ दहाहामिस्तदा वृक्षा न्यायाविद्धं १० जगत्पतेः ॥ बभूवाऽथ प्रशांताचिः कृत्वा लघ्वीं ११ वसुन्धराम् ॥ १५॥ न जज्याल तथा ९ वह्निः कार्तवीर्यशरैरवपि ॥ कृतकार्यं तदा गत्वा कार्तवीर्यो दिवाकरम् ॥ १६ ॥ विनिवृत्य रथं पश्चाद्यावन्माहिष्मतीं पुरीम् ॥ स गच्छंस्त्रैवं ददृशे १२ वसिष्ठं सर्वतेजसम् ॥ १७॥ तेन शप्तो


१ 'मृगेन्द्रो करिष्यामि कतु निःक्षां यां प्रजाम्' इति ख० । २ 'केनान्नेन भवान् तृप्येत्' इति ख० । ३ 'तन्ममाऽऽचक्ष्व भगवान् स्वदनेन मा चिरम्' इति ख० । ४ 'ज्वरान्भोक्तुमुद्यतम्' इति ख० । ५ 'यथेच्छया' इति ख० । ६ 'पादपान्' इति ख० ७ 'यत्र' इति ख० । ८ 'ते क्षित्वा हैहयेशेन' इति ख० । ९ 'तथा' इति कः । १० 'यावदिच्छं' इति ख० । ११ 'साध्वीम्' इति ख० । १२ 'सदक्षी' इति ख० ।

वि० पृ० ॥ १८॥

प्र० खं० अ० ३२

वेने दृषे स्वर्कैः १ नृपपुङ्गवः ॥ यस्याच्छित्त्वा वरं दर्भं मम पार्थिवशासन । ॥ १८ ॥ तस्माच्चिच्छेते वाहून् ब्राह्मणः शंसितव्रतः ॥ तेन शापेन विमत्स्य रामः क्षत्रियनन्दनः ॥ १९ ॥ तस्य बाहून्त्वं सर्वं चिच्छेद भृगुनन्दनः ॥ २० ॥ वज्र उवाच ॥ रामस्तु कस्मिन्त्स बभूव वंशे कथञ्च राजास्तु महाबलस्य ॥ चिच्छेद दोर्दण्डवनं सुवीरः सर्वं ममाऽऽचक्ष्व भृगुप्रधान ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वनदाहो नामैकत्रिंशत्तमोऽध्यायः ॥ ३१ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ सर्ववेदविदांमुख्य ब्रह्मणस्तनयो भृगुः ॥ पौलोम्यां जनयामास च्यवनं भगवान्भृगुः ॥ १॥ ख्यातिजा सुकन्यापि च्यवनाद्बभ्रुवन्दनम् ॥ आत्मवान् दधीचञ्च जनयामास धार्मिकौ ॥ २ ॥ ऋषिपत्नी महाभागा चाऽऽत्म वानस्य नाहुषी ॥ और्वं संजनयामास ऋचीकाप्सरसंजितम् ॥ ३ ॥ येन क्रोधाग्निभूतेन दग्धोऽभिवडवामुखः ॥ तस्य सत्यवती भार्या कौशिकी गाधिनंजा शुभा ॥ ४ ॥ तस्यां संजनयामास पुत्राणां शतमुर्जितम् ॥ जमदग्निश्च वत्तंस श्रेष्ठ मद्भुतमाद्‌भुभौ ॥ ५ ॥ क्षीणां चरुविपर्यासाज्जा मदग्नि रजायत ॥ ६ ॥ वज्र उवाच ॥ कथ्यतान्मे यतो ब्रह्मन्श्वादवस्य च संभवः ॥ सम्भवं जमदग्नेश्च श्रोतुमिच्छामि तत्त्वतः ॥ ७॥ मार्कण्डेय उवाच ॥ भृगूणां हैहयानाञ्च वैरादासीत्सुदारुणम् ॥ घनेहेतोस्तदा पापैर्हैहयैर्भृगवो हताः ॥ ८॥ येऽपि गर्भंगता बालास्तैऽपि तैनिपातिताः ॥ गर्भेष्नु हन्य मानेषु ऋषिः परम्दुःखितः ॥ ९ ॥ अंशं धारयामास गर्भं दीप्तेनतेजसम् ॥ पूर्णे काले तदा बाल ऊरुं भित्त्वा व्यजायत ॥ १० ॥ जात मात्रस्तु चुक्रोध देवतानां महातपाः ॥ हैहयैर्हन्यमानानां बन्धूनां सुमहात्मनाम् ॥ ११ ॥ भवद्भिर्न कृतं त्राणं तस्मात्सर्वान्दहाम्यहम् ॥ तं क्रुद्धं पितरो हन्तुं वारयामासुरोजसा ॥ १२॥ क्रोधः पुत्र न कर्तव्यः स हि शत्रुर्नृणां सदा ॥ वयं सर्वं जितेक्रोधाः क्षत्रियैर्नानिपातिताः ॥१३॥ अस्माकं न वधे शक्ताः क्षत्रिया हैहयाधियाः ॥ एवमुक्तेः पितृगणैश्चक्रेत्वननथानथाऽब्रवीत ॥ १४ ॥ न हि मे शाम्यति क्रोधो युष्मन्निधनका रितः ॥ तस्माद्देवान्प्रणल्प्वह्निहनिनुष्यामि तेजसा ॥ १५॥ एतस्मिन्नेव काले तु महतीनामयमाकुला ॥ जगाम शरणं विष्णुं मर्वभूतभवोद्भवम् ॥ ॥ १६ ॥ श्रीमभगवानुवाच ॥ देवान्प्रति समुत्पन्नं क्रोधमौर्वस्य यच्छुभम् ॥ तं प्रविश्य गमिष्यामि तोयं सर्वं वसुन्धरां ॥ १७॥ मार्कण्डेय उवाच ॥ इत्येवमुक्त्वा वसुधामौर्वं क्रोधं समाविशत ॥ भूत्वा च वडवावक्त्रन्चूर्णगङ्गिनिम्मृतः ॥ १८ ॥ न भ्रातगे भविष्यन्ति पुत्र सर्वे दिवौकसः ॥ ॥ १८ ॥


१ 'यस्मात्त्वा वो दत्तो मया पार्थिवशासन' इति ख० । २ 'और्वं त जनयामास ऋचीकमिति' इति ख० । ३ 'नेने'जा' इति ख० । ४ 'चीर्णा' इति विज्ञानायता' इति ख० । ५ 'कौशल्या' मे ख्या बह्वन्' इति ख० । ६ 'उरणाए' इति ख० । ७ तोयभयाकुला' इति ख० ।

क्रोधश्वाऽयं तव वृथा न भविष्यति पुत्रक ॥ १९ ॥ एवमुक्तस्तु भृगुणा ऋचीकोऽग्निमभाषत ॥ पूर्वोत्तरे समाप्लाव समुद्रे वस पुत्रक ॥ २० ॥ पिबंस्तरौ सदा वेगमम्भसां सुमहाद्युते ॥ अस्माकं तु कुले भावी क्षत्रधर्मा द्विजोत्तमः ॥ २१ ॥ क्षत्रियाणां समुच्छेदं यः करिष्यत्यनेकशुः ॥ एवमुक्तस्तु पित्रा वै पिबन्मासाष्टकं जलम् ॥ २२ ॥ चैत्रमासं समारभ्य नित्यमास्ते सुखी जले ॥ पीतं मासाष्टकं तोयं जठरे भस्मसात्कृतम् ॥ ॥ २३ ॥ फूत्कृत्य मासांश्चतुरः शिशिराख्ये महीतले ॥ नित्यं हिमोथं सृजति तस्मादपि समीरणः ॥ २४ ॥ हिमाचले पातयति प्रवाहो नाम पार्थिव ॥ एषा तोयाद्धिमोत्पत्तिर्हेमंतौ यस्य संभवः ॥ २५ ॥ बुद्धिक्षयविहीनस्य कथितं तव धार्मिक ॥ २६ ॥ उत्पत्तिरेषा तव वाडवाग्नेः प्रोक्ता मया भूमिपतिप्रधान ॥ श्रुत्वाऽपि यां मुञ्चति मोहजालं संसारजातेश्च यथा प्रबुद्धः ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे वडवाग्न्युत्पत्तिर्नाम द्वात्रिंशत्तमोऽध्यायः ॥ ३२ ॥

॥ मार्कण्डेय उवाच ॥ ॥ और्वस्य भार्या धर्मज्ञा नाम्ना सत्यवती शुभा ॥ वने पर्यचरद्भक्त्या गाधिजा भृगुनन्दनम् ॥ १ ॥ तस्याः परमया भक्त्या भर्ता तोषमुपागतः ॥ उवाच तां वरोराहांतुष्टोऽहं भृगुनन्दनः ॥ २ ॥

॥ ऋचीक उवाच ॥ ॥ वरं वरय सुश्रोणि यत्ते मनसि वर्तते ॥ तोषितोऽहं त्वया भद्रे वने शुश्रूषया वरे ॥ ३ ॥

