भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

वि० ध० ॥ २६ ॥

प्र० खं० अ० ४२

नविद्युत्कोऽसि दानव ॥ ३६ ॥ न मे कण्ठादधोभागमागतं मम चक्रिणा ॥ शिरश्छिन्नं महाराज तत्र प्राणास्ततः स्थिताः ॥ ३६ ॥ शिरस- श्छेद्नाद्दीनं मां दृष्ट्वा मधुसूदनः ॥ जातानुकम्पो भगवांनिदं वचनमब्रवीत् ॥ ३७ ॥ पीतामृतस्य दैत्यस्य मरणं नास्ति कर्हिचित् ॥ मम हस्तनिबन्धानां गतिर्भवति शोभना ॥ ३८ ॥ अमरत्वं त्वमासाद्य वरं वरय काक्षितम् ॥ ततो मयोक्तो भगवान्प्रणम्य मधुसूदनः ॥ ॥ ३९ ॥ लभेयातां <sup></sup> ग्राहौ मत्तो देव परामवम् ॥ पूजाञ्च प्रार्थये लोकाद्ग्रहश्व जनार्दन ॥ ४० ॥ एवमुक्तः स भगवा- न्मामुवाच तदा हरिः ॥ ग्रहस्त्वं भविता दैत्य पूजां चैवोपलप्स्यसे ॥ ४१ ॥ पर्वकाले च संप्राप्ते चन्द्रार्को छादयिष्यसि ॥ ४२ ॥ तमो मूर्त्तिरहंश्चैव विपरीतं चरिष्यसि ॥ भूमिच्छायागताश्वन्द्वं चन्द्रगोऽर्कं च दानवः ॥४३॥ यस्योदद्यिष्यसि यदा तदा भागमवाप्स्यसि ॥ होति जाप्ये तथा होमे दाने श्राद्धे सुरार्चने ॥ ४४ ॥ पुण्यः स कालो भविता नित्यमेवाऽसुरेश्वर ॥ एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥४५॥ पीत शेषमथादाय सोमं सुरगणेश्वरः ॥ सुरलोके सन्निहिते चकार बलवृत्रहा ॥४६॥ मच्छीर्षात्पतिताभिविन्दुद्वह्रोपा हता ऽसृजा दैत्यगणाः समन्ताः ॥ व्यध्वंश्रमा देवगणाश्चिहन्तुं सन्नद्धसैन्याः प्रयुयुत्सुदानीम् ॥४७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादेऽमृतानविभागो नाम द्विचत्वारिंशत्तमो ऽध्यायः ॥ ४२ ॥ ॥ रुद्ररुवाच ॥ बलिवाणमहाकक्षं शम्बरानर्तेनर्वाषणम् ॥ असुहृदमहाग्राहं कालकेयमहान्जलम् ॥ १ ॥ हिरण्याक्षमहारत्नं प्रह्लादचलनिश्छलम् ॥ तथा नमुचिकोल्लोलं वृत्तसंह्रादशम्फवत् ॥२॥ <sup></sup> शुष्काक्षिशिशुमारौतं कालनेमिमलङ्कृतम् ॥ अमृतोद्ग्रहणक्षुब्धं तदा दैत्यमहा र्णवम् ॥ ३ ॥ क्षुब्धं दैत्यार्णवं श्रुत्वा निर्गतं समगाय च ॥ निर्ययुस्त्रिदशाः सर्व सन्नद्धा युद्धकोविदाः ॥ ४ ॥ ततः प्रवृत्ते युद्धे घोरं भीमरुचं करम् देवानां दानवानां च परस्परवधैषिणाम् ॥५॥ पत्यमानैश्च शस्त्रैश्च कवचेषु महात्मनामा। देवानां दानवानाञ्च हुंयुतुर्वेलनोचिषः ॥६॥ गंज वाजिहुरणुणसुतस्यो सुमहद्द्जः ॥ युगान्तानलशुभामं त्रैलोक्यम्व दुर्द्धतः ॥७॥ तस्मिन्प्रवृत्ते जुग्मि घोरे भीमभयङ्करें ॥ तिमर्यादकुङ्कुर्ड देवानां दानवैः सहा॥८॥ततो दैत्यसमुत्थेन तथा देवाद्ववेन च ॥ रुधिरेण मही व्याप्ता प्रशान्तञ्च रजः क्षणात्॥ ९॥ध्वजे ध्वजेन युयुधे युयुधानश्च युयुधाना॥ सर्वत्र दृश्यते दैत्यस्तरैलोक्यासप्रमम् ॥१०॥तस्मिन्युद्धे महारौद्रे दैत्यवानवनाशने ॥ वभ्रमुः कुञ्जरा मत्ता महामात्रप्रचोदिताः ॥ ११॥ हतांवगैश्वमन्त्य वाञ्ज्वैः कुञ्जराः पर्वतोपमाः ॥ कुर्वन्तः स्वान्यनीकानि दृष्यन्त शतशो गणे ॥ १२ ॥ छिद्रदन्ता भिन्नरुजा भिन्नतन्वगपालया ॥ शैलमा


१ ‘मुदा’ इति ख० । २ ‘चक्षुः’ इति क० । ३ ‘समाश्रितः’ इति ख० । ४ ‘निलब्धा’ इति ख० ।

॥ २६ ॥

पतितास्तत्र शोभन्ते रणाजिरम् ॥ १३ ॥ बभ्रुः सादिभिर्हीना हयाः सूर्यहयोपमाः ॥ मृताश्च शतशस्तत्र दृश्यन्ते विकृताननाः ॥ १४ ॥ आगुल्फमवसीदन्ति दैत्याः शोणितकर्दमे ॥ रथिभिर्निहता नागा नागैश्च निहता रथाः ॥ १५ ॥ हयाश्च विद्धा नागैस्तु सादिभिः कुञ्जरा हताः ॥ रथात्सादिगजारोहेर्निहताश्च पदातयः ॥१६॥ पतिता महता सादी कुञ्जरे रथ एव च ॥ ततः प्रावर्तत नदी रुधिरौघतरङ्गिणी ॥१७॥ अस्त्रग्राहा धनुर्मीना चक्रकूर्मा महास्वना ॥ छत्रहंसा नागवती केशशैवलशाद्वला ॥ १८ ॥ दैत्यौघोपपला रौद्रा तथा भीरुभयावहा ॥ बाहुसर्पा महावर्ता शूराणां हर्षवर्दिनी ॥ १९ ॥ अपारगम्या पत्तीनां फेनपुञ्जसमाकुला ॥ तस्मिन्युद्धे महाघोरे तुमुले लोमहर्षेणे ॥ २० ॥ आकीर्णा वसुधा भाति वदनैः कमलोपमैः ॥ विवृतेश्च महादंष्ट्रैर्दानवानां महात्मनाम् ॥ २१ ॥ बाहुभिश्चाङ्गदैश्चैव रक्तचन्दनरूषितैः ॥ हस्तिहस्तोपमैश्चापि सरत्नैश्च महाधनैः ॥ २२ ॥ तालवृन्तैस्तथा छत्रैश्चामरैर्यष्टिभिस्तथा ॥ मुकुटैः कुण्डलैश्चैव शुभ्रैश्च मणिविभूषितैः ॥२३॥ ततस्ते दानवाः क्रुद्धाः स्वयुद्धेन दिवौकसः ॥ अभिद्रवन्ति देवेशं सहस्राक्षं पुरंदरम् ॥२४॥ दैत्यानां पततां दृष्ट्वा प्रह्लादं देवसूदनम् ॥ प्रत्युद्ययौ गजेना- ऽऽढौ देवराजो महाबलः ॥ २५ ॥ हुताशनोऽपि नमुचिमनुहादं तथा शशी ॥ वरुणश्च तथा बाणं यमो देवस्तथा बलिम् ॥२६॥ हिरण्यकशिपुं रुद्रो वायुर्वृत्रासुरं रणे ॥ विरूपाक्षं तथा शंसुंर्हिरण्याक्षं धनेश्वरः ॥२७॥ अन्ये च दैत्याः शतशः संयुक्ता देवतागणैः ॥ द्वन्द्वयुद्धसहस्रेषु तेष्वेवंवर्त- त्सुदानवैः ॥ २८ ॥ प्रायशो विजिता देवा यद्युभूत्वा दिशो दश ॥ दानवाश्च जयं लब्ध्वा देवाननु ययुर्बलात् ॥२९॥ ते भग्नास्त्रिदशाः सर्वे दानवै- श्चापिपीडिताः ॥ त्राणार्थमथ संप्राप्ता नरनारायणाश्रमम् ॥ ३० ॥ देवानानमभयं दत्त्वा नरनारायणौ तदा ॥ शंखचक्रायुधधरो युद्धाय समव- स्थितौ ॥ ३१ ॥ नरनारायणौ दृष्ट्वा तत्क्षुब्धं दैत्यसागरम् ॥ सर्वायुधविसर्गेण तयोर्युद्धं व्यवस्थितम् ॥ ३२ ॥ गजाभ्राजालसंहन्नं शरधारौघ- वर्षणम् ॥ चलन्खङ्गलतार्वद्युद्देत्यदुर्द्दिनमाबभौ ॥ ३३ ॥ ततः शरै रुक्मविभूषितैस्तैः सुनिशतैर्द्वन्डलकर्णिकैर्वणैः ॥ बिभेद गात्राणि नरो रिपूणां जहार शीर्षाणि सकुण्डलानि ॥ ३४ ॥ नारायणोप्युत्तमवीर्यतोजाश्चक्रेण चक्रे दितिनन्दनानाम् ॥ विदारयामास महानुभावस्तस्मिन्त्रणे घोरतरे तदानीम् ॥ ३५ ॥ वीर्यं तयोरप्रतिमं निरीक्ष्य ते दानवा भग्ननिकेतयोधाः ॥ हतामृता जीवितमात्रदेशा वेगेन याता वरुणाधिवासम् ॥ ३६ ॥


