भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 96, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 96

वि० ध०
॥ २३ ॥

प्र० खं०
अ० ४१

तत्पपौ भगवान्छम्भुस्त्रैलोक्यहितकाम्यया ॥२६॥ विषे कण्ठममुप्राप्ते नीलकण्ठत्वमागतः॥ धार्यमाणान तन्कण्ठे शोभाथं सुवरास्तिः ॥ २७॥
ततश्चाभूत्कला जाता त्रैलोक्यस्यैव सुन्दरी ॥ जटाजूटेन तां चक्रे देवदेवो महेश्वरः ॥ २८ ॥ रश्मिज्वालावलीपुञ्जविभासितजगत्त्रयम् ॥
वैदूर्य्यकौस्तुभं जातं यं बभार हृदा हरिः ॥ २९ ॥ वातरोहो महाकायः शशाङ्कसदृशच्छविः ॥ उच्चैःश्रवाह यो जातस्तं च देवाउपाश्रितः ॥ ३० ॥
ततः पुरा समुत्पन्ना सा च पीता महासुरैः ॥ ततस्त्वप्सरसो जाता देवरामा मनोरमाः ॥ ३१ ॥ देवी लक्ष्मीस्ततो जाता रूपेणाऽप्रतिमा
शुभा॥३२॥ यस्याः शुभौ तामरसप्रकाशौ पादाम्बुजौ स्पृष्टतलाङ्गुलिकौ ॥ जंघे शुभे रोमविवर्जिते च गूढास्थिकं जानुयुगं सुरम्यम् ॥ ३३॥
सुवर्णदण्डाप्रतिमौ तथोरू चाभोगाढ्यस्थं जघनं घनं च ॥ मध्यं सुवृत्तं कुलिशोदरागं वलित्रयं चारु शुभं दधानम् ॥ ३४ ॥ उत्तुङ्गमाभोगि समं
विशालं स्तनद्वयं चारुसुवर्णवर्णम् ॥ बाहू सुवृत्तावतिकोमलौ च करद्वयं पद्मदलाग्रकान्ति ॥ ३५ ॥ कण्ठञ्च शङ्खप्रतिमं सुभ्रुवं पृष्ठं समं चारु
सिराविहीनम् ॥ कर्णौ शुभौ चारुशुभप्रमाणौ सम्पूर्णचन्द्रप्रतिमञ्च वक्त्रम् ॥ ३६ ॥ कुन्देन्दुसुल्या दशनास्तथोष्ठौ प्रवालकान्तौ प्रतिपक्वभूतौ ॥
स्पृष्टा च नासा चिबुकं च रम्यं कपोलयुग्मं शशितुल्यकान्ति ॥ ३७ ॥ जनित्रिनीलोत्पलसन्निाकाशं त्रिवर्णमाकर्णिकमक्षियुग्मम् ॥ शिरोरुहाः
कुञ्चितनीलदीर्घा वीणेव वाणी मधुरा शुभा च ॥ ३८॥ वक्रे सुसूक्ष्मे विमले दधाना चन्द्रामृतुल्येऽतिमनोभिरामम् ॥ श्रोत्रेऽवनाथ्याथ कुण्डले च
संतानकानां शिरसा च मालाम् ॥ ३९ ॥ गङ्गाप्रवाहप्रतिसञ्च हारं कण्ठेन शुभ्रं दधती सुवृत्तम् ॥ ४० ॥ तथाऽङ्गदौ रत्नसहस्रचित्री हेमप्रवन्तौ
चाऽप्यथ नूपुरौ च ॥४०॥ करेण पद्मं भ्रमरोपगीतं वैदूर्य्यनालञ्च शुभं गृहीत्वा ॥ स्वरूपमुद्देक्ष्य सुरासुरेषु दृष्टिं ददौ चारुमनोभिगामा ॥४१॥ सा
देवसंघानासुरांश्च दृष्ट्वा ददर्श देवं जगतां प्रधानम् ॥ देवासुरेभ्योऽन्वतिनिक्तिरूपं सूर्यानुतप्तं भुवनेश्वजयेव ॥४२॥ उद्विग्ननालनिलिनद्युतिचारुवणं
संतताहटकनिभे वसने वसानम् ॥ दृष्ट्वैव जातपुलकोद्गगमात्रकम्पा क्षीरोदविज्या मदनवाणवशं जगाम ॥ ४३॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे
मार्कण्डेयवज्रसंवादे समुद्रमथने लक्ष्मीसमुद्भवो नाम चत्वारिंशत्तमोऽध्यायः ॥४०॥ गरुडउवाच ॥ सा कामवाणाभिहता ममीक्ष्य मधुसूदनम् ॥
स्वयं वृतवती नाथं भर्तारमपराजितम् ॥१॥ प्रकृतिस्मा विनिर्दिष्टा पुरुषः पुरुषोत्तमः ॥ तया वियुज्यते नाऽसौ कदाचिदपि शङ्खहा ॥२॥ शक्रः
पुरुषः प्रोक्तः प्रकृतिः पार्वती स्मृता ॥ पुरुषः पावकः प्रोक्तः प्रकृतिश्च तथा शची ॥३॥ हुताशनश्च पुरुषः स्वाहा च प्रकृतिः स्मृता ॥ यमश्च


^१ 'कर्णौ शुभौ चाभवतां प्रमाणौ' इति पु० ।
॥ २६ ॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 96, कुल 1001 में से · BharatKosha