॥ सत्यवत्युवाच ॥ ॥ मातुः प्रयच्छ मे पुत्रं भगवन्वीर्यवत्तरम् ॥ पुत्रं मम च धर्मज्ञं युतं ब्राह्मणतेजसा ॥ ४ ॥

॥ ऋचीक उवाच ॥ ॥ चरुद्वयं करिष्यामि मातुरर्थे तथा तव ॥ यस्य संशनात्पुत्रं त्वं चैव जनयिष्यसि ॥ ५ ॥

॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्त्वा तदा चक्रे ऋचीकस्तु चरुद्वयम् ॥ एकस्मिन्सकलं शांतं तेजश्चक्रे सर्वैष्णवम् ॥ ६ ॥ श्वश्रूयै तं चरुं कृत्वा द्वितीयं स न्यवेशयत् ॥ ब्राह्मं रौद्रञ्च यत्तेजः पत्न्यर्थे कृतवांश्चरुम् ॥ ७ ॥

॥ ऋचीक उवाच ॥ ॥ अयं प्राश्यस्त्वया भद्रे त्वयं मात्रा चरूस्तव ॥ अश्वत्थालिङ्गनं कार्यं मात्रा तत्र तदा शुभे ॥ ८ ॥ तथैवोदुम्बरस्याऽपि त्वया राजीवलोचने ॥ ९ ॥

॥ मार्कण्डेय उवाच ॥ ॥ एवमुक्ता ततो गत्वा मात्रे सर्वं न्यवेदयत् ॥ १० ॥ ततस्तामब्रवीन्माता गाधेः पत्नी यशस्विनी ॥ ध्रुवं भगवता पुत्रस्तव पुत्रचिकीर्षया ॥ ११ ॥ श्रेष्ठं तेजसा युक्तश्चरुरेष कृतः शुभे ॥ तस्माच्चरुविपर्यासं मद्यं कुरु मा चिरम् ॥ १२ ॥ अलिङ्गनं विपर्यासं द्रुमयोः क्रियतां तथा ॥ सा मातुर्वचनं सर्वं चक्रे गौरवयन्त्रिता ॥ १३ ॥ संगर्भा स गते काले भर्ता


१ 'समुक्षन् स पुत्रकं' इति ख० ।
२ 'चैत्रमासात्त्मारम्य नित्यमास्ते सुखे जले' इति ख० ।
३ 'हिमाद्यम्' इति क० ।
४ 'संसारजातश्च यथाप्रबुद्धः' इति ख० ।
५ 'तस्याः स परया भक्त्या' इति ख० ।
६ । 'वदे' इति ख० ।
७ 'अश्वत्थे तं चरुं कृत्वा' इति ख० ।
८ 'प्राशभतः' इति ख० ।
९ 'श्वेतेन' इति ख० ।
१० 'सगर्भा चोगते' इति ख० ।

वि० ध० <br> ॥ ११ ॥प्र० सं० <br> अ० १४

वचनमब्रवीत् ॥ १४ ॥ ऋचीक उवाच ॥ ध्रुवं चरुविपर्यासो दुर्मेधश्च त्वया कृतम् ॥ येन त्वमसितापाङ्गि युक्ता क्षत्रियेतेजसा ॥ १५ ॥
ब्राह्मेण तेजसा युक्तं कृतवानस्मि ते चरुम् ॥ मातुरस्ते चारुसर्वाङ्गि तथा क्षत्रियेतेजसा ॥ १६ ॥ कृतं चरुविपर्यासं सा विप्रं जनयिष्यति ॥
क्षत्रधर्मरतं पुत्रं विप्रं त्वं जनयिष्यसि ॥ १७॥ सत्यवत्युवाच ॥ मातुर्माताकृतमिदं भगवन्कर्तुमर्हसि ॥ क्षत्रधर्मरतः पुत्रो न मे भवितुमर्हति ॥
॥ १८ ॥ ऋचीक उवाच ॥ एवमस्तु न ते पुत्रः क्षत्रधर्मा भविष्यति ॥ पौत्रस्त्ववशं भविता भाव्यमेतद्विधोदितः ॥ १९ ॥ सत्यवत्युवाच ॥
सर्वेश्वरत्वं भगवात्किमर्थं पौत्रस्य मे क्षत्रियभावमुग्रम् ॥ निर्वार्ततुं नेच्छसि बाढमेवं वदस्व तन्मे यदि ते न गुह्यम् ॥ २० ॥ इति श्रीविष्णुध
र्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे चरुविपर्यासो नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥ ऋचीक उवाच ॥ ब्रह्मोपोढस्त्रिः सुतः सांख्यः
सुतस्तस्यापि चन्द्रमाः ॥ सोमस्य तु बुधः पुत्रो बुधपुत्रः पुरूरवाः ॥ १ ॥ आयुस्तत्तनयस्तस्य सुवस्तनयस्तस्य च। लेकस्तस्य चात्मजः ॥ २ ॥
पुत्रः सुहोत्रस्तस्य चाऽऽत्मजः ॥ २ ॥ तस्य जह्नुः स्मृतः श्रीमान्येन गङ्गा तु जाह्नवी ॥ सुव्रतस्तनयस्तस्य चार्कस्तस्य चात्मजः ॥ ३ ॥
तस्य पुत्रो बलाकश्च कुशिकस्तस्य चाऽऽत्मजः ॥ महोदयपुरवरे स तु नित्यं कृतालयः ॥ ४ ॥ एतस्मिन्नेव काले तु भृगुः च्यवनमन्वगात्
स्ववंशसंकरं बुद्ध्वा कुशिकेश्यो महायशाः ॥५॥ कुशिकानां समुच्छित्यै कुशिकं नृपतिं ययौ ॥ पूजितः कुशिकेनापि कुशिकं वाक्यमब्रवीत् ॥६॥
राजन्यक्ष्यामि कार्ये ते यदि शुश्रूषते नृप ॥ सभायेंण च कर्तव्यं रोजञ्छूश्रूषणं त्वया ॥७॥ कुशिक उवाच ॥ स्वमेवेंदं तव गृहं यथेष्टं वद भार्ग
व॥ शक्तितस्तव शुश्रूषां कारिष्ये भार्यया सह ॥८॥ ऋचीक उवाच ॥ गृहोपेतं तं च्यवनं शुश्रूषुरनृपतेःसुतः ॥ पूजयामास मन्तेनं सर्वकामसमृद्धिभिः ॥९॥
बहुसस्यान्दिगन्दणगांश्चयवनो नावबुद्ध्यति ॥ निराहारः सभायंस्तं पर्युपास्ते महीपतिः ॥ १० ॥ अकाले प्राशयेच्चान्नं कदाचिदपि दुर्लभम् ॥
कृतमित्येव तद्राजा निवेदयति सत्वरम् ॥११॥ कदाचिद्बहु भुञ्जीत न भुङ्क्ते दिवसान्वहून् ॥ धनेन च तदाँयेन तप्यमानाम्रे डिजाय् ॥ १२ ॥
कदाचिद्द्बोपयत्येव वह्नि तातग्रहोद्भवम् ॥ कदाचिच्च रथे युक्तं सभायों गजपुङ्गवम् ॥ १३॥ गजमार्गे प्रतोदेन तुदन्वयति यथेच्छया ॥ तच्चाऽऽसौ
हितमेवेदं कर्मणा मनसा गिरा ॥ १४॥ समाचरति यत्नेन भार्गवप्रियकाम्यया ॥ यदा न वृजिनं किंचिदृष्टवान्मन्मथ भार्गव ।। १५ ।। तदा


१ 'ब्राह्मेण तेजसा युक्तः कृतवानस्मि ते चरुः' इति क० । २ 'मातृस्त्वतिकृतमिदम्' इति ख० । ३ 'को हेतुर्हिद' इति ख० । ४ 'रेखे दुर्योध' तथा' इति क० । ५ 'अथयद्वल' इति कु० । ६ 'बहुभूतोऽस्म्' इति ख० ।