१ 'ह्रथिता निहतो नागो नागेन निहतो रथी ॥ हयश्च छिन्ना नागेन सादिना कुञ्जरो हतः ॥ इति ख० । २ 'हयैः प्राप्ते रथिभिश्च' इति ख० । ३ 'महाक्षत्रैः' इति ख० । ४ 'अभिद्रवन् हि' इति ख० । ५ 'शार्ङ्गचक्रायुधधरौ' इति ख० । ६ 'हन्तुम्' इति ख० । ७ 'निवृत्ता' इति ख० ।

वि० ध०
॥ २६॥

प्र० सं०
अ० ४४

लब्ध्वा जयं देवपतिर्महात्मा प्रह्लादभाजौ च तथा विजित्य ॥ संपूजयामास महानुभावौ धर्मात्मजौ तापसवेषयुक्तौ ॥ ३७ ॥ संपूज्य तौ धर्मसुतौ जितारिर्देवैः प्रहृष्टैरनुयास्यमानः ॥ जगाम नाकं त्रिदशप्रधानः सुखी बभूवाथ गतज्वरश्च ॥ ३८ ॥ एवं प्रभावो भगवान्स विष्णुर्वै न मे रोचति तेन नित्यम् ॥ सन्धिं कुरुष्वाऽऽत्महिताय राजञ्छक्रेण तेनारिनिपूदनेन ॥ ३९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे राहुवाक्येन देवदानवयुद्धवर्णनो नाम त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३ ॥ मार्कण्डेय उवाच ॥ १ एवमुक्तस्तदा साल्वो राहुणा भीमविक्रमः ॥ जगाद भ्रातरं वाक्यं सारभूतमहं तुमत् ॥ १ ॥ साल्व उवाच ॥ असारे ग्रह संसारे नित्ये सततयायिनि ॥ भवक्षये मतिः कार्या रजोपकरणेषु वा ॥ २ जन्तवस्त्रिविधा लोके त्रिया येषां विविचितम् ॥ २ ॥ तमसा राजसाश्चैव सात्त्विकाश्च ग्रहेश्वर ॥ भवक्षये वै विमुखा भवोपरकरणेषु च ॥ ३ ॥ लोकद्वितयविध्वस्तास्तमासास्ते प्रकीर्तिताः ॥ भवक्षयमतिश्चैव भवोपरकरणे स्थिताः ॥ ४ ॥ राजसास्ते विनिर्दिष्टा मध्यस्थाः सर्वजन्तुषु ॥ भवोपरकरणे दैत्य मतिर्येषां न विद्यते ॥ ५ ॥ भवक्षये मतिर्येषां सात्विकास्ते प्रकीर्तिताः ॥ तामसत्वान्मया दैत्य मतिः पूर्वं भवक्षये ॥ ६ ॥ न कृता तेन तप्त्यामि राज्यतन्त्रसमुत्थितम् ॥ मन्वन्तरेऽपि सम्पूर्णा मतिर्येषां ग्रहोत्तम ॥ ७ ॥ उद्विजनन्त्येव ते मृत्योर्महन्मृत्युक्तं भयम् ॥ अवश्यं दैत्य मर्त्यत्वं सर्वेणह शरीरिणा ॥ ८ ॥ सोऽहं मोक्षात्परिभ्रष्टः कामये केशवाद्वधम् ॥ दृष्टं यद्देवैस्तपन्तं त्रिपूर्णा मूर्धनि स्थितम् ॥ ९ ॥ मर्त्यत्वे च ध्रुवे गमान्मरणं कामयाम्यहम् ॥ संप्राप्य केशवान्मृत्युं गतिं प्राप्स्याम्यनुत्तमाम् ॥ १० ॥ भूयो गजयमवाप्स्यामि नाकश्रेष्ठो ग्रहोत्तम ॥ विवास्य वासवं स्वर्गात्पश्यिभूय पुनःपुनः ॥ ११ ॥ कथं सन्धि करिष्यामि तेनाऽहं जीवितप्रियः ॥ प्रणामं त्वं राजस्य केशवान्मरणं वरम् ॥१२॥ समीक्ष्य मातु पश्यामि केशवान्मरणं रण ॥ शक्रण कृतमन्यान् पातालनिलयं तथा ॥ १३ ॥ त्यक्षन्ति मां दैत्यगणा वृद्धं पतिमिवाऽङ्गनाः ॥ दिवि भूमौ तथा स्वर्गे पाताले गगने जले ॥१४॥ देहिनां मृत्युरभ्येति तस्य नाऽस्ति पलायनम् ॥ मवे श्चया त्ता निवयाः पतनान्ताः समुच्छ्रयाः ॥ १५॥ संयोगा विप्रयोगान्ता मणान्तं हि जीवितम् ॥ अवश्यभाविन्यर्थेऽस्मिन्नन्वेषां ग्रह मवेदा ॥ १६ ॥ पुण्यभाजो हि मरणं संग्रामे यदि जायते ॥ सोऽहं क्षत्रियधर्मेण संपूज्य समरे हरिम् ॥ १७॥ तन्मान्मुत्युमनुप्राप्य गतिं प्राप्स्यामि शोभनामा॥ नैवेद्यैः पुष्पधूपार्थैर्न तथा प्रूजितो हरिः ॥१८॥ तोषमायाति देवेन्द्र रु धमेंण यथा नृणाम् ॥ भ्रात्रा ऽयुध्न यडाच्य सुहृदा हितमिच्छता ॥१९॥


१ 'एवमुक्तस्तदा साल्बो राहुणा भीमविक्रमः' इति क० । २ 'नयावगतया' इति ख० । ३ 'हि' इति क० । ४ 'सन्तोषं' इति क० । ५ 'प्राप्स्याम्यनघाम' इति ख० ।

॥ २६ ॥

तद्भक्तोऽस्मि त्वया नाथ दैवात्तन्मे न रोचते ॥ स त्वं गच्छ महाभाग दिवि द्रक्ष्यसि मां पुनः ॥ २० ॥ देहान्तरमनुप्राप्तं मां हि दिव्येन चक्षुषा ॥ ॥ मार्कण्डेय उवाच॥ इत्येव साल्वस्य निशम्य वाक्यं कालानुरूपं च तथा विदित्वा ॥ न किञ्चिदुक्तेव जगाम राहुर्दिवं महात्मा जगतां प्रधानः ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववाक्यं नाम चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४ ॥ ॥ मार्कण्डेय उवाच ॥ राह्नौ दिवमसंप्राप्ते साल्वे राज्ञि सभां गते ॥ रामेण प्रेषितो दूतः सम्प्राप्तस्त्वकृतव्रणः ॥ १ ॥ स प्रविष्टः सभां रम्यां साल्वराज्ञा च पूजितः ॥ पाद्यार्घ्याचमनीयाद्यैर्निषण्णो वाक्यमब्रवीत् ॥ २ ॥ अकृतव्रण उवाच ॥ दूतोऽहं प्रेषितः साल्व रामेणाक्लिष्टकर्मणा ॥ श्रुत्वा रामस्य वचनं ततः कुरु यथेप्सितम् ॥ ३॥ आह त्वां भार्गवो रामस्त्र्यम्बकेण विसर्जितः ॥ त्वया युद्धाय दैत्येन्द्र संग्रामं क्रियतां क्षणम् ॥ ४ ॥ विवास्य वासवं स्वर्गाद्देवान्निर्जित्य वा सदाऽऽहवे ॥ अनन्यस्यास्य घोरस्य फलं प्राप्नुहि दुर्मते ॥ ५॥ नाहं प्रमत्ते विश्वस्ते प्रहरामि कदाचन ॥ तेन ते प्रेषितो दूतस्तस्माद्युद्धे स्थिरो भव ॥ ६॥ मार्कण्डेय उवाच ॥ एवमुक्तस्तदा साल्वो ब्राह्मणं वाक्यमब्रवीत् ॥ नाहं रामकृते ब्रह्मन्सन्नद्धामि कदाचन ॥ ७ ॥ किन्तु सैन्येन सर्वेण सन्नद्धेन वरूथिना ॥ महादेवं विजेष्यामि येन रामो विसर्जितः ॥ ८ ॥ सन्नद्धसैन्यसहितं महादेवंजयैषिणम् ॥ यदि मां योत्स्यते रामो हन्तास्मि तमहं मृधे ॥ ९॥ स त्वं गच्छ यथाकामं रामाय विनिवेद्य ॥ एतद्वचनमादाय साल्वस्य स महात्मनः ॥ १० ॥ जगाम रामं धर्मज्ञं साल्ववाक्यनिवेदितः ॥ गत्वा शशंस रामाय सैहिकेयविचेष्टितम् ॥ ११ ॥ तेन वाक्येन रामोऽपि रोषाद्दैत्यपुरं ययौ ॥ रामदूते गते तस्मिन् दैत्यान्साल्वः प्रचोदयत् ॥ १२ ॥ सन्नह्यध्वं विजेष्यामः सगणं भगसूदनम् ॥ ततस्ते दानवाः सर्वे साल्ववाक्यप्रचोदिताः ॥ १३ ॥ सन्नद्धा स्वगृहेभ्यस्तु राजद्वारमुपागताः ॥ कुञ्जराणां निनादेन शङ्खभेरीरवेण च ॥ १४॥ राजद्वारं महाञ्छब्दस्तुमुलः समजायत ॥ हुत्वा हुताशने स्नातः साल्व संपूज्य च द्विजान् ॥ १५ ॥ आरुरोह गजं मत्तं शैलाग्रं सविता यथा ॥ १६ ॥ विनिर्गतं दैत्यपतिं समीक्ष्य दैत्येश्वराः कालसमानदर्पाः ॥ ऊचुस्तदा तं समरेऽप्यजेयं जयस्व शत्रुंभुवि संगृह्ण ॥ १७॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामयुद्धे साल्वनिर्याणं नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥ ४५ ॥ मार्कण्डेय उवाच ॥ व्यस्पन्दतांऽथ साल्वस्य राजन्बाहुर्दक्षिणः ॥ हृदयञ्च तथा दृष्टं नयनञ्चाप्य दक्षिणम् ॥ १॥ शून्यचित्तश्च विमनाः कम्पते च मुहुर्मुहुः ॥ पपात नायकाश्चापि किरीटात्तारकप्रभः ॥ २॥ आक्रमन्ति गजाः पादं तथा वामन


