विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 95, कुल 1001 में से
संदर्भ में पढ़ेंराहुरुवाच ॥ न हि मे रोचते वैरं विष्णुना प्रभविष्णुना ॥ यस्य क्रोधादहञ्जातो जातः परबलार्दनः ॥ ३ ॥ प्रसादाच्च
तथा यस्य महत्त्वमुपलब्धवान् ॥ किमन्यैः कीर्तितैस्तस्य कर्मभिस्तेऽसुरात्मज ॥ ४ ॥ साल्व उवाच ॥ भगव-
ञ्छ्रोतुमिच्छामि कथं तेन महात्मना ॥ अनंगस्त्वं कृतो वीर प्रवेशश्च कथं कृतः ॥ ५ ॥ राहुरुवाच ॥ अमरत्वमभीप्सन्तः पुरा देवा सवा-
सवाः............केशवं शरणं गताः ॥ ६ ॥ देवा ऊचुः ॥ भगवन् देवदेवेश जगतामार्तिनाशन ॥ निर्विशेषा वयं मर्त्यैर्बाधिता तत्राऽहर्ह
नो भवान् ॥ ७ ॥ श्रीभगवानुवाच ॥ क्षीरोदमथने यत्नं त्रिदशाः कर्तुमर्हथ ॥ दानवैः सहिता भूत्वा ततः श्रेयोऽवाप्स्यथ ॥ ८ ॥
राहुरुवाच ॥ एवमुक्ताः सुराः सर्वं देवदेवेन शार्ङ्गिणा ॥ दानवैः सहिता भूत्वा ममन्थुर्वरुणालयम् ॥ ९ ॥ सांहाय्यमकरोत्तेषां तत्र कर्मणि
पार्थिव ॥ विना विष्णुसहायेन न शक्ताः ससुरासुराः ॥ १० ॥ अनन्तः स ततो भूत्वा चोंशः संकर्षणस्य च ॥ उत्पाट्य मंदरं दोर्भ्यां चिक्षेप
पयसां निधौ ॥ ११ ॥ अकूपारे ततो भूत्वा कूर्मरूपी जनार्दनः ॥ मन्दरं धारयामास क्षीरोधिध्वगतमञ्जसा ॥ १२ ॥ स्वेनैव तेजसा नागं
तथा संयोज्य वासुकिम् ॥ चक्रे स नेत्रतां तत्र तत्र कर्मणि दानव ॥ १३ ॥ ततो ममन्थुः सहसा समुद्रं देवदानवाः ॥ यतो मुखं ततो
दैत्या यतः पुच्छं ततः सुराः ॥ १४ ॥ वासुकेर्भवदैत्या मथ्यमाने महोदधौ ॥ मुखञ्ज नागराजस्य केण धृतवान्स्वयम् ॥ १५ ॥
आकाशमिश्रमुखं कृत्वा देवदेवो जनार्दनः ॥ मुखे निःश्वासवातेन सविषेण हि भूपते ॥ १६ ॥ अन्यथा दैत्यसंघानां विनाशमभ-
विष्यत ॥ हिमाचलाभः कल्लोलाः क्षीराब्धेर्गगनस्पृशः ॥ १७ ॥ उत्पेतून्मथ्यमानस्य बलिभिर्देवदानवैः ॥ १८ ॥ शृङ्गाणि निपतन्ति
स्म मन्दरस्य महोदधौ ॥ रत्नचित्राणि रम्याणि शतशोऽथ सहस्रशः ॥ १९ ॥ द्रुमाश्च शतशः पेतुस्तुंगाः पेतुः सहस्रशः ॥ त्रैलोक्यं
पूरयन्नादं स्यास पयसां निधिः ॥ २० ॥ क्षीकल्लोलवसनः श्वेतमेचक्कृतांगुकः ॥ राजते मन्दराङ्गित्स नानाद्युतिविभूषितः ॥ २१ ॥
चलन्र्नेत्रांशुको घूर्णन्नत्यर्थं वायुपूरितैः ॥ गुहामुखैः समन्तं गिरिमित्तोरेणार्णवः ॥ २२ ॥ निर्जंगअर्महानादः शुद्धोच्छ्रितमहाभुजः ॥ अनिशं स
गिरिश्रेष्ठः स्थानहान्येव रोदिति ॥ २३ ॥ देवोपभोग्यान्सकलान्महान्त इति चिन्तयन् ॥ वाद्येषु देववाद्येषु नृत्यतीव स मन्दरः ॥ २४ ॥
एवं हि मथ्यमानस्य क्षीराब्धेः सुमहात्मनः ॥ प्रादुर्भूतं विषं घोरं कालानलसमप्रभम् ॥ २५ ॥ येन प्रोद्भूतमात्रेण विषण्णा देवदानवाः ॥
१ ‘ सहायम् ’ इति ख० । २ ‘ अंशात् ’ इति ख० ।