तस्य वरं प्रादाद्धरं यन्मनसेप्सितम् ॥ १६॥
च्यवन उवाच ॥
वरं वरय भद्रं ते प्रसन्नोऽहं तवानघ ॥
निर्व्याजं तेऽनया राजन्संचर्याऽनघया सदा ॥ १७॥
कुशिक उवाच ॥
यदि मे त्वं प्रसन्नोऽसि भृगूणां वंशवर्धन ॥
वंशो ब्राह्मणतां यातु वरमेतद्वृणोम्यहम् ॥ १८ ॥
च्यवन उवाच ॥
एतदेवं ध्रुवं भावि तन्मे वच्यसे नृप ॥
अस्मद्वंशानुवंशस्य ब्राह्मण्यं ते भविष्यति ॥ १९॥
तव वंशकृतोऽस्माकं क्षत्रधर्मा द्विजोत्तमः ॥
भविष्यति नरेन्द्रेदं चैतत्सुविदितं मम ॥ २० ॥
एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वकुलस्य ते ॥
विक्षोभैः क्रोधनार्थं ते मुहुर्ह्यवसं चिरम् ॥ २१॥
विकारो न ततो दृष्टो मया भाव्यर्थनोदितम् ॥
तस्मात्पुत्रस्त्वया प्राप्तो वरमेतत्सुदुर्लभम् ॥२२॥
कुशाश्वो नाम पुत्रस्ते भविताऽतिस्वधार्मिकः ॥
तस्यापि भविता पुत्रो गाधिरित्येव विश्रुतः ॥ २३ ॥
विश्वामित्रः सुतस्तस्य ब्राह्मण्यमुपलप्स्यति ॥
कृत्वा वैरं वसिष्ठेन तपसा महता नृप ॥ २४ ॥
त्रीणां च कुलपर्यासाद्द्विशाखस्य संभवः ॥
अस्मत्सेवानुभावेन निर्वृतो भव पार्थिव ॥ २५॥
यत्ते विनाशितं द्रव्यं भविता तद्विशेषवत् ॥
भार्यया सहितश्चैव जराहीनो भविष्यसि ॥२६॥
एवमुक्त्वा गते विप्रे राजा पूर्णमनोरथः ॥
उवाच सुमुखीं भार्यां जराशोकविवर्जिताम् ॥२७॥
एतत्सूनृतं च्यवनस्य वाक्यं कस्यास्ति शक्तिर्भुवि मानवस्य ॥
कर्तुं मृषा तेन वरोरुमध्ये पौत्रस्तवोग्रो भविता त्रिलोके ॥ २८ ॥
इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे कुशिकवरप्रदानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥

मार्कण्डेय उवाच ॥
एवमुक्ता सत्यवती काले पूर्णे द्विजोत्तम ॥
जनयामास धर्मज्ञं जमदग्निं तपोधनम् ॥ १ ॥
ततश्च जनयामास वात्स्यं भृगुकुलोद्वहम् ॥
ततोऽन्यानपि पुत्रांस्तु गोत्रकारान्पृथक्पृथक् ॥ २ ॥
गाधेरपि तदा भार्या जनयामास पुत्रकम् ॥
विश्वामित्रमिति ख्यातं युतं ब्राह्मणतेजसा ॥ ३ ॥
जितो युद्धे वसिष्ठेन मन्युना यः स पार्थिवः ॥
ब्राह्मण्यं तपसा लेभे धर्मात्मा संशितव्रतः ॥४॥
राजा प्रसेनजिन्नाम सुतां तस्योपयेमेऽथ रेणुकाम् ॥
पत्यर्थे प्रतिजग्राह जमदग्निर्महातपाः ॥ ५ ॥
सा तं वनगतं भक्त्या नित्यं पर्यचरद्वने ॥
कदाचिदथ घर्मार्त्ता मध्यं प्राप्ते दिवाकरे ॥ ६ ॥
क्रीडार्थं प्रास्यत शरांश्चिरं जमदग्निर्महातपाः ॥
क्षिप्तान्शरांस्तेन रेणुका चारुलोचना ॥ ७ ॥
आनयामास धर्मज्ञा भर्तुर्वचनकारिणी ॥
अथार्कतप्तां सिकतां दह्यमानाङ्घ्रिपङ्कजा ॥ ८ ॥
पुष्पितस्य च वृक्षस्य छायामासाद्य संस्थिता ॥
विश्रम्य तु मुहूर्तं सा भर्तुर्निन्ये शरोत्तमम् ॥९॥
तां प्राप्तां कुपितो भर्ता जमदग्निरभाषत ॥
क्रीडतो मे शरैर्भद्रे विघ्नं किं कृतवत्यसि ॥१०॥
न बिभेषि च मां भद्रे त्वथ वाऽस्य


१ 'वंशे कृते' इति ख०।
२ 'एतज्ज्ञात्वा समुत्सहे चिकीर्षुः स्वाकुलस्य ते' इति ख०।
३ 'कुशाश्वनामा' इति ख०।
४ 'ब्राह्मण तेजसा' इति ख०।
५ 'धर्मार्त्तो' इति ख०।
६ 'पुष्पितस्य शरीरस्य' इति ख०।

**वि०ध०** | **प्र०सं०**
--- | ---
**॥ २० ॥** | **अ० ३६**

वपन्यसे ॥ ११ ॥ रेणुकोवाच ॥ अर्काभितापसंतप्ता क्षणमात्रं महाव्रत ॥ अपारयन्ती विश्रान्ता तस्मात्त्वं क्षन्तुमर्हसि ॥ १२ ॥  
॥ मार्कण्डेय उवाच ॥ रेणुकाया वचः श्रुत्वा जमदग्निर्महातपाः ॥ जातेरपस्तदा सूर्ये सायकान्धनुषासृजत् ॥ १३ ॥ एत-  
स्मिन्नेव काले तु विप्ररूपो दिवाकरः ॥ श्रीशमागम्‍य तेजस्वी जमदग्निमभाषत ॥ १४ ॥ सूर्य उवाच ॥ स्वभाव एष मे ब्रह्मन्  
यदहं दहनात्मकः ॥ वर्ततश्च स्वभावेन न मे त्वं क्रोद्धुमर्हसि ॥ १५ ॥ पुनस्तेऽहं भविष्यामि त्वय्यासेव द्विजोत्तम ॥ सुकार्यं  
कारिष्यामि लोकानाञ्च हितं महत् ॥ १६ ॥ इयञ्च पत्नी धर्मज्ञा रेणुका तव साम्प्रतम् ॥ छत्रोपानहमेतन्मे गृहीत्वा वर्णविनी ॥ १७ ॥  
तस्याऽनुकम्पया छत्रं तथा ब्रह्मन्पदानहौ ॥ मया सृष्टौ जगत्यां स्त्रिस्त्रितयमेव भविष्यतः ॥ १८ ॥ छत्रोपानहयोर्दाने लोके श्रेष्ठं भविष्यति ॥ छत्रोपा-  
नहदानेन नरः स्वर्गं गमिष्यति ॥ १९ ॥ एवमुक्तस्तु सूर्येण जमदग्निर्महातपाः ॥ संपूज्य सूर्य जग्राह सवितुः सकलं वचः ॥ २० ॥ ततः सूर्ये  
गते देवी सूर्यपुत्रा पुरा सती ॥ पुत्रं कनीयसं रामं जनयामास रेणुका ॥ तनयाश्चाभवन्पूर्वे वसुर्विश्वावसुस्तथा ॥ २१ ॥ तेषां जघन्यजो रामो  
विष्णुर्मानुषरूपधृक् ॥ २२ ॥ अंशेन जाते भुवि देवदेवे सुनिर्वृता भूमिरथो बभूव ॥ हतांश्च मेने दितिजानजातां पीडां नृणां स्वल्पां च सा धरित्री  
॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामोत्पत्तिर्नाम पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५ ॥ मार्कण्डेय उवाच ॥  
अथ बाल्ये समुत्तीर्णे रामो भृगुकुलोद्वहः ॥ शुश्रूषमाणः पितरं नित्यमास्ते महायशाः ॥ १ ॥ एतस्मिन्नेव काले तु गते वनगते तदा ॥ आजगाम  
महातेजा राजा चित्राङ्गदो वनम् ॥ २ ॥ विहर्तुं सह गन्धर्विर्देवराजसमद्युतिः ॥ तं दृष्ट्वा रेणुका चक्रे स्पृहां भोगेषु भामिनी ॥ ३ ॥ जगाम  
मनसा तं सा राजानं कामसन्निभम् ॥ तस्मिन्नेव क्षणे सा तु भ्रष्टा ब्राह्मणतेजसा ॥ ४ ॥ गताश्रियं तु तां दृष्ट्वा जमदग्निर्महातपाः ॥  
पुत्रानुवाच तत्क्रूरो वध्यतां जननी स्वका ॥ ५ ॥ ते विचार्य ततः सर्वे मातृगौरवमुत्तमाम् ॥ नैव चक्रुः पितुर्वाक्यं  
ताञ्छशाप स भार्गवः ॥ ६ ॥ यूयं तिर्यक्त्वमधमा नपुंसंज्ञा भविष्यथ ॥ इध्माभारमुपादाय रामो गतिकरः पितुः ॥  
॥ ७ ॥ अथाऽऽश्रममगात्प्रातः पितरं तं समवन्दत ॥ जहीमां मातरं क्षुद्रां राम मा त्वं चिरं कृथाः ॥ ८ ॥ एवमुक्तस्तु पित्रा तु तद्वाक्यं ॥ १ ॥ २ ॥

---
१ 'सूर्येण' इति ख० । २ 'परं स्वर्गे गमिष्यति' इति ख० । ३ 'मनुपुत्रा' इति क० । ४ 'अनेन' इति क० । ५ 'हतञ्च तेने तन्महे च जन्म नृणाँ मने सुनिर्वृताभूदभूत्त' इति ख० । ६ 'मभवत्' इति ख० । ७ 'प्रथः' इति ख० । ८ 'पितरस्' इति क०