१ 'विवास्य वासवं जित्वा स्वर्गाद्देवान् सदाऽऽहवे' इति ख० । २ 'सन्नद्धामि कथञ्चन' इति ख० । ३ 'रणे' इति ख० । ४ 'साल्ववाक्यनिवेदक' इति ख० । ५ 'व्यस्फुरंस्तदाऽथ' इति ख० ।

वि०ध० ॥ २८ ॥ प्र०खं० अ० ४१

कालगिनिर्वसा ॥ कृताः समरशौण्डेन भीमा रुधिरनिम्नगाः ॥ २४ ॥ परश्वथाग्रविक्षेपाद्गतजीवितकुञ्जरैः ॥ पादोपलेष्व समरे प्रतस्तार स भार्गवः ॥ २५ ॥ दन्तिदन्तपदन्यासम्नातं कुञ्जरमस्तकम् ॥ विनिहत्य गजारूढांश्छेदयन्नञ्चरच्चरन् लघु ॥ २६ ॥ आरुह्य कुञ्जरैके कुञ्जरात्कुञ्जरान्तरम् ॥ अपश्यत् स रणे रामं विचरन्तं यथासुखम् ॥ २७ ॥ भूयो भूमिगतो रामः कुञ्जराणां परश्वधा ॥ चकार कदनं घोरं प्रलयाग्निरिवोत्थितः ॥ २८ ॥ छिन्नाग्रहस्तान्विशिखाङ्कच्छोणितोक्षितान् ॥ क्षितौ गता न पश्यामः श्यामीकृतदिगन्तरान् ॥ २९ ॥ एवं हि युध्यता तेन रणे कालाग्निवर्चसा ॥ हतानि दानवेन्द्राणां प्रयुतान्यर्बुदानि च ॥ ३० ॥ येषां प्रहारं संसोढुं नैवं शक्ता वसुन्धरा ॥ तेषां प्रहारमभिवाङ्गो नैव रामो व्यकम्पत ॥ ३१ ॥ दृष्ट्वा महारवैर्व्याप्तं निहतांश्च महासुरान् ॥ प्रदुद्रुवुर्दैत्यगणाः माल्वं शरणमाहवे ॥ ३२ ॥ अल्पावशिष्टान्दितिजान्नष्टान्धन्वी समीक्ष्य साल्वः स्वहिते निविष्टाय ॥ गतं ययौ तेन गजेन युद्ध गमाद्रेण युद्धमभीप्समानः ॥ ३३ ॥

इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० साल्वसैन्यवधो नामऽष्टचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥

मार्कण्डेय उवाच ॥ ॥

ततः साल्वो महातेजाः कुञ्जरेण तरस्विना ॥ अपेयामास धर्मज्ञ रेणुकाकान्दवर्धनम् ॥ १ ॥ स्तब्धकर्णो विवृत्ताक्षः कृत्वा कुण्डलिनं करम् ॥ ग्रीवां निश्चल यत्रागो ययौ गजमदोद्धतम् ॥ २ ॥ दृष्ट्वापतन्तन्तस्य वेगं गमोऽपि तं गजम् ॥ हुंकारमात्रेण गण स्तम्यामास वेगितम् ॥ ३ ॥ मन्मथयामास नागेन्द्र शैलशृङ्गशिखोपमम् ॥ तस्थौ स पुरतस्तस्य साल्वस्य ममप्रियः ॥ ४ ॥ पशुरुं सदिनाङ्कङ्कि मकलङ्कमलं करं ॥ वारयन् विष्णुव्यधाति सकलं कमलेङ्गने ॥ ५ ॥ दन्तिना दन्तिनः पृष्टं गमय्याऽऽडिङ्गुमिच्छतः ॥ जहार वेगवान्वंगं शरैः मन्त्रतपविभिः ॥ ६ ॥ साल्वसायकसंघातैरावितोसुविकृतविक्रमस् ॥ गयं गणे द्युत्यगाणाऽड्यादयिन् बभूवुथैः ॥ ७ ॥ महता माऽञ्चपुंजन गमः संद्यदितो गणे ॥ निर्मिलिताक्षश्चिक्षेप साल्वाय पशुरुं तदा ॥ ८ ॥ आगच्छमानं वेगंन माल्वम्ने पशुरुं गणे ॥ आधुर्वान्द्याचयामान न शशाक च शत्रूहा ॥ ९ ॥ म साल्वायमसंवातं भङ्क्त्वा मवमशेषतः ॥ जहार शीर्षं माल्वम्य मुक्तोत्तमाविभूषितम् ॥ १० ॥ गमाऽपि धृतत्यात्याग गदां हमिविभूषिताम् ॥ आविध्य निजत्रानेण साल्वं कुञ्जरमस्थितम् ॥ ११ ॥ आनडुक्षावणं युद्धो ह्ता च चमसिंविशिषाः ॥ युद्धासक्तौ तदा तौ वीरौ गजस्य गदने स्थितौ तम् ॥ १२ ॥ दृढं च तस्य माल्वम्य पताकां च मनोरमाम् ॥ एतदादाय मकलमाजागाम वमुन्धराम् ॥ १३ ॥ सिंहनादेन गमम्य वित्रमन्तो


१ तेषां प्रहारादिवाङ्गो नैव रामो व्यकम्पत् इति ख० । २ साल्वस्य दन्त्यवत्सत् इति ख० । ३ युनन्दं हाद् इति ख० ।

॥ २८ ॥

गजयूथपः ॥ आर्त्तनादं महत्कृत्वा प्रदुद्राव नराधिप ॥ १४ ॥ रामकर्मणि वृत्तेऽभूतलात्पङ्गु रणे ॥ जयाह वेगावान्कञ्चादानान्वन्तश्चिकी- र्षया ॥ १५ ॥ दृष्ट्वा सपरशुं रामं साल्वं च विनिपातितम् ॥ हतशेषांस्तु ते दैत्याः प्रविष्टा वरुणाल्यम् ॥ १६ ॥ एतस्मिन्नेव काले तु देवाः सेन्द्रपुरोगमाः ॥ आयोचनमुपाजग्मुः पुरस्कृत्य पितामहम् ॥ १७ ॥ प्रणाममकरोत्तेषां रामो गतिकरः पितुः ॥ पूजयित्वा तु ते रामं ययुर्द्दिवः स्वमालयम् ॥ १८ ॥ शक्रोऽपि लब्ध्वा त्रिदिवं रामबाहुप्रसाधितम् ॥ विजहार दिवं राजन्पालयानो जगत्रयम् ॥ १९ ॥ रथेन सिद्धयुक्तेन महादेवोऽपि भार्गवम् ॥ आदाय प्रययौ शीघ्रं कैलासं पर्वतोत्तमम् ॥ २० ॥ स्नेहेन चाऽस्य गात्राणां चक्रे सम्मार्जनं हरः ॥ येनाऽऽसीद्विगलवान् रामो निर्व्रणश्च महायशाः ॥ २१ ॥ गतव्रणं श्रियोपेतं जयं लब्ध्वा ह्युपस्थितम् ॥ रामं प्रहरतां श्रेष्ठं शंकरो वाक्यमब्रवीत् ॥ २२ ॥ शङ्कर उवाच ॥ रामराम महाभाग त्वयाऽहं परितोषितः ॥ तस्मात्तवाऽहं दास्यामि चास्त्राणां हृदुत्तमम् ॥ २३ ॥ अस्त्राणां धारणे शक्तस्त्वमेको भुवि भार्गव ॥ तव धैर्यमनौपम्यं तव सत्त्वमनुत्तमम् ॥ २४ ॥ अवश्यंगमिहस्थैर्यं कृत्वा पुत्र शनैःशनैः ॥ सर्वास्त्रवित्तत्तो राम गन्तासि पितरं स्वकम् ॥ २५ ॥ यश्चैष परशुर्दिव्यः पित्रा दत्तस्तवोऽनघ ॥ अद्य प्रभृति ते स्थितः करं भूयः समेष्यति ॥ २६ ॥ उपलक्षणमेतच्च तथा तव भविष्यति ॥ छेत्स्यामि ते संशयांश्च निर्वृतो भव पुत्रक ॥ २७ ॥ मार्कण्डेय उवाच ॥ इत्येवमुक्तः परिपूर्णकामो रामो महात्मा जितसैन्यना- थः ॥ उवास तत्र प्रमथैः समेतः सर्वाण्यथास्त्राण्यनुशिक्षमाणः ॥ २८ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे साल्ववधो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ ब्रह्मास्त्रं वैष्णवं रौद्रमाग्नेयमथ वासवम् ॥ अब्धं नैर्ऋतं याम्यं कौबेरमथ वारुणम् ॥ १ ॥ वायव्यमथ सौम्यञ्च सौरं पार्वतमेव च ॥ चक्रास्त्रमथ वज्रास्त्रं पाशास्त्रं सार्पमेव च ॥ २ ॥ गान्धर्वं स्वापनं भौतं तथा पाशुपतं शुभम् ॥ ऐषीकं तर्जनं प्राप्तं मारुण्डं नर्तनं तथा ॥ ३ ॥ अंबरोधनमादित्यं रैवतं मानवं तथा ॥ अक्षिसंतर्जनं भीमं जृम्भणं रोधनं तथा ॥ ४ ॥ सौपर्णमथ पार्जन्यं राक्षसं मोहनं तथा ॥ कालास्त्रं दानवास्त्रञ्च अस्त्रं ब्रह्मशिरस्तथा ॥ ५ ॥ एतान्यन्यानि चाऽन्यानि रामो निवसन्वै ततः ॥ समप्रयोगदृष्ट्यानि संहाराणि चाप्यथ ॥ ६ ॥ आजहार महादेवात्प्राप्तसुखवाततः ॥ एवं हि वसतः कालो गयो रामस्य धीमतः ॥ ७ ॥ हरप्रसादात्संजातात्विक्रमो भुवनद्रुहः ॥ ध्यानासक्तं हरं देवं कदाचिदथ दृष्टवान् ॥ ८ ॥ ध्यानमसक्तं स हरं समीक्ष्य