समनन्तरम् ॥ शिरश्चिच्छेद तीक्ष्णेन रामः परशुना तदा ॥ ९ ॥ ततोषोथ पिता तस्य ततो धर्मभृतां वरः ॥ १० ॥ जमदग्नि
रुवाच ॥ स्वच्छन्दमरणं पुत्र तुष्टे त्वं मयि लप्स्यसे ॥ यावच्च वैष्णवं तेजस्त्वयि तिष्ठति पुत्रक॥११॥ तावदेव न ते युद्धे कश्चिज्जेता भविष्यति॥
भविष्यति च धर्मात्मा रामो दशरथात्मजः ॥ रघूवंशे समुत्पन्नो विष्णुर्मानुषरूपधृक् ॥ १२ ॥ यदा समेष्यते तेन तदा वैष्णवंतेजसा ॥ कृतकर्मा
विमुक्तस्त्वं स च युक्तो भविष्यति ॥ १३ ॥ ततः परं त्वया पुत्र न कार्यं शस्त्रधारणम् ॥ आर्तानांत्राणमृते वीर स्त्रीब्राह्मणकृतेऽथ वा ॥ यथेप्सितं
चाऽप्यपरं वरं वृणुष्व पुत्रक ॥ १४ ॥ राम उवाच ॥ गुरुश्रेष्ठ समुत्थानं जनन्याः कथयाम्यहम् ॥ अस्मृतिश्च तथा तस्या भ्रातृणाञ्च • तथा
ऽस्मृतिम् ॥१५॥ जमदग्निरुवाच ॥ एवमस्तु महाभाग तपसा महता तथा ॥ समाराधय देवेशं शङ्करं नीललोहितम्॥ १६॥ मार्कण्डेय उवाच ॥
एवमुक्ते समुत्तस्थौ रेणुका चारुहासिनी ॥ रामस्य भ्रातरः सर्वे सुप्तोत्थाप्तास्तथैव ते ॥१७॥ पित्रा रामस्तथोक्तस्तु हिमवत्प्रचलोत्तमै ॥ तपस्तेपे
महातेजा रुद्राराधनकाम्यया ॥ १८ ॥ एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥ सैंहिकेयभयत्रस्ताः शङ्करं शरणं गताः ॥ १९ ॥
॥ देवा ऊचुः॥ ॥ भगवन् देवदेवेश प्रणतार्तिविनाशन ॥ सैंहिकेयैर्वयं सर्वैः स्थानेभ्योस्त्ववरोपिताः ॥ २० ॥ सैंहिकेयानथाऽऽश्रित्य
दैत्याः शतसहस्रशः ॥ सर्वे वसन्ति सततं तेषां यत्नं वधे कुरु ॥ २१ ॥ ॥ महादेव उवाच ॥ ॥ शृण्वन्तु देवताः सर्वा
दानवा देवकण्टकाः ॥ रामेणाऽहं वधिष्यामि नरबुद्ध्या यतस्तु तान् ॥ २२ ॥ मार्कण्डेय उवाच ॥ गतेषु देवसंघेषु देवदेवः पिनाकधृत् ॥
आहूय भार्गवं राममिदं वचनमब्रवीत् ॥ २३ ॥ महादेव उवाच ॥ सैंहिकेयान्सुदारुणान्सुरांश्चापि पुत्रक ॥ समर्थस्तन्भवान्हन्तुं नाऽन्यः
कश्चन विद्यते ॥ २४ ॥ राम उवाच ॥ अस्त्रग्रामं समर्पं मे प्रपच्छ भगसूदन ॥ येन तान्सुदुराचारान्घातयिष्यामि दानवान् ॥ २५ ॥ महा
देव उवाच ॥ किं तवास्त्रैर्गुरुश्रेष्ठ विष्णुस्त्वं नासि मातुपः ॥ व्यस्त्रास्यादपि न ते शक्तो योद्धुं प्रमुक्तवस्त्वव ॥२६॥ राम उवाच ॥ घातयिष्याम्यहं
सर्वांन्सैंहिकेयान्सुरासदान् ॥ त्रिपुरारे महाभाग त्वदाज्ञापरिवृंहितः ॥ २७ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तोत्रिपुरान्तकेत रामस्त्रिनेत्रप्रतिम
प्रभावः ॥ आदाय तीक्ष्णं परशुं जगाम यत्र स्थितास्ते च रिपुप्रयानाः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे रामस्य
महेश्वरदर्शनो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ एतस्मिन्नेव काले तु काष्ठोदकीः सुदारुणाः ॥ बभूवुः सुमहौ


१ 'समन्ततम्' इति क० । २ 'ततोषोध ततस्तस्य पिता धर्मभृतां वरः' इति ख० । ३ 'गुरुश्रेष्ठं' इति ख० । ४ 'दुर्बुद्ध' इति क० । ५ 'बुद्धात्मान्' इति ख० ।

वि० ध०
॥ २१ ॥
प्र० खं०
अ० ३८

त्पाताः सैंहिकेयनिवेशने ॥ १॥ चचाल शब्दं कुर्वाणा मही सवनकानना ॥ पपात महती चोल्का मध्येनाऽऽदित्यमण्डलात् ॥ २॥ अपसव्येण[^1]
शशाङ्को संछन्नौ तमसा तथा ॥ प्रववर्षुश्च रक्तं भूरिं मेघा भयावहम् ॥ ३॥ शस्त्राणि मुमुचुर्धूममसकृद्द्रुवाहनाः[^2] ॥ इन्द्रचापसवर्णन परि-
वेशेन भास्करः ॥ ४ ॥ परिविष्ट उभे सन्ध्ये चन्द्रश्च सकलां निशम् ॥ सैंहिकेयो विपत्त्योपि साल्वस्य सुमहात्मनः ॥ ५ ॥ आक्रम्य जन्मन-[^3]
क्षेत्रं केतुस्तस्थौ महाग्रहः ॥ ववृस्तीक्ष्णा महावाताः क्षोभयन्तो दिशो दश ॥ ६ ॥ ध्वांक्षाश्चाऽऽसिक्तबन्धाङ्गो मृगाश्वासन्नसस्त्वनाः ॥
न्यलीयन्त ध्वजाग्रेषु दानवानां दुरात्मनाम् ॥७॥ क्रव्यादपक्षिसंघाता ह्यपसव्यं भयानकः॥ शुष्कन्धनसमृद्धोपि न जज्वल हुताशनः ॥८॥
वपूंषि दानवेन्द्राणां न प्राकाशंत चादव ॥ उष्णशीतविपर्यास ऋतूनामप्यदृश्यत ॥ ९ ॥ प्रसुस्तर्बुद्बुदा रक्तं व्यशीर्यन्त च भूषणः ॥ खरा गोषु
व्यजायन्त मार्जारो मूषिकासु च ॥ १० ॥ अकाले पुष्पिता वृक्षा अकाले फलिता द्रुमाः ॥ विना वर्षं महानभ्रः प्रतीपं जग्मुरोजसा ॥ ११ ॥
भयानकाश्चातभयः सुघोरानुत्पातसंबाधान्प्रसमीक्ष्य राजा ॥ साल्वः समाहूय भृगोस्तनूजं दैत्यैः समेतोध्या चक्रे मन्त्रम् ॥ १२ ॥ इति
श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे औत्पातिकं नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७ ॥ ॥ मार्कण्डेय उवाच ॥ ॥
रत्नचित्रां सविपुलां समासाद्य सभां तदा ॥ सिंहिकायतनयः साल्वः शुक्रं वचनमब्रवीत् ॥ १ ॥ साल्व उवाच ॥ दृश्यन्त एते भगवन्नु-
त्पाता घोरदर्शनाः ॥ आचक्षाणा महायुद्धं विनाशमपि दारुणम् ॥ २ ॥ रिपुं न चैव पश्यामो येन युद्धं भविष्यति ॥ सर्वज्ञत्वाद्भवान्वेत्ति
तन्नः प्रब्रूहि पृच्छताम् ॥ ३ ॥ शुक्र उवाच ॥ आराध्य देवं ब्रह्माणं तपसा सिंहिका पुरा ॥ त्रिदशेभ्यो ह्यवध्यत्वं स्वसुतानामलभत सा ॥ ४ ॥
वरदानकृतोत्साहैर्भवद्विर्विबुधा मख ॥ निर्जितास्त्रिदशाः सर्व शंकरं शरणं गताः ॥ ५ ॥ तेन युष्मद्वधार्थाय विष्णुर्मानुषरूपधृक् ॥ जमदग्निसुतो
रामः प्रथितो रणकर्कशः ॥ ६ ॥ स चासौ महातेजा मातृपं स तु साम्प्रतम् ॥ मनुष्याश्च भयं घोरं बुद्ध्वन्मज्वाऽसुरमुत्तमम् ॥ ७ ॥ साल्व उवाच ॥
भगवन् सर्वदेवानामीश्वरो मधुसूदनः ॥ तस्मात्परतरं देवं नाऽन्यं कञ्चन शुश्रुम ॥ ८ ॥ किमर्थं स महातेजाः शंकरस्य महात्मनः ॥ आज्ञाकारी
भृगुश्रेष्ठ सैंहिकेयं जिघांसति ॥९॥ शुक्र उवाच ॥ यदा यदा हि धर्मस्य म्लानिर्भवति दानव ॥ अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजत्यसौ ॥१०॥
कदाचिद्देवदेवेषु कदाचिन्मनुजेषु च ॥ कदाचिदथ तिर्यक्षु ज्ञात्वा कार्यबलाबलम् ॥ ११ ॥ यदा भवति देवेषु देवश्चेष्टेत तदा ॥ तिर्यक्षु च यदा

---

[^1]: 'मध्यमादित्यमण्डलम्' इति ख० ।
[^2]: 'शस्त्राणि मुमुचुर्धूम मसकृच्च च वाहनाः' ख० ।
[^3]: 'जन्मानि' इति क० ।

॥ २१ ॥

देवस्तित्यमवच्छेदते तदा ॥ १२ ॥ यदा भवति मातुल्ये तदा भवति मर्त्यवत् ॥ मातुल्यं रूपमसाध्य तपसा विपुणान्तकम् ॥ १३ ॥ आराधयाम्यास
हरं स्वदेहे परमं तप ॥ स तु देववरस्याज्ञां पुरस्कृत्य महातपाः ॥ १४ ॥ युष्मद्भार्यामायाति राग्येण कृतलक्षणः ॥ तस्माच्छक्रेण संधानं भवतो
मम रोचते ॥ १५ ॥ त्रिविष्टपश्च देवानां भवन्तवसुरसत्तम ॥ पातालनिलया यूयं निवमध्वं गतज्वराः ॥ १६ ॥ अहं निवारयिष्यामि शंकरेण न
भार्गवम् ॥ अनन्या निर्विशध्वं च मनुष्येण निराकृताः ॥ १७ ॥ मार्कण्डेय उवाच ॥ एवमुक्तास्तु शुक्रेण बुद्धा दैत्यबलाब्धयः ॥ उचुर्वाक्यं सुसं-
रब्धाः शुक्रं भृगुकुलोद्वहम् ॥१८॥ दैत्या उचुः ॥ एकत्राऽधिष्ठितं सर्वं जगत्स्थावरजंगमम् ॥ यदस्मात्मत्युध्येत न भीरुत्त्वादपि विद्यते ॥१९॥
ते कथं मातृपाङ्गोता नाकं त्यक्ष्याम शत्रवे ॥ शंकरं तं विजेष्यामो येनाऽसौ प्रपितो द्विजः ॥ २० ॥ शुक्र उवाच ॥ एकत्र
पिंडितं सर्वं जगत्स्थावरजंगमम् ॥ एकत्र भगवान्विष्णुर्जगतः सोऽतिरिच्यते ॥ २१ ॥ सं न शक्यो युधा जेतुं नैव देवो
महेश्वरः ॥ ते यूयं प्राकृतीं बुद्धिं त्यक्त्वा सर्वे महासुराः ॥ संधिं कुरुत देवेन शक्रेणाऽमित्रघातिना ॥ २२ ॥ शक्राक्यं सर्वदुष्टानां
देवदेवो जनार्दनः ॥ येन दैत्या विनिहताः पूर्वं पूर्वतराश्च ये ॥ २३ ॥ शंबरो नमुचिः शम्भुः कार्त्तवीर्यः कृतारंगमः ॥ हिरण्यक-
शिपुः केशी हिरण्याक्षो मदोत्कटः ॥ २४ ॥ मधुश्च कैटभश्चैव विटो धूमोऽतिडकोपनः ॥ हयग्रीवो निसुन्दश्च सुन्दश्चन्द्राकर्केलोचनः ॥ २५ ॥
चन्द्राकर्मदर्तश्च चन्द्रहर्ता रणप्रियः ॥ सूर्यशत्रुर्जितमित्रो यज्ञाहा यज्ञतापनः ॥ २६ ॥ मेघनादो महाग्रेमा मेघवादी भयानकः ॥ दृग्ग्रीवः
शतग्रीवो महाग्रीवश्च दानवः॥२७॥ कालकः कालकेयश्च कालनेमि पुलोचनः॥ कालश्च कालकल्पश्च मक्रगंक्षा जनान्तकः ॥ २८ ॥ अन्तः केशश्च
नो भीमो देवान्तकनरान्तकौ ॥ क्रोघहा बहुनेत्रश्च महाकालो जलान्तकः ॥२९॥ एकलव्यः स चाघागे दुर्जयो दुर्धरो बडिः ॥ इन्दुतापनपरभौ
च रणचण्डहरीप्रयौ ॥ ३० ॥ किरीटी गजवक्रश्च महासालो विलोहितः ॥ हालाहलादह्लादवृहत्खरखरदूषणाः ॥ ३१ ॥ शतभ्रः शलभश्चैव
कूपनश्च महासुरः ॥ विप्रचित्तिः शिवः शङ्करयः शङ्कस्तथैव च ॥ ३२ ॥ अयःशिरा अश्वशिरा भीमदंष्ट्रो गुहाशयः ॥ वेगवान्केतुमानुग्रः
सोमविप्रद्यो महासुरः ॥ ३३ ॥ पुष्करः पुष्कलेश्चैव साल्वेलावपतिरेव च ॥कुम्भो निकुम्भः शतदा संप्रह्री गगनप्रियः ॥ ३४ ॥ एते चाऽन्ये
च विख्याता दैत्येयाः समरोद्धताः ॥ सर्वे लब्ध्वराः शूराः सर्वे च गतमन्यवः ॥ ३५ ॥ सर्वैर्विद्वशराज्यानि कारितानि बलोद्धतैः ॥ ते


१ 'तस्य' इति ख० । २ 'ऋतागरः' इति ख० । ३ 'मेघनादो महारोमोऽथौ मेघो भयानकः' इति ख० । ४ 'कालकम्पश्च' इति ख० । ५ 'श्व नया' इति ख० ।

हतास्तेन देवेन वासवप्रियकाम्यया ॥ ३६ ॥ केचिन्मनुष्यरूपेण तिर्यग्रूपेण चाऽपरे ॥ केचिद् देवरूपेण निहता भूरितेजसा ॥ ३७ ॥

साल्व उवाच ॥ जानामि तस्य माहात्म्यं देवदेवस्य शार्ङ्गिणः ॥ अहं स्वमरणं मत्वा तेन योत्स्यामि भार्गव ॥ ३८ ॥ विशिखाग्निशरणं श्रेष्ठं न हीनोऽविजयो रणे ॥ विष्णोः करविनाशानां भूयो राज्यं भविष्यति ॥ ३९ ॥

मार्कण्डेय उवाच ॥ इत्येवमुक्तस्तत्सुताधिपेन भृगुप्रधानो भगवान् स शुक्रः ॥ ज्ञात्वा स दैत्यान्स्कुलान्निचिनद्यश्चागाम काष्ठापमरामोद्याम् ॥ ४० ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शुक्रसाल्वसंवादो नामाऽष्टात्रिंशत्तमोऽध्यायः ॥ ३८ ॥


मार्कण्डेय उवाच ॥ एवमुक्त्वा गते शुक्रे गविष्ठो वाक्यमब्रवीत् ॥ गजेन्द्र शुकस्य वचनं क्रियतामविचारयन् ॥ १ ॥ स्वप्ना हि सुमहाघोरा दृश्यन्ते भयवर्धनाः ॥ भवतां हि विनाशाय गच्छन्ते सततं विभो ॥ २ ॥ भवान्स्वप्ने मया दृष्टो रक्तस्रगनुलेपनः ॥ उष्ट्रेण शिशुुमारेण वराहेण तथा व्रजन् ॥ ३ ॥ तैलाक्ताश्चापरे दैत्याः स्वगयानुपथाश्रिताः ॥ पतन्तः पर्वता दृष्टा गजेन्द्रे मयङ्कारणावा ॥ ४ ॥ केचित्कृष्णार्णवाम्बराः केचित्क्रूखरासनोंजितः ॥ केचित्पङ्कगता दृष्टाः केचिद्भस्ममया गताः ॥ ५ ॥ केचिद्विद्वया नायां कृप्यन्ते दक्षिणां दिशम् ॥ काचिद्रक्ताम्बरा नारी नीयते दक्षिणां दिशम् ॥ ६ ॥ केचिन्नृत्यन्ति भूपाला हसन्ति च तथाऽपरे ॥ केचिन्नरुण्डा मया दृष्टाः केचित्कषायावाससः ॥ ७ ॥ चण्डालकन्कन्याः केचित्केचिन्लिकुशमस्थिताः ॥ गजाश्वपत्तिसहितेन सर्वण च भवान्युतः ॥ ८ ॥ वापीं सकलुपां प्राप्य निमग्नो गोमये हृदे ॥ गजश्रीश्च मया दृष्टा शक्रालिङ्गनतत्परा ॥ ९ ॥ तस्य मे रोचते सन्धिस्त्व श्लक्ष्ण पार्थिव ॥ प्राणांरक्षत भो गजश्रीवन्मद्यप्यापुशांबुते ॥ १० ॥