१ 'हृतदर्पस्तु' इति ख० । २ 'सुखी' इति ख० । ३ 'त्वमेव' इति ख० । ४ 'अक्षयोगमवश्यस्त्वम्' इति ख० । ५ 'अन्तरोधनं' इति ख । ६ 'वसू इति' क० ।

वि० ध० ॥ २१ ॥

प्र० खं० अ० ६२ ॥ २१ ॥

रामस्तु संजातकुतूहलेन ॥ विस्मिसिष्मे धर्मभृतां वरिष्ठः स चेतसा यादववंशचन्द्र ॥ ९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे अङ्ग- प्रदानं नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ ॥मार्कण्डेय उवाच॥ कैलासशिखरे रम्ये नानाधातुविचित्रिते ॥ नानाद्रुमलराकीर्णे नानापक्षिनिना- दिते ॥ १ ॥ गंगांनिर्झरसंजाते<sup></sup> सततं चारुनिस्वने ॥ देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ २ ॥ राम उवाच ॥ देवदेव महादेव गंगालोलित मूर्द्धज ॥ शशांकलेखासंयुक्त<sup></sup> जटाभारतिभास्वर ॥ ३ ॥ पार्वतीहृदयाह्लादार्थ कामकालाङ्गनाशन ॥ भगनेत्रान्तकविचित्य पृच्छो दशशतातन ॥ ॥ ४ ॥ त्वत्तः परतरं देवं नाऽन्यं पश्यामि कञ्चन ॥ पूजयन्ति सदा लिंगं तव देवाः सवासवाः ॥ ५ ॥ स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः ॥ पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ ६ ॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने ॥ त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥ ७ ॥ कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् ॥ आचक्ष्व तन्मे भगवन्पृच्छ्यनुग्राह्यता मयि ॥ ८ ॥ प्रसादान्मुख्यताया र्मयैतद्विप्रमभासाद्य जगत्यथान ॥ भवन्तमीढ्यं प्रणिपत्य मूर्ध्ना पृच्छामि संजातकुतूहलात्मा ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शंकरगीतासु गद्यप्रश्नो नामकषष्टितमोऽध्यायः ॥ ६१ ॥ छ ॥ शंक उवाच ॥ त्पुळ्तोयमप्रश्नो राम राजीवलोचन ॥ त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ १ ॥ यत्तत्परमकं धाम मम भार्गवनन्दन ॥ गुह्याद्गुह्यतरम व्यक्तं परं यस्मान्न विद्यते ॥ ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाधितम्<sup></sup> ॥ २ ॥ त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् ॥ एतद्गुह्य रहस्यं ते ययावत्कथितं वचः ॥ ३ ॥ ये भक्तास्तन्मजं देवं न तें<sup></sup> यान्ति पराभवम् ॥ नर्मीशमजमव्यक्तं सर्वभूतपरायणम् ॥ ४ ॥ मवं नारायणमनिर्देश्यं जगत्कारणकारणम् ॥ सर्वतः पाणिपादन्तं सर्वतोऽक्षिशिरोमुखम् ॥ ५ ॥ सर्वतः श्रुतिमँल्लोके सर्वमावृत्य तिष्ठति ॥ सर्वे- न्द्रियगुणाभासं सर्वेन्द्रियवि वर्जितम् ॥ ६॥ असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च ॥ बहिरन्तश्च भूतानामचरञ्चर एव च ॥ ७ ॥ सूक्ष्मत्वातद विज्ञेयं दूरस्थं चान्तिके च यत् ॥ अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ ८॥ भूतभर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ ज्योतिपामपि तज्ज्योतिः तमसः परमुच्यते ॥९॥ अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ प्रकृतिर्विकृतियोंऽसां जगतां भूतभावनः॥ १०॥ यस्मान्नपरंतं नास्ति ॥ २१॥


१ 'गंगाप्रकर्षसंजाते' इति ख० । २ 'शशांकलेखायुत' नयनागरानुगन्क' इति ख० । ३ 'विदितम्' इति क० । ४ 'इ' इति ख० ।

तं देवं चिन्तयाम्यहम् ॥ इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ११ ॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् ॥ यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ १२ ॥ यश्च सर्वमयो नित्यस्तं देवं चिन्तयाम्यहम् ॥ गोणीधरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ १३ ॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरूम् ॥ शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ १४ ॥ युक्तो सर्वात्मनाऽऽत्मानं तं प्रपद्ये प्रजापतिम् ॥ यस्मिन्स्रवन्ति भूतानि तिष्ठन्ति च विशन्ति च ॥ १५ ॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव ॥ यस्मिन्त्रिते तते तन्तौ दृढे स्रगिव तिष्ठति ॥ १६ ॥ सदसद्ग्रथितं विश्वं विश्वांगे विश्वकर्मणि ॥ हरिं सहस्राशिरसं सहस्रचरणेक्षणम् ॥ १७ ॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् ॥ अणीयांसमणीयांसं स्थविष्ठञ्च स्थवीयसाम् ॥ १८ ॥ गरीयसां गरिष्ठञ्च श्रेष्ठञ्च श्रेयसामपि ॥ यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ १९ ॥ गृणन्ति सत्यकर्म्माणं सत्यं सत्येषु सामसु ॥ चतुर्भिर्भिश्चतुराननं सत्त्वस्थं सात्वतां पतिम् ॥२०॥ यं दिव्यैर्वमर्चन्ति गुह्यैः परपनामभिः ॥ यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ २१ ॥ इह्यानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् ॥ पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ २२ ॥ क्षये संकर्षणः प्रोक्तस्तमुपास्यमुपास्महे ॥ यमेकंबहुधायातं प्रादुर्भूतमधोक्षजम् ॥ २३ ॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् ॥ यमोद्बहुजगतां कोशं यस्मिन्सन्निहिताः प्रजाः ॥२४॥ यस्मिंल्लोकाः स्फुरन्तीमे जले शकुनयो यथा ॥ ऋतमक्षरमक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ २५ ॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः ॥ यं च सुरासुरगन्धर्व्वास्तत्सिद्धांश्चमहोरगाः ॥२६॥ प्रयता नित्यमर्चन्ति परं दुःखभेषजम् ॥ अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ २७ ॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् ॥ अतिवाग्बिन्दुकर्म्माणं चाडितिसूर्य्याभ्रितेजसम् ॥ २८ ॥ अतिबुद्धीन्द्रियात्मानं तं प्रपद्ये प्रजापतिम् ॥ यं वै विश्वस्य कर्त्तारं जगतस्तस्थुषां पतिम् ॥ २९ ॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् ॥ यस्याग्निरास्यं द्यौर्मूर्द्धा खं नाभिश्चरणौ क्षितिः ॥ ३० ॥ चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् ॥ यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥३१॥ यस्य चासश्च पवनस्तं देवं चिन्तयाम्यहम् ॥ विषये वर्त्तमानानां यं तं वैशेषिकैर्गुणैः ॥ ३२ ॥ प्रादुर्भावप्रयोगोत्तारं तं देवं चिन्तयाम्यहम् ॥ परः कालात्परो यज्ञात्परस्सदसतोश्च यः ॥ ३३ ॥ अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् ॥ पद्ध्यां यस्य क्षितिर्जाता श्रोत्राभ्याञ्च तथा दिशः ॥३४॥ पूर्वभागे दिवं यस्यतं देवं चिन्तयाम्यहम् ॥ नाभ्यां यस्या


१ 'इह्यामात्रम्' इति ख० । २ 'यस्ततोऽन्यो' इति क० । ३ 'यमाहुर्बहुजगतः कोशं' इति ख० ।