साल्व उवाच ॥ यदैव भगवान्विष्णुः श्रुतः शत्रुर्मयाऽनघ ॥ तत्रैव देव तच्छ्रुत्वा राज्यं त्यक्तं तथा मया ॥ ११ ॥ इदं यङ्गेस्तपस्तप्तं राज्यं कृतमकण्टकम् ॥ मूर्ति स्थितमभिजाणां सुहृदः परिपालिताः ॥ १२ ॥ धुता भृत्यजनः सर्वः कृतकृत्यान्ततो वयम् ॥ गोविन्दान्मरणं प्राप्य भूयो राज्यं भविष्यति ॥ १३ ॥

मार्कण्डेय उवाच ॥ इत्येव वाक्यं तु निशम्य गज्ञो मेने तदा युक्ततमं गविष्ठः ॥ तूष्णीं बभूवाऽथ सुनिश्चितारमा मेने च दैत्यान्समरे विनष्टान् ॥ १४ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे स्वप्नाध्यायो नामैकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९ ॥


मार्कण्डेय उवाच ॥ पतस्मिन्नेव काले तु नाल्वम्य च महात्मनः ॥ भौषीमात्राच्चविगटन्तु ददृशे चामयस्य च ॥ १ ॥ गहून्त्येव विख्यातः पूज्यामाम तं नृपः ॥ यथाऽह पूजितो गज्ञा निपुणो वाक्यमब्रवीत ॥ २ ॥


पादटिप्पणी: १ 'नितराम्' इति ख० । २ 'केचित्कृष्णाण्डरा दृश्या' इति ख० । ३ 'भूतो' इति ख० । ४ 'ऋतुर्नृहेतुः स उच्यते' इति ख० ।

राहुरुवाच ॥ न हि मे रोचते वैरं विष्णुना प्रभविष्णुना ॥ यस्य क्रोधादहञ्जातो जातः परबलार्दनः ॥ ३ ॥ प्रसादाच्च
तथा यस्य महत्त्वमुपलब्धवान् ॥ किमन्यैः कीर्तितैस्तस्य कर्मभिस्तेऽसुरात्मज ॥ ४ ॥ साल्व उवाच ॥ भगव-
ञ्छ्रोतुमिच्छामि कथं तेन महात्मना ॥ अनंगस्त्वं कृतो वीर प्रवेशश्च कथं कृतः ॥ ५ ॥ राहुरुवाच ॥ अमरत्वमभीप्सन्तः पुरा देवा सवा-
सवाः............केशवं शरणं गताः ॥ ६ ॥ देवा ऊचुः ॥ भगवन् देवदेवेश जगतामार्तिनाशन ॥ निर्विशेषा वयं मर्त्यैर्बाधिता तत्राऽहर्ह
नो भवान् ॥ ७ ॥ श्रीभगवानुवाच ॥ क्षीरोदमथने यत्नं त्रिदशाः कर्तुमर्हथ ॥ दानवैः सहिता भूत्वा ततः श्रेयोऽवाप्स्यथ ॥ ८ ॥
राहुरुवाच ॥ एवमुक्ताः सुराः सर्वं देवदेवेन शार्ङ्गिणा ॥ दानवैः सहिता भूत्वा ममन्थुर्वरुणालयम् ॥ ९ ॥ सांहाय्यमकरोत्तेषां तत्र कर्मणि
पार्थिव ॥ विना विष्णुसहायेन न शक्ताः ससुरासुराः ॥ १० ॥ अनन्तः स ततो भूत्वा चोंशः संकर्षणस्य च ॥ उत्पाट्य मंदरं दोर्भ्यां चिक्षेप
पयसां निधौ ॥ ११ ॥ अकूपारे ततो भूत्वा कूर्मरूपी जनार्दनः ॥ मन्दरं धारयामास क्षीरोधिध्वगतमञ्जसा ॥ १२ ॥ स्वेनैव तेजसा नागं
तथा संयोज्य वासुकिम् ॥ चक्रे स नेत्रतां तत्र तत्र कर्मणि दानव ॥ १३ ॥ ततो ममन्थुः सहसा समुद्रं देवदानवाः ॥ यतो मुखं ततो
दैत्या यतः पुच्छं ततः सुराः ॥ १४ ॥ वासुकेर्भवदैत्या मथ्यमाने महोदधौ ॥ मुखञ्ज नागराजस्य केण धृतवान्स्वयम् ॥ १५ ॥
आकाशमिश्रमुखं कृत्वा देवदेवो जनार्दनः ॥ मुखे निःश्वासवातेन सविषेण हि भूपते ॥ १६ ॥ अन्यथा दैत्यसंघानां विनाशमभ-
विष्यत ॥ हिमाचलाभः कल्लोलाः क्षीराब्धेर्गगनस्पृशः ॥ १७ ॥ उत्पेतून्मथ्यमानस्य बलिभिर्देवदानवैः ॥ १८ ॥ शृङ्गाणि निपतन्ति
स्म मन्दरस्य महोदधौ ॥ रत्नचित्राणि रम्याणि शतशोऽथ सहस्रशः ॥ १९ ॥ द्रुमाश्च शतशः पेतुस्तुंगाः पेतुः सहस्रशः ॥ त्रैलोक्यं
पूरयन्नादं स्यास पयसां निधिः ॥ २० ॥ क्षीकल्लोलवसनः श्वेतमेचक्कृतांगुकः ॥ राजते मन्दराङ्गित्स नानाद्युतिविभूषितः ॥ २१ ॥
चलन्र्नेत्रांशुको घूर्णन्नत्यर्थं वायुपूरितैः ॥ गुहामुखैः समन्तं गिरिमित्तोरेणार्णवः ॥ २२ ॥ निर्जंगअर्महानादः शुद्धोच्छ्रितमहाभुजः ॥ अनिशं स
गिरिश्रेष्ठः स्थानहान्येव रोदिति ॥ २३ ॥ देवोपभोग्यान्सकलान्महान्त इति चिन्तयन् ॥ वाद्येषु देववाद्येषु नृत्यतीव स मन्दरः ॥ २४ ॥
एवं हि मथ्यमानस्य क्षीराब्धेः सुमहात्मनः ॥ प्रादुर्भूतं विषं घोरं कालानलसमप्रभम् ॥ २५ ॥ येन प्रोद्भूतमात्रेण विषण्णा देवदानवाः ॥


१ ‘ सहायम् ’ इति ख० । २ ‘ अंशात् ’ इति ख० ।

वि० ध०
॥ २३ ॥

प्र० खं०
अ० ४१

तत्पपौ भगवान्छम्भुस्त्रैलोक्यहितकाम्यया ॥२६॥ विषे कण्ठममुप्राप्ते नीलकण्ठत्वमागतः॥ धार्यमाणान तन्कण्ठे शोभाथं सुवरास्तिः ॥ २७॥
ततश्चाभूत्कला जाता त्रैलोक्यस्यैव सुन्दरी ॥ जटाजूटेन तां चक्रे देवदेवो महेश्वरः ॥ २८ ॥ रश्मिज्वालावलीपुञ्जविभासितजगत्त्रयम् ॥
वैदूर्य्यकौस्तुभं जातं यं बभार हृदा हरिः ॥ २९ ॥ वातरोहो महाकायः शशाङ्कसदृशच्छविः ॥ उच्चैःश्रवाह यो जातस्तं च देवाउपाश्रितः ॥ ३० ॥
ततः पुरा समुत्पन्ना सा च पीता महासुरैः ॥ ततस्त्वप्सरसो जाता देवरामा मनोरमाः ॥ ३१ ॥ देवी लक्ष्मीस्ततो जाता रूपेणाऽप्रतिमा
शुभा॥३२॥ यस्याः शुभौ तामरसप्रकाशौ पादाम्बुजौ स्पृष्टतलाङ्गुलिकौ ॥ जंघे शुभे रोमविवर्जिते च गूढास्थिकं जानुयुगं सुरम्यम् ॥ ३३॥
सुवर्णदण्डाप्रतिमौ तथोरू चाभोगाढ्यस्थं जघनं घनं च ॥ मध्यं सुवृत्तं कुलिशोदरागं वलित्रयं चारु शुभं दधानम् ॥ ३४ ॥ उत्तुङ्गमाभोगि समं
विशालं स्तनद्वयं चारुसुवर्णवर्णम् ॥ बाहू सुवृत्तावतिकोमलौ च करद्वयं पद्मदलाग्रकान्ति ॥ ३५ ॥ कण्ठञ्च शङ्खप्रतिमं सुभ्रुवं पृष्ठं समं चारु
सिराविहीनम् ॥ कर्णौ शुभौ चारुशुभप्रमाणौ सम्पूर्णचन्द्रप्रतिमञ्च वक्त्रम् ॥ ३६ ॥ कुन्देन्दुसुल्या दशनास्तथोष्ठौ प्रवालकान्तौ प्रतिपक्वभूतौ ॥
स्पृष्टा च नासा चिबुकं च रम्यं कपोलयुग्मं शशितुल्यकान्ति ॥ ३७ ॥ जनित्रिनीलोत्पलसन्निाकाशं त्रिवर्णमाकर्णिकमक्षियुग्मम् ॥ शिरोरुहाः
कुञ्चितनीलदीर्घा वीणेव वाणी मधुरा शुभा च ॥ ३८॥ वक्रे सुसूक्ष्मे विमले दधाना चन्द्रामृतुल्येऽतिमनोभिरामम् ॥ श्रोत्रेऽवनाथ्याथ कुण्डले च
संतानकानां शिरसा च मालाम् ॥ ३९ ॥ गङ्गाप्रवाहप्रतिसञ्च हारं कण्ठेन शुभ्रं दधती सुवृत्तम् ॥ ४० ॥ तथाऽङ्गदौ रत्नसहस्रचित्री हेमप्रवन्तौ
चाऽप्यथ नूपुरौ च ॥४०॥ करेण पद्मं भ्रमरोपगीतं वैदूर्य्यनालञ्च शुभं गृहीत्वा ॥ स्वरूपमुद्देक्ष्य सुरासुरेषु दृष्टिं ददौ चारुमनोभिगामा ॥४१॥ सा
देवसंघानासुरांश्च दृष्ट्वा ददर्श देवं जगतां प्रधानम् ॥ देवासुरेभ्योऽन्वतिनिक्तिरूपं सूर्यानुतप्तं भुवनेश्वजयेव ॥४२॥ उद्विग्ननालनिलिनद्युतिचारुवणं
संतताहटकनिभे वसने वसानम् ॥ दृष्ट्वैव जातपुलकोद्गगमात्रकम्पा क्षीरोदविज्या मदनवाणवशं जगाम ॥ ४३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मार्कण्डेयवज्रसंवादे समुद्रमथने लक्ष्मीसमुद्भवो नाम चत्वारिंशत्तमोऽध्यायः ॥४०॥ गरुडउवाच ॥ सा कामवाणाभिहता ममीक्ष्य मधुसूदनम् ॥
स्वयं वृतवती नाथं भर्तारमपराजितम् ॥१॥ प्रकृतिस्मा विनिर्दिष्टा पुरुषः पुरुषोत्तमः ॥ तया वियुज्यते नाऽसौ कदाचिदपि शङ्खहा ॥२॥ शक्रः
पुरुषः प्रोक्तः प्रकृतिः पार्वती स्मृता ॥ पुरुषः पावकः प्रोक्तः प्रकृतिश्च तथा शची ॥३॥ हुताशनश्च पुरुषः स्वाहा च प्रकृतिः स्मृता ॥ यमश्च


^१ 'कर्णौ शुभौ चाभवतां प्रमाणौ' इति पु० ।
॥ २६ ॥

पुरुषः प्रोक्तो धूमोर्णा प्रकृतिः स्मृता ॥ ४ ॥ विरूपाक्षश्च पुरुषः प्रकृतिर्निरृतिः स्मृता ॥ वरुणः पुरुषः प्रोक्तो गौरी च प्रकृतिस्तथा ॥ ५ ॥ वायुश्च पुरुषो ज्ञेयः प्रकृतिश्च तथा शिवा ॥ पुरुषश्च धर्मो वृक्षस्तद्धिष्मप्रकृतिः स्मृता ॥ ६ ॥ चन्द्रमा पुरुषः प्रोक्तो ज्योत्स्ना च प्रकृतिस्तथा॥ धर्मश्च पुरुषः प्रोक्तः प्रकृतिश्च करीषिणी ॥ ७ ॥ यज्ञश्च पुरुषः प्रोक्तो दक्षिणा प्रकृतिस्तथा ॥ दिवसः पुरुषः प्रोक्तो प्रकृतिश्च तथा निशा ॥ ८ ॥ आकाशः पुरुषः प्रोक्तः प्रकृतिश्च तथा मही ॥ ॐकारः पुरुषः प्रोक्तः सावित्री प्रकृतिः स्मृताः ॥ ९॥ प्रकृतिः सा शुभा लक्ष्मीर्विष्णुः पुरुष उच्यते ॥ सा सदैहा विद्दिहा सा सगुणा निर्गुणा च सा ॥ १० ॥ तथा सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥ सा कान्तिः सा धृतिः सा श्रीः सा प्रभा च सनातनी ॥ ११ ॥ सा निद्रा सा शुभा वाणी सा च देवी सरस्वती ॥ रतिः प्रीतिः क्षितिश्चाथ सा गंगा सा सरस्वती ॥ १२ ॥ तुष्टिः पृथिव्वपुः प्रजा स्वधा मेधा सरस्वती ॥ सैव नद्यः शुभा सर्वाः सैव देवी वनस्पति ॥ १३ ॥ सा वास्तुदेवता दीक्षा सा शक्तिर्विष्णवी स्मृता ॥ बुद्धिलज्जा धृतिः शान्तिः सुधा शोभा जया त्विषा ॥ १४ ॥ सिनीवाली कुहू राका त्वेवं चातुर्मातः शुभा ॥ कात्यायनी भद्रकाली सुप्रभा विजया तथा ॥ ॥ १५ ॥ अदितिर्दितिर्दनुः काला स्नायुः सिंहिका मुनिः ॥ कद्रूः क्रोधा त्विषा प्रावा विनता सुरभिः खँगा ॥ १६ ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा क्षमा श्रद्धा क्रिया रतिः ॥ अनसूया सती मूर्तिर्विभूतिर्वारुणी तथा ॥ १७ ॥ अरुन्धती वपुर्ज्यामी लोभा भ्रातृन्नृचन्ती ॥ संकल्पा च मुहूर्ता च साध्या विश्वा तथैव च ॥ १८ ॥ मृगा च सुघमन्दा च हरिमद्भा युवा त्विडा ॥ भृता च कपिला दंष्ट्रा सुरमा सुरसा तथा ॥ १९ ॥ राज्ञीश्र्योश्मि पालानां ब्रह्मश्रीस्तद्विदां शुभा ॥ पुष्पश्रीः काननानां सा जयश्रीर्जयिनां रणे ॥ २० ॥ स्वर्गश्रीः स्वर्गतानां सा दीक्षा सा यज्ञयाजिनाम् ॥ बुद्धि र्बुद्धिमतां देवी क्षमा देवी क्षमावताम् ॥ २१ ॥ शिखा वह्नौ प्रभा सूर्ये ज्योत्स्ना चन्द्रे प्रकीर्तिता ॥ कान्तिस्तारागणस्योक्ता सा वेला नक्षत्राणाञ्च णाम् ॥ २२ ॥ सहस्रनेत्राजा दृष्टिः सहस्रनयनस्य सा ॥ उपत्यका पर्वतानां फलश्रीः सा च शाखिनाम् ॥ २३ ॥ महोदधेश्च सा वेला नक्षत्राणाञ्च कृत्तिका ॥ धनुर्लता च मन्त्राणां हेतीनां चाप्यसेर्लता ॥ २४ ॥ गान्धारी सर्वविद्यानां वृद्धिः सा जगतितले ॥ कार्षकाणां तथा सीता सस्य शोभा महीतले ॥ २५ ॥ मदलेखा च नागानां भोगिनाञ्च फणावली ॥ रत्नावली च शेषस्य द्युतिर्भगण्डलस्य सा ॥ २६ ॥ सा स्थिता सततं चन्द्रे बिल्वे नीलोत्पले वृषे ॥ कुञ्जरे तुरगे सिंहे खड्गे च विमले शुमे ॥ २७ ॥ चामरे व्यजने छत्रे भृंगारे गोमये वने ॥ सहस्रकिरणे सूर्ये


१ 'प्रकृतितस्तथा' इति ख० । २ 'कीर्त्तिः' इति ख० । ३ 'क्षितिः प्रीतिरतिस्तथैव' इति ख० । ४ 'मृगाश्वा'इति ख० । ५ 'युधा' इति ख० ।