वि०ध० | प्र० खं० ४३० ॥ | अ० ६३ | ॥ ३० ॥

न्तरिक्षस्य नासाभ्यां पवनस्य च ॥ ३६ ॥ प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥३६॥ वराहरूपं नरसिंहरूपं देवेश्वरं वामनरूपरूपम्॥ त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥३७॥ वक्रमाश्रित्य ब्राह्मणास्सम्प्रसूता यद्वक्षः क्षत्रियाः संप्रभूताः ॥ पश्योर्वेश्यास्तथा पाद्मद्भवे वैश्याः पद्भ्यां तथा वस्य शूद्राः प्रसूताः ॥३८॥ व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन ॥ देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥३९॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभागवगवान्प्रश्ने शार्ङ्गणीतासु व्यंगनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ५२। राम उवाच ॥ वराहं नरसिंहं च वामनं च महेश्वर ॥ त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ १॥ शङ्कर उवाच॥ अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च ॥ अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥२॥ दितिंच जनयामास द्वौ पुत्रौ भीमविक्रमौ ॥ हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ॥ ३ ॥ ततोऽभिषिच्यवाञ्छक्रं देवराज्ये प्रजापतिः ॥ दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ ४॥ अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव चा। पातालं शासितंतथा हिरण्याक्षे महासुरे ॥५॥ धरांचपवनं त्यक्त्वा विबुधैन्द्रे ग्यात्पुणो ॥ पश्यन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥ ॥६॥ धरावधपरित्यक्ता धरा चलनिवन्धना ॥ यदा तदा दैत्यपुरं सकलं व्याप्तिमगमत् ॥ ७ ॥ दृष्ट्व म्वपुरं व्याप्तममम्मा दितिजात्मजः ॥ सैन्यैसुवोजयामास जातशङ्कः सुरान्प्रति ॥ ८ ॥ उधुक्तेने म संश्येन दैन्यानां चतुर्गणिना ॥ विजित्य त्रिदशाञ्चन्य आजह्रार त्रिविष्टपम् ॥ ॥ ९ ॥ हृताधिकारास्त्रिदशा जग्मुः शरणमज्र्म्मा ॥ देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ १० ॥ त्रिदशाञ्छरणं प्राप्ता न्हिरण्याक्षाविवासितान् ॥ संयोज्याऽभयददानेन विममर्ज जनार्दनः॥ ११ ॥ विसृज्य त्रिदशान्त्सर्वाग्विन्तयामास केशवः ॥ किन्तु रूपमहं कृत्वा घातयिष्ये सुरद्विषम् ॥१२॥ तिर्यङ्मनुष्यद्वानांमावध्यः स सुगन्तकः ॥ ब्रह्मणा वरदानेन तन्मातन्म्य बधेय्यया ॥ १३॥ तृवराहो भविष्यामि न देवो न च मानुषः ॥ नित्येवूपण चौवाहं घातयिष्यामि तं ततः ॥ १४ ॥ एतावदुक्ता मगंन नुवंगोहोऽभवत्प्रभुः ॥ चूर्णिताञ्जनशैलाभस्तप्त जाम्बूनदान्वभूः ॥ १५ ॥ यमुनावर्तकृष्णाङ्गः तड़ावतंतनुहूहः ॥ तड़ाव इव दुर्धर्षण्णन्मियत्रा तेजमा ममः ॥ १६ ॥ तंन्यवाह इवाश्चर्य्यन्तं त्वाह इवोचवान् ॥ तत्रप्रवाहमलन्तन्तन्प्रवाहमसनातः ॥ १७ ॥ मजलञ्श्चनकृष्णाङ्गः मजलाश्रुडमुच्छविः ॥ पीतवावामन्डा मोति मवि द्युदिव तोयदः ॥ १८ ॥ उश्मा धाग्यन्द्वगं शशाङ्कमहृच्छविः ॥ शुशुभे मवभूतात्मा मवलाके इवाम्बुदः ॥ १९ ॥ शशाङ्कलेखविमलं


१ 'सैन्यैसुयोजयामास' इति ख० । २ 'तद्गतः' इति ख० । ३ 'यमुनाश्लाघ्यदन्ताग्रदंष्ट्राविभूषणः' इति ख० । ४ 'तत्रग्राह इवाश्चर्यः प्रवाह इव चोन्नतः' इति ख० ।

दृष्ट्वा तस्य विरेजतुः ॥ मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ २० ॥ कराभ्यां धारयन्भाति शङ्खचक्रे जनार्दनः ॥ चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ २१ ॥ महाजीमूतसंकाशो महाजीमूतसंन्निभः ॥ महाजीमूतवद्रङ्गी महाबलपराक्रमः ॥ २२ ॥ दानवेन्द्रवधायकाङ्क्षी हिरण्याक्षो ययौ ॥ हिरण्याक्षोऽपि तं दृष्ट्वा सूवराहं जनार्दनम् ॥ २३ ॥ दानवाँश्चोदयामास तिर्यग्जातमपूर्व्वकम् ॥ गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ २४ ॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् ॥ जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ २५ ॥ चोदिता दानवेन्द्रेण दान वाः शस्त्रपाणयः ॥ प्रवर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ २७ ॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः ॥ नैव शेकुर्व्व्यथां कर्त्तुं यत्नवन्तोऽपि निर्भयाः ॥ २८ ॥ हन्यमानोऽपि दैत्येन्द्रैर्दानवान्मधुसूदनः॥ जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥२९॥ हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः ॥ उत्थाय धनुषा देवं प्रवर्षे शरोत्तमम् ॥ ३० ॥ हिरण्याक्षस्तु तान्दृष्ट्वा विफलैँश्च शिली- मुखान् ॥ शिलीमुखानां संप्रध्वन्समपश्यन्महद्भयम् ॥ ३१ ॥ ततोऽखेदंयुयुधे तेन देवदेवेन चक्रिणा ॥ तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ ३२ ॥ ततो गदां काञ्चनपट्टनद्धां विष्वपितां किंकिणिजालसंवैः ॥ विक्षिप दैत्यस्य वराह्काय ढुङ्कणदग्धा निपपात सा चा विफलीचकार ॥ ३३ ॥ शक्तिं ततः पट्टिनिद्धमध्यमुल्कानलाभां तपनीयचित्राम् ॥ विक्षिप दैत्यस्स वराह्काय ढुङ्कणदग्धा निपपात सा चा ॥ ॥ ३४ ॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य संख्ये ॥ दैत्याधिपस्तस्य ससर्ज वेगाद्वैवेक्षितः सोऽपि जगाम भूमिम् ॥ ३५ ॥ शङ्खस्वेनताऽपि जनार्दनश्च विद्राव्य दैत्यान्सकलान्महात्मा ॥ सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ ३६ ॥ निपातिते दैत्यपतौ स देवः संपूजितः शक्तिपितामहाभ्याम् ॥ मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ ३७ ॥ शक्तोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पश्चान्नवणीयराणवाम् ॥ ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ ३८ ॥ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु सूवराहाप्रादुर्भावे हिरण्याक्षवधो नाम त्रिप्रञ्चाशत्तमोऽध्यायः ॥ ५३ ॥ ॥ शङ्कर उवाच ॥ हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः ॥ हिरण्यकशिपुर्नाम चकारोग्रं महत्त्पः ॥ १ ॥ दशवर्षसहस्राणि दशवर्षशतानि च ॥ जपो


१ 'निस्तनः' इति ख० । २ 'न्यथाम्' इति ख० । ३ 'वेगादिवेक्षितः' इति ख० ।

वि० ध० ॥ ३५ ॥

पृ० सं० अ० ५४

पवासानिरतः स्नानैर्मोनाश्रितव्रतः ॥ २ ॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चाऽनघ ॥ ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ ॥ ३ ॥ विमानेनाऽर्कवर्णेन हंसयुक्तेन भास्वता ॥ आदित्यैस्सहितः साध्यैस्सहितो मरुद्भिर्विधिः ॥ ४ ॥ रुद्रैर्विश्वैस्सहाथैश्च यक्षरक्षसपन्नगैः ॥ दिग्भिर्वादिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ ५॥ निम्नगाभिः समुद्रैश्च मातंगैर्वयसांविधिः ॥ नक्षत्रैश्च मुहूर्त्तैश्च कालस्या वयवैस्तथा ॥ ६ ॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा ॥ राजर्षिभिः पुण्यतमैर्गन्धर्वाप्सरोगणैः ॥ ७ ॥ जगच्चक्षुः श्रीमान्युक्तः सर्वैर्दिवौकसैः ॥ ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ ८ ॥ ब्रह्मोवाच ॥ प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत ॥ वरं वृणुष्व भद्रं ते यथेष्टं काममाप्नुहि ॥ ९ ॥ हिरण्यकशिपुरुवाच ॥ न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ॥ न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥१०॥ ऋषयोपि न मां शापं क्रुद्धा लोकापितामह ॥ शपेयुरनुतपसा युक्ता वरमेतद्वृणोम्यहम् ॥ ११ ॥ न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा ॥ न शुष्केण न चाऽऽद्रेण वधं मे स्यात्कथञ्चन ॥ १२ ॥ भवेयमहमेकार्कः सोमो वायुर्हुताशनः ॥ सलिलं चाऽऽन्तरिक्षञ्च नक्षत्राणि दिशो दश ॥ १३ ॥ अहं क्रोधश्च कामश्च वरुणो वासवो यमः ॥ धनदश्च तथाध्यक्षो यक्षः किन्नरपामधिपः ॥ १४ ॥ ब्रह्मोवाच ॥ एते दिव्यवरा स्तात मया दत्तास्तवादृताः ॥ सर्वान्कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ १५ ॥ शङ्ख उवाच ॥ एवमुक्त्वा तु भगवांञ्जगामाकाशमुत्तमम् स्वमेव हि ॥ वैराजं देवसदनं महर्षिगणसेवितम् ॥ १६ ॥ ततो देवांश्च नागांश्च गन्धर्वा सुमहन्यथा ॥ भगवान् श्रुत्वा पितामहमुखोद्गतान् ॥ ॥ १७ ॥ देवा ऊचुः ॥ वरेणानेन भगवन्बलविष्यति स नोऽसुरः ॥ तन्नः प्रसीद भगवंस्त्वं चाऽऽश्वस्य विचिन्त्यताम् ॥ १८ ॥ भगवान्म र्बभूतानां स्वयम्भूरुदिकृत्प्रभुः ॥ सदा च हव्यकव्यानां चाऽऽयुक्तः प्रकृतिर्ध्रुवः ॥ १९ ॥ शङ्ख उवाच ॥ सर्वलोकहितं वाक्यं शृणु देवः प्रजापतिः ॥ प्रोवाच वरदो वाक्यं सर्वान्देवगणान्नतः ॥ २० ॥ ब्रह्मोवाच ॥ अवश्यं त्रिदशास्तात प्राप्तव्यं तपसः फलम् ॥ तत्प्रमादं वरं विष्णुस्तपसोऽन्ते करिष्यति ॥ २१ ॥ शङ्ख उवाच ॥ एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः ॥ स्वानि स्थानानि दिव्यानि जग्मुस्ते तु मुदान्विताः ॥ २२ ॥ लघुमात्रं वरे तस्मिन्त्सर्वाः सोऽजयत प्रजाः ॥ हिरण्यकशिपुर्दुष्ट्या वराज्ञानेन दर्पितः ॥ २३ ॥ आश्रमस्थान् महात्मानो मुनीन्क्रूरांश्र्चितवतवान् ॥ सैत्यधर्मरतान्दानान्तुदगधंप्रविभंवंस्तु सः ॥ २४ ॥ देवान्विबुधवर्यांश्च पराजित्य महासुरः ॥ त्रैलोक्यं वशमानीय

॥ ३१ ॥


^१ 'स्नानमौनेनाश्रितव्रतः' इति ख० । ^२ 'नक्षत्रस्तत्त्व' इति ख० । ^३ 'सत्यधर्मरतान्दान्तान्द्वाभ्यामाथ्र्यीभवंस्तु सः' इति ख० ।

स्वर्गे वसति दानवः ॥ २५ ॥ यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि ॥ यज्ञियान्कृतवांश्चैव दैत्यान्यज्ञेश्वाश्च देवताः ॥ २६ ॥ आदित्या वसवो रुद्रा विश्वेदेवास्तथाऽश्विनौ ॥ भृगोर्वाङ्गिरसः साध्या मरुतश्च सवासवाः ॥ २७ ॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् ॥ देवं ब्रह्म मयं विष्णुं ब्रह्मामृतं सनातनम् ॥ २८ ॥ भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् ॥ नारायणं विभुं देवाः शरणं शरणा गताः ॥२९॥ देवा ऊचुः॥ त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् ॥ त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ ३० ॥ प्रोक्तमुक्तमवाप्नयान्न शत्रुक्षयंकरं ॥ क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ ३१ ॥ श्रीभगवानुवाच ॥ भयं त्यजध्वममरा अभयं वो ददाम्यहम् ॥ तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ॥ ३२ ॥ एषोऽहं सबलं दैत्यं वरदानेन दर्पितम् ॥ अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ ३३ ॥ शङ्कर उवाच ॥ एवमुक्ता सा भग वाग्विस्सृज्य त्रिदिवेश्वरान् ॥ नारसिंहं वपुश्चक्रे सहस्रांशुसमप्रभम् ॥ ३४ ॥ प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम् ॥ दैत्यसैन्यमहाम्भोधि वडवानलवर्चसम् ॥ ३५ ॥ सन्ध्याभ्ररक्तमेघाभं नीलवाससमच्युतम् ॥ देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ॥ ३६ ॥ संपूर्णवक्रदशनैः शशाङ्कशकलोपमैः ॥ पूर्णं मुक्ताफलैः शुभ्रैः समुद्गमिव काञ्चनम् ॥ ३७ ॥ नखैर्विद्रुमसंकाशैर्विराजितकरद्वयम् ॥ दैत्यनाथक्षपकरैः क्रोधस्येव यथाऽङ्कुरैः ॥ ३८ ॥ सटाभारं सकुटिलं वह्निज्वालाग्रपिङ्गलम् ॥ धावन्भाति सर्वात्मा दावानलमिवाचलः ॥ ३९ ॥ दृश्यादृश्यमुखे तस्य जिह्वाप्युदितचञ्चला ॥ प्रलयान्ताम्बुदस्येव चञ्चला तु तडिद्यथा ॥ ४० ॥ आवर्त्तिनिर्मलेऽक्रोधेनयने विषहस्त्विव ॥ महाकटिकटस्कन्धमलो तप्तमिवक्षणम् ॥ ४१ ॥ कल्पान्तनभनिर्घोषं प्रज्वलद्वालिनःश्वासमारुतम् ॥ दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ॥ ४२ ॥ कृत्वा मूर्तिं नृसिंहस्य दानवेन्द्रसभों ययौ ॥ ताम्बभञ्ज तु वेगेन दैत्यानां भयवर्धनः॥ ४३ ॥ भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना ॥ हिरण्यकशिपुर् राजा दानवान्समचोदयत् ॥ ४४ ॥ सर्वजातिमिवं घोरं चापूर्वं पुनरागतम् ॥ घातयध्वं दुराधर्षं येन मे नाशिता सभा ॥४५॥ तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः ॥ आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ॥ ४६ ॥ नानायुधसहस्राणि तस्य गात्रेषु भार्गव ॥ विशीर्णान्येव दृश्यन्ते मृष्टोधानीव पर्वते ॥ ४७ ॥ दैत्यायुधानां वैकल्यं कृत्वा हत्वा च दानवान् ॥ करपादप्रहारैश्च शतशोऽथ सहस्रशः ॥ ४८ ॥ जग्राह वेगा द्दैत्यं हिरण्यकशिपुं ततः ॥ नृसिंहेहेतोर्विक्रान्तमवेक्ष्यवपुर्महाद्भुतम् ॥ ४९ ॥ वेगेनोत्सङ्गमारोप्य कदलीदललीलया ॥ दारयामास दैत्येशं


^१ 'प्रभविष्णुं परायणम्' इति क० । ^२ 'एषोऽहम्' इति ख० । ^३ 'जिह्वान्यमितचञ्चला' इति ख० । ^४ 'लोमगानेः' इति ख० । ^५ 'रूपन्' इति ख० ।

वक्षस्थलमहागिरिम् ॥ ५० ॥ कृत्वा तमसुभिहीनं दैत्येशं केशवः स्वयम् ॥ असुराणां विनाशं च क्रूरो नह्यविध्यद्वात् ॥ ५१ ॥ हत्वासुरं शोणितबिन्दुचित्रं संपूज्य देवाः सह वासवेन ॥ जगुस्सुखच्छिण्यानि मुदा समेता देवोयथान्तान्हितसुत्सिरास ॥ ५२ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४ ॥ शङ्कर उवाच ॥ हते हिरण्यकशिपौ दानवे दृप्तकण्टके ॥ हतेष्वन्येषु दैत्येभ्यः पातालतलमाश्रिताः ॥ १ ॥ पातालतलसंस्थेषु दानवेषु महायशाः ॥ प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ २ ॥ आराध्य तपसोग्रेण वरं लेभे पितामहात् ॥ अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ ३ ॥ वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्महाहवे ॥ प्रहृद्या दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ ४ ॥ संप्राप्य दैत्यराज्यं तु बलेन चतुरंगिणा ॥ जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ ५ ॥ स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः ॥ कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ ६ ॥ ब्रह्मणादभिहितो देवं जगाम शरणं हरिम् ॥ अमूताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ ७ ॥ देवोऽप्यस्मद्यदलेन संयोज्य बलसूदनम् ॥ उवाच वचनं काले मेघगम्भीरया गिरा ॥८॥ श्रीभगवानुवाच ॥ गच्छ शक्र भविष्यामि भ्राता ते बलसूदन ॥ द्वेवरूपधृग् भूत्वा वञ्चयिष्यामि तं बलिम् ॥९॥ शङ्कर उवाच ॥ एवमुक्तस्तदा शक्रः प्रणम्य कश्यपाश्रमम्॥ आदिशेद्वासितेर्गर्भं चशिनाऽथ च सर्वदा ॥१०॥ गर्भञ्च एव तेजोभिः संनवेश्यः महाददे ॥ ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ ११ ॥ यस्मिञ्जाते सुगणाः प्रहर्षमतुलं गताः ॥ ऋषयश्च महात्मानश्च काल्यामलदर्शिनः ॥ १२ ॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः ॥ बलिर्दैत्यपतिः श्रीमान्पालियामासुपाश्रितः ॥ १३ ॥ वामनन्कल्प्य तमादाय तस्य यज्ञे बृहस्पतिः ॥ अनयद्गुहाशार्दूल नूनं तन्मय मायया ॥ १४ ॥ यज्ञवाटं न संप्राप्य यज्ञं दृष्ट्वाथ वामनः ॥ आत्मानमात्मना ब्रह्मन्समुच्छ्रन्न इवानलः ॥ १५ ॥ प्रवेशयामास च तं बलिर्धर्मभृतां वरः ॥ दृष्ट्वा नं महाभागं वामनं सुमनेादरम् ॥ १६ ॥ मंचुक्रमकविर्यैः पांतैः संस्मितपंग्विभिः ॥ कृष्णजिनजटादण्डकमण्डलुविराजितम् ॥१७॥ विक्रमन्पश्यन्त्या व्यामोलीयंति म्म स्वांश्वभू ॥ विक्रमिन्यञ्चैतन्थेवांव्या लीनगात्रः स्वविग्रहे ॥ १८ ॥ एतन्मिन्नेव काले तु हयमेधाय दीक्षितः ॥ तन्माद्यु प्रार्थयाञ्चाजग्दि सर्वं क्रमत्रयम् ॥ १९ ॥ एवमुक्तस्तमु देवेन बलिर्दैत्यगणाधिपः ॥ प्रददावुदकं तस्य पा॑च्यम्चंति चाब्रवीत ॥ २० ॥ अन्यच्च यदभीष्टन्ते तद्गृहाण द्विजात्तम ॥ प्रतिजग्राह च जलं


१ 'दानवातां स आददे' इति ख० । २ 'वामनं रूपम् आदाय' इति ख० । ३ 'क्षात्' इति क० । ४ 'सां पश्यंति' इति ख० !

प्रवावृधे तदा हरिः ॥ २१ ॥ उदङ्मुखैर्दैत्यवरैर्वीक्ष्यमाण इवाम्बुदः ॥ अक्रामंस्तु हरेर्लोकान्दानवाः शस्त्रपाणयः ॥ २२ ॥ अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः ॥ गरुडाननाः खड्गमुखा मयूरवदनास्तथा ॥ २३ ॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः ॥ आखुदुर्दुरवक्त्राश्च घोर- वक्त्रमुखास्तथा ॥ २४ ॥ मार्जारशशवक्त्राश्च हंसकान्ताननास्तथा ॥ गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ २५ ॥ सिंहव्याघ्रशृगालानां द्वीपिनांनरपक्षिणाम् ॥ हस्त्यश्वगोखरोष्ट्राणां भुजगानां समानानाः ॥ २६॥ प्रतिगृह्णञ्जले प्राप्य व्यवर्धत तदा हरिः ॥ उदङ्मुखैर्दानवघोरैर्वीक्ष्यमाण इवाम्बुदः ॥ २७ ॥ विक्रमन्तं हरिं लोकान्दानवाः शस्त्रपाणयः ॥ मत्स्यकच्छपवक्त्राणां दुर्हगाणां समानानाः ॥ २८ ॥ स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा ॥ पिङ्गेक्षणा विवृतास्या नानाबाहुशिरोधराः ॥ २९ ॥ स्थूलग्रानसाश्चिपिटा महाहुङ्कारपालिनः ॥ चीनांशुकोत्तरासंगाः केचित्कृष्णाजिनाम्बराः ॥ ३० ॥ भुजङ्गाभरणाश्चान्ये केचित्सुकुटसूपिताः ॥ ३१ ॥ सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ ३१ ॥ धनुर्बाणधराश्चान्ये तथा तोमरपाणयः ॥ खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ ३२ ॥ शतघ्नीचक्रहस्ताश्च गदामुशलपाणयः ॥ अश्मग्रन्थाद्युधोपेता भिण्डिपालयुधास्तथा ॥ ३३ ॥ शूलोलूखलहस्ताश्च परश्वधधरास्तथा ॥ महावृक्षप्रवहणा महापर्वतयोधिनः ॥ ३४ ॥ क्रममाणं हृषीकेशमावृण्वन्त सर्वशः ॥ सं तान्ममर्द सर्वात्मा तनुसुखान्दैत्यदानवान् ॥ ३५ ॥ सरसीव महापह्रान्माहस्तीव दानवान् ॥ प्रमथ्य सर्वान्दैत्येयान्हस्तपादतलैस्ततः ॥३६ ॥ रूपं कृत्वा महाभीममाजहारोऽऽशु मेदिनीम्॥ तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ ३७ ॥ परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ ॥ ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ ३८ ॥ ततोपि क्रममाणस्य पद्मा द्वै व्यवस्थितौ ॥ जित्वा स मेदिनीं कृत्स्त्रां हत्वा चासुरपुंगवान् ॥ ३९ ॥ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः ॥ स्वं रूपञ्च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ ४० ॥ श्रीभगवानुवाच ॥ यद्ब्रूहि त्वयिदत्तस्मिन्सत्यितामे महासुर ॥ मया निविष्टपादेन मापियंत्वं वसुन्धरा ॥ ४१ ॥ प्रथमं तु पदं जातं नौर्बन्धेयशिखरे मम ॥ द्वितीयं मरुशिखरे तृतीयं नाऽभवक्वचित् ॥ ४२ ॥ तन्मे वय दैत्येन्द्र यन्मयाप्तं प्रतिग्रहम्॥ बलिरुवाच ॥ यावती वसुधा देव त्वयैव परिनिर्मिता ॥ ४३ ॥ तावती ते न संपूर्णा देवदेव क्रमत्रयम् ॥ न कृतं यत्त्वया देव कृतस्तन्मे महेश्वर ॥ ४४ ॥ न च तद्विद्यते देव तथैवाऽन्यस्य कस्यचित् ॥ श्रीभगवानुवाच ॥ न मे त्वयाप्रयुक्ते मे दानवेन्द्र यथाश्रुतम् ॥ ४५ ॥ दूतलं नाम पातालं वस


१ 'पिङ्गलाक्षा विवृताक्षा' इति ख० । २ 'महावृक्षप्रहरणा' इति ख० । ३ 'मतान्' इति ख० । ४ 'स्वञ्च रूपं समासाद्य' इति ख० । ५ 'तावती वसुधा पूर्णा' इति ख० ।

वि०ध० प्र० सं० अ० ५६

तत्र संशयः ॥ मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ ४६॥ ज्ञातिभिः सह धर्मिष्ठैस्त्वं तत्र यथासुखमात्मवान् त्वं भोक्ष्यसे भोगान्विविधाञ्छुभा- न्सुदुर्लभान् ॥४७॥ अवाप्स्यसि तथा भोगाँल्लोकेष्विहविविधार्जितान् ॥ प्राक्कामायुक्तश्च तथा लोकेषु विहरिष्यसि ॥४८॥ मन्वन्तरे द्वितीये च महेंद्रत्वं करिष्यसि ॥ तेजसा च महीयेन शक्रेण योत्स्यसे बले ॥ ४९ ॥ तव शत्रुगणान्सर्वान्घातयिष्याम्यहं तदा ॥ ब्रह्मणस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ ५० ॥ तपस्वी दानशीलश्च वेदवेदांगपारगः ॥ तस्माच्छोभामिवृद्ध्यर्थं मया त्वमभिसंन्वितः ॥ ५१ ॥ देवराज्याधिका- न्भोगान्पातालस्यापि भोक्ष्यसे ॥ सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ ५२॥ मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि ॥ शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिफोदन्तरे ॥ ५३ ॥ सर्वसंधिविनिर्मुक्तो मयैव सह रंस्यसे ॥५४॥ शङ्कर उवाच ॥ इत्येवमुक्त्वा सजलम्बुदामः प्रततचामी- करधौतवस्त्रः ॥ अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ ५५ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मा०सं० शंकरगीतासु वामन प्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥ राम उवाच ॥ तस्य देवातिदेवस्य विष्णोरमिततेजसः ॥ त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ १ ॥ शङ्कर उवाच ॥ न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः ॥ प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ॥२॥ सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः ॥ वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ ३ ॥ दिशश्च विदिशाश्चापि तथा ये च दिगीश्वराः ॥ आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ ४ ॥ साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च ॥ अश्विनौ गुह्यकश्चैव गन्धर्वाप्सरसां गणाः ॥ ५ ॥ पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव ॥ तिर्यङ्मनुष्यदेवाश्च निर्लिङ्गे यच्च नेङ्गत ॥ ६ ॥ नभश्चानल महाभाग प्रकृतिर्विकृतिश्च वः ॥ कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ ७ ॥ विद्याधरास्तथा यक्षा नागाः सर्पाः सकिंन्नराः ॥ राक्षसाश्च पिशाचाश्च पितरः कालसंयमः ॥ ८ ॥ धर्माथकाममोक्षाश्च धर्मद्वाराणि यानि च ॥ यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ ९॥ जगदण्डान्डजान्येव संप्रवृद्धमथाण्डिजम् ॥ एकाशीति- स महतां वसूनां स च पावकः॥१०॥ अहिश्चैव्यश्च रुद्राणां नाँदेवां विनियोनया ॥ नागराद्यश्च साध्यानां सुप्राण्यज्य तथा क्रतुः ॥ ११ ॥ आदित्यानां तथा विष्णुराशुरिंद्रासां तथा ॥ विश्वेषाञ्चेव देवानां गन्धर्वानां मकीर्तितः ॥१२॥ वासवः नवदानानां ज्योतिषां च हुताशनः ॥ यमः संयमश्रीं भर्ता विरूपाक्षः क्षमाष्टताम् ॥ १३ ॥ यादसां वरुणश्चैव पवनः पुवतां तथा ॥ धनाध्यक्षश्च यक्षाणां रुद्रा रुद्रन्तधान्नरः ॥ १४ ॥ अनन्तः सर्पतानां

॥ ३३॥


^१ 'भूयः कथयतः कथयम्' इति ख० । २ 'संहारे च तत्परस्तथा इति ...

गानां सूर्यस्तेजस्विनां तथा ॥ ग्रहाणाञ्च तथा चन्द्रो नक्षत्राणाञ्च कृत्तिका ॥ १६ ॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् ॥ कल्पं मन्व न्तरैशाश्च मनवश्च चतुर्दश ॥ १७ ॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा ॥ संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ १७॥ मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः ॥ शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥१८॥ कारणानां वधः प्रोक्तो गुरुर्हन्तां तथाऽसिमर्जित् ॥ पातालानां सुतलञ्च समुद्राणां पयोदधिः ॥ १९ ॥ जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते ॥ मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ २० ॥ हिमालयः स्थावराणां जाह्नवी सरितां तथा ॥ पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ २१ ॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः॥ ऋषीणाञ्च भृगुर्देवो देवर्षीणां च नारदः ॥ २२॥ तथा ब्रह्मर्षीणाञ्च अंगिराः परिकीर्तितः ॥ विद्याधराणां सर्व्वेषो देवोऽह्वोगन्दस्तथा ॥२३॥ कुंबरः किन्नराणां च सर्पाणामथ वासुकिः ॥ प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ २४ ॥ उच्चैःश्रवमश्वानां धेनूनां चैव कामधुक् ॥ ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ २५ ॥ आयुधानां तथा वज्रो नराणाञ्च नराधिपः ॥ क्षमा क्षमावतां द्वेवो ह्यद्भुईन्दिनतमपि ॥ २६ ॥ धर्मो विरुद्धः कामश्च तथा धर्मभृतां नृणाम् ॥ धर्म्मो धर्म्मभृतां दैवस्तपस्विनामास् ॥२७॥ यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा ॥ वेदानां साम वेदश्च अंशुनां ज्योतिषां पतिः ॥ २८॥ गायत्री सर्व्वमंत्राणां वाचः प्रवदतां तथा ॥ अक्षराणामकारश्च वृन्त्राणाञ्च तथा धनुः॥२९॥ अध्यात्मविद्या विद्यानां कवीनामुशना कविः ॥ चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ ३० ॥ ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा ॥ कीर्त्तिः श्रीर्वा क् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ ३१ ॥ आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा ॥ स्कन्दः सेनाप्रणेतृणां सङ्घश्च द्या वताम ॥ ३२ ॥ जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः ॥ अश्वत्थः सर्ववृक्षाणामपिर्षीनां तथा यवः ॥ ३३ ॥ मृत्युः स एव प्रिपतामुद्भवश्च भविष्यताम् ॥ झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ ३४ ॥ मानश्च सर्वगुह्यानां रत्नानां कनकं तथा ॥ धृतिर्भूमी रसस्तेजस्तेजश्चैव हुताशने ॥ ३५ ॥ वायुः स्पृशिणूनां च खञ्च शब्दगुणस्तथा ॥ एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ ३६ ॥ एकांशेन भृगुश्रेष्ठ तस्यांशतितयं दिवि ॥ देवांश्च ऋषयश्चैव ब्रह्मा चाऽहं च भार्गव ॥ ३७॥ चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज ॥ ज्ञाता ज्ञेयतया ध्याता ध्येयश्चासो जनार्दनः ॥ ३८ ॥ यत्नो यथा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च ॥ अन्नमन्नाद एवोक्तः


१ 'पयोनिधिः' इति ख० । २ 'स्रोतसाम्' इति ख० । ३ 'धर्म्मोविरुद्धकामश्च तथा काम्यमनां नृणाम्' इति ख० । ४ 'पश्यामि' इति ख० । ५ 'ज्ञाता ज्ञेयं तथा ज्ञानं त्रयं चोक्तो जनार्दनः' इति ख० ।

स एव च गुणत्रयम् ॥ ३९ ॥ गामाविश्य च भूतानि धारयत्योजसा विभुः ॥ पुष्णामि चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ ४० ॥ प्राणिनां जठरस्थोऽग्निसूर्यरूपाच्चौ स भार्गव ॥ चेष्टाकृत्प्राणिनां ब्रह्मन्त्स च बाह्यः शरीरगः ॥ ४१ ॥ यथादित्यगते तेजो जगद्भासयतेऽखिलम् ॥ यच्च न्दुर्मास यच्चाग्नौ तत्तेजस्त्वं कीर्तितम् ॥ ४२ ॥ सर्वस्य चाऽसौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनञ्च ॥ सर्वैश्च वेदैश्च स एव वन्द्यो वेदा न्तकृद्वेदकृदेव चाऽसौ ॥ ४३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु १विष्णोर्वर्त्तनं नाम षट्पञ्चाशत्तमो ऽध्यायः ॥ ५६ ॥ ॥ छ ॥ ॥ राम उवाच ॥ आगच्छते स भगवाञ्कर्मणा येन शङ्कर ॥ तन्ममाचक्ष्व भगवन्सर्वसत्त्वसुखप्रदम् ॥ १ ॥ ॥ शङ्कर उवाच ॥ साधु राम महाभाग साधु दानवनाशन ॥ यन्मां पृच्छसि धर्मज्ञ केशवागमनं प्रति ॥ २ ॥ दिवसं दिवसाधं वा मुहूर्त्तमेक मेव वा ॥ नाशाशाऽशेषपापस्य भक्तिर्भवति केशवे ॥ ३ ॥ अनेकजन्मसाहस्रैर्नानायोनिचरैर्नृपु च ॥ जन्तोः कल्पमहीतस्य भक्तिर्भवति केशवे ॥ ॥ ४ ॥ नाऽधन्यः केशवं स्तौति नाऽधन्योऽर्चयति प्रभुम् ॥ नमत्यधन्यश्च हरिं नाऽधन्यो वेत्ति माधवम् ॥ ५ ॥ मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्त्तते ॥ सा बुद्धिरुद्गतायैव सततं प्रतितिष्ठति ॥ ६ ॥ सा वाणी केशवं देवं या स्तौति भृगुनन्दन ॥ श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ ७ ॥ अवहि धर्मज्ञ तया तत्पूजकगुणात्मकौ ॥ तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ ८ ॥ गतो मुख्यफला वातो करणं सम्प्रयोजनम् ॥ मनसा तेन किं कार्यं यत्र तिष्ठति केशवः ॥ ९ ॥ बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् ॥ गगः सा र सना वाऽपि यथा न स्तूयते हरिः ॥ १० ॥ गतौ गतवतो कणौ याभ्यां तत्कर्म न श्रुतम् ॥ भार्गवेन्द्रः कैः कार्य कि तस्य नृपशोऽञ्ज ॥ ११ ॥ येन संपूजितो देवः शङ्खचक्रगदाधरः ॥ पादौ तौ सफलौ गम केशवालयागामिनौ ॥ १२ ॥ ते न नृत्र महाभाग याभ्यां संदृश्यते हरिः ॥ किं तस्य चरणैः कार्यं कृतस्य निपुणोऽद्य ॥ १३ ॥ याभ्यां न व्रजते जन्तुः केशवालयदर्शने ॥ जान्त्वन्यतुल्यौ ते मन्ये पुरुपं पुरुषाधमम् ॥ १२ ॥ यो न पश्यति धर्मज्ञ केशवार्चा पुनःपुनः ॥ कलशमंजननं कर्म वृथा तद्मृगुनन्दन ॥ १५ ॥ केशवं प्रति बद्ध्वाम क्रियतेऽद्यति मवेद्वा ॥ पूज्य केशवशमारातथ मोदमानं शचीपतिम् ॥ १६ ॥ यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् ॥ देवेन्द्रत्वनिमित्तेति नृपत्वनिमित्तं पदम् ॥ १७ ॥ हरिर्भक्तिमुतान्पुष्यं गज्जसात्मार्विकं फलम् ॥ अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ १८ ॥ ईशित्वञ्च वशित्वञ्च यत्र कामावसा


१ 'वर्त्तीरणं' इति ख० । २ 'तस्य' इति घ० । ३ 'तत्कथाऽम्वृक्षं' इति ख० । ४ 'कर्म दुर्दर्शन्मनं वदत' इति ख० ।

... यिता ॥ आराध्य केशवं देवं प्राप्यन्ते नाऽत्र संशयः ॥ १९ ॥ हतप्रत्यर्थिमातङ्गो रुधिराप्लुतभूतले ॥ संग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ ॥ २० ॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः ॥ अकलङ्कशशाङ्काभा वदना नीलमूर्धजाः ॥ २१ ॥ गम्यन्ति नरं स्वर्गे देवरामा मनोहराः ॥ सकृदर्चितो देवो हेलया वा नमस्कृतः ॥ २२ ॥ वेदवेदाङ्गविदुषां मुनीनां भावितात्मनाम् ॥ कुपितमपि धर्मेण विज्ञेयं तत्प्रसादजम् ॥ २३ ॥ रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् ॥ अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ २४ ॥ रत्नपर्यङ्कशायिनो महाभोगाश्च भोगिनः ॥ वीज्यन्ते सह रामाभिः केशवस्मरणदपि ॥ २५ ॥ सौगान्धिके वने रम्ये कैलासपर्वते द्विज ॥ यदृच्छा विहरन्तिस्म तत्याहुः कुसुमं नराः ॥ २६ ॥ रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु ॥ क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ २७ ॥ चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् ॥ धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ २८ ॥ तस्मात्तवाऽहं वक्ष्यामि यद्यदा चरतः सदा ॥ पुरुषस्येह भगवान्सुतोषस्तुष्यते हरिः ॥ २९ ॥ पूज्यः स नित्यं वरदो महात्मा स्तव्यः स नित्यं जगदेकवन्द्यः ॥ ध्येयः स नित्यं सकलापहर्ता चैवानुकम्प्यं तव राम गुह्यम् ॥ ३० ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्कर गीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ ५७ ॥ ॥ शङ्कर उवाच ॥ अहिंसा सत्यवचनं दया भूतेष्वनुग्रहम् ॥ इत्येतानि सदा राम तस्य तुष्यन्ति केशवः ॥ १ ॥ मातापितृगुरूणाञ्च यः सम्यगिह वर्त्तते ॥ वर्जको मधुमांसस्य तस्य तुष्यति केशवः ॥ २ ॥ वराहमत्स्यमांसानि यो नात्ति भृगुनन्दन ॥ विरतो मद्यपानाच्च तस्य तुष्यति केशवः ॥ ३ ॥ न धारयति निर्माल्यमन्यदेवोद्भूतं तु यः ॥ भुंक्ते न चान्यनैवेद्यं तस्य तुष्यति केशवः ॥ ४ ॥ अवैष्णवे देवभृतं निर्माल्यं यः प्रयच्छति ॥ नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥ ५ ॥ विभर्ति मूर्ध्नि निर्माल्यं केशवार्चोद्भूतं तु यः॥ अनिन्द्य न चाश्नाति तस्य तुष्यति केशवः ॥ ६॥ परपीड़ाकरं कर्म यस्य नास्ति महात्मनः॥ संविभागी च भूतानां तस्य तुष्यति केशवः ॥ ७ ॥ शृणुते सर्वधर्मांश्च सर्वान्देवान्नमस्यति ॥ अनसूयुर्जितक्रोधस्तस्य तुष्यति केशवः ॥ ८ ॥ तीर्थोपवाससेवी च द्विजातिगणसेवकः ॥ पूजको विष्णुभक्तानां तस्य तुष्यति केशवः ॥ ९ ॥ पञ्चरात्रविदो मुख्यांस्तु संपूजयेत्सदा ॥ देववद्ब्राह्मणशार्दूल तस्य तुष्यति केशवः ॥ १० ॥ पितृदेवार्चनरतः स्वदारनिरतः सदा ॥ ऋतुकालाभिगामी च तस्य तुष्यति केशवः ॥ ११॥ नाम्नां सहस्रेण तथा यश्च


१ 'कैलासविखरे द्विज' इति ख० । २ 'क्रीडन्ति च सहस्राणि गन्धर्व्वैःसत्कथाश्रुतेः' इति ख० । ३ 'भक्तानाम्' इति ख० । ४ 'पञ्चरात्रविधानेन यो विष्णुं पूजयेत्सदा' इति ख० ।

गायति तन्मनाः ॥ सततं कल्यमुत्थाय तस्य तुष्यति केशवः ॥ १२॥ पौरुषेण च सूक्तेन जपहोमादिकं सदा॥ यः करोत्यमितप्रज्ञस्तस्य तुष्यति केशवः ॥ १३ ॥ मित्रस्वामिगुरुद्रोहो यस्य नाऽस्ति महात्मनः ॥ परदाररतेच्छा न तस्य तुष्यति केशवः ॥ १४ ॥ गजा शाखोपदेशेन राज्यं यश्च प्रशास्ति ॥ राजधर्मरतिर्नित्यं तस्य तुष्यति केशवः॥ १५॥ या तु नारी पतिप्राणा पतिभक्ता पतिव्रता ॥ तस्याः सुतोषो भगवांस्तोपयामायाति