शके वैश्रवणे यमे ॥ २८ ॥ कमले रजते हस्ति शंखे भद्रासने शुभे ॥ गोमूत्रे सर्पिषि क्षीरे दधि श्रीफलेषु च ॥ २९ ॥ वरुणे च जलाश्रये समुद्रेषु जलेषु च ॥ कुसुमेषु च शुक्लेषु प्रासादेषु सितेषु च ॥ ३० ॥ हुताशने प्रज्वलिते पार्थिवे चारुशोभिते ॥ रत्नेषु च विचित्रेषु तथैवा मल्लकेषु च ॥ ३१ ॥ यथा व्याप्तं जगत्सर्वं देवदेवेन शार्ङ्गिणा ॥ तथा व्याप्तं जगत्सर्वं जगन् श्रीगोविन्दकन्यया ॥ ३२ ॥ स्वायंभुवेऽन्तरे देवी भृगोः सा दुहिता स्मृता ॥ स्वारोचिषे तथा जाता सैव देवी हुताशनात् ॥ ३३ ॥ औत्तमस्यान्तरे जाता सलिलेडामलच्छुभा ॥ तामसस्या- न्तरे राजन् भूतलात्सा समुत्थिता ॥ ३४ ॥ रैवतस्याप्यतीता सा¹ देवी रैवतमन्वतरे तथा ॥ उत्फुल्लकमलोद्भूता चाक्षुषेऽपि तथान्तरे ॥ ३५ ॥ वैवस्वतेऽन्तरे जाता तथैवाऽमृतमन्थनात् ॥ क्षीरोदधिजञ्जातां तां प्राप्य हृष्टयेन जनार्दनः ॥ ३६ ॥ दृष्ट्वा दुर्भगं देवीं त्रैलोक्यं तन्मृते प्रभुम् ॥ आदाय साऽमृतं शुभं शुभमर्कक्रमण्डलम् ॥ ३७ ॥ एतस्मिन्नन्तरे जातो वैद्यो धन्वन्तरिस्तथा ॥ अमृतं जातमात्रं तु दैत्यमंघाः समाकुलाः ॥ ॥ ३८ ॥ धन्वन्तरिमथोन्मथ्य परिभूय च देवताः ॥ अमृतं च समादाय जगमुर्देत्या निवेशनम् ॥ ३९ ॥ इति हतामृतदैत्यगणात्निपातोनाशिवास्य देवो भुवनस्य गोप्ता ॥ स्थाने च विन्यस्य गिरिन्द्रमुत्थ्य जगाम देवोसुरनांथवैष्वम्² ॥ ४० ॥ इति श्रीविष्णुधर्मामृते प्रथमखण्डे मार्क- ण्डेयवज्रसंवादेऽमृतमन्थनं नामैकचत्वारिंशत्तमोऽध्यायः ॥ ४१ ॥ ॥ गङ्गरुवाच ॥ ॥ वभूव³ नारी कल्याणी न दृष्टा मधुसूदनः ॥ अनिंद्यव्यवयोरूपा सर्वलक्षणपूजिता ॥ १ ॥ समांगुलितलौ श्लक्ष्णौ स्फुतंगनखौ शुभौ ॥ विभृते चरणौ शुभ्रौ गूढगुल्फौ मनाहृद्यौ⁴ ॥ २ ॥ जंघे मनोहरे शुभ्रे सृष्टे लोमविवर्जिते ॥ गूढमंध्यस्थिकै श्लक्ष्ण जानुनी च तथा शुभे ॥ ३ ॥ ऊरू करिगणकारां कदलीदलकोमलौ ॥ घनसमांगथि जघनं मध्यं कुटिलगात्रिमम् ॥ ४ ॥ त्रिवलीविषयाथानांनाभिपुष्कर्मण्डितम् ॥ गूढमिक्षिक समं पाश्र्वं समं पृष्ठं मनोरमम् ॥ ५ ॥ समां सुसंहता पीनौ कोमलावरुवक्षुकौ ॥ आभोगिनौ मण्डलिनौ मन्तौ कनकसन्निभौ ॥ ॥ ६ ॥ मृणालसदृशौ वाहू करौ कोमलकोमलौ ॥ कम्बुतुल्यं शुभं कण्ठं चोन्नता च कृकाटिका ॥ ७ ॥ मुखं पूर्णन्दुसंकाशं द्विजाः कुन्दसमप्रभाः ॥ अधरं विद्रुमाकारं नासा मण्युत्तमासमा ॥ ८ ॥ मधुकपुष्पसंकाशौ कपोलौ ललितात्रुवौ ॥ भ्रूयुग्मं कामचा- पान्तसदृशं सुमनोहरम् ॥ ९ ॥ नातिप्रलम्बौ श्रवणौ नाट्यचारू च कुण्डलो ॥ चिबुकं च मनोहरंग ललाटं शशिसुप्रभम् ॥ १० ॥


¹ 'विष्याणां' इति क० । ² 'दैत्याधिपतावधेशम्' इति क० । ³ 'मल्लन्नम' इति ख० । ⁴ 'मनोहरं' इति क० । ⁵ 'वभूवु' इति क० ।

कृष्णमध्ये सुरक्तान्ते नयने श्वेतप्रभिके ॥ नीलोत्पलदलद्वारे दीर्धे चाऽतितमनोरमे<sup></sup> ॥ ११ ॥ कोकिलाऽलिकुलाकारं भिन्नञ्जनचयप्रभम् ॥ केशपाशं तथा किंचिद्वारं कुटिलं शुभम् ॥ १२ ॥ चन्द्ररश्मिप्रकाशेन वस्त्रयुग्मेन भूषिता ॥ १३ ॥ रूपेणाप्रतिमा राजन्सर्वालंकारभूषिता ॥ यत्रयत्र पदन्यासं करोति गजगामिनी ॥ १४ ॥ तत्र तत्रैव वसुधा सपद्मेवोपलक्ष्यते ॥ यत्रयत्राऽसितभ्रुवं दृष्टिं क्षिपति भामिनी ॥ १५ ॥ सितासितोत्पलैस्तत्र किरतीव वसुंधराम् ॥ १६ ॥ यत्रयत्र स्थिता भाति देशे कनकवर्णिनी ॥ १७ ॥ तत्र तत्रैव सौवर्णं सा करोति नभस्तलम् ॥ तां दृष्ट्वा चारुसर्वाङ्गीं मन्मथाविष्टचेतसः ॥ १७ ॥ प्रह्लादरहिताः सर्वे बभूवुर्दानवास्तदा ॥ पादयोः पृथिवीं तस्या धृतिं देवौ च जङ्घयोः ॥ १८ ॥ जानुभ्यां च तथा शान्तिं कान्तिसूरुयुगे शुभे ॥ आयतिं नियतिं लक्ष्मीं वेलां तु जघने तथा ॥ १९ ॥ मध्ये बाहां सतीं पृष्ठे पार्श्वयोश्च सुधां मुखे ॥ रतिं प्रीतिं कुचयुगे कण्ठे वाणीं तथैव च ॥ २० ॥ जयाँ च विजयां चैव करयोर्भुजयोस्तथा ॥ शोभां प्रभां वक्षसि च श्रियं देवीं मनोरमाम् ॥ २१ ॥ अरुन्धतीं च चिबुके जिह्वायां च सरस्वतीम् ॥ ज्योत्स्नां कपोलयोर्देवीं निद्रां नेत्रयुगे तथा ॥ २२ ॥ केशपाशे तथा रात्रिं दिशः श्रोत्रयुगे तथा ॥ भृकुट्योर् ललाटे च नासायां च तथा शुचीम् ॥ २३ ॥ सर्वाङ्गसन्धिगा नद्यो लोमस्वथ वनस्पतिम् ॥ पार्श्वयोः पर्वताश्चैव दैत्येशः सर्वदेवताः ॥ २४ ॥ दृष्ट्वान्निर्ववृतुं तत्र प्रह्लादरिकुलान्तकः ॥ विश्वरूपधरां दृष्ट्वा प्रह्लादस्त्वथ योषितम् ॥ २५ ॥ विष्णुं मत्वा विशालाक्षीं ज्ञात्वा चैवाऽमृतार्थिनीम् ॥ कामात्तैर्दैत्यैर्लुब्धैस्तु प्रह्लादो दैत्यसत्तमः ॥ २६ ॥ प्रह्लादश्चामृतं तस्यै प्रणिपत्य प्रसाद्य च ॥ श्रीरूपमास्थितेर्देवैस्त्रैलोक्यं सचराचरम् ॥ २७ ॥ स्त्रीचेष्टमभवत्सर्वं तस्मिन्काल उपस्थिते ॥ उवाच सा स्त्री प्रह्लादं दैत्य त्वममृतं विना ॥ २८ ॥ ब्राह्मेण कर्मणा सौम्य जीवितान्न विमोक्ष्यसे ॥ योद्धुमभ्युदिता दैत्यैर्देवद्विजकारणात् ॥ २९ ॥ न प्रबोध्यस्तमोमुक्तास्त्वया दैत्य जनार्दनः ॥ भक्तोसि मे सदा वत्स सदैव विजितेन्द्रियः ॥ ३० ॥ तेन ते दर्शिता सौम्य प्रकृतिर्या परा मम ॥ इत्येवमुक्त्वा प्रह्लादं सोममादाय सत्वरा ॥ ३१ ॥ कामात्तैर्निन्दितैर्दैत्यैस्त्यक्त्वा जगाम सुरमन्दिरम् ॥ स्त्रीरूपं तत्र संत्यज्य देवरूपमु पाश्रितः ॥ ३२ ॥ पाययामास तत्सर्वं सुरान्सर्वान्समाहितान् ॥ मयाऽपि मध्ये देवानां पीतं तत्सूर्यरूपिणा ॥ ३३ ॥ आदित्यरूपो दैत्योऽ यं ज्ञातोऽहं शशिभास्करैः ॥ निवेदितश्च देवाय तेनाऽपि लघूकारिणा ॥ ३४ ॥ चक्रेण पातितं वत्स सासृजं मस्तकं मम ॥ अमृतप्राशनात्प्राणे


१ 'मनोहरे' इति ख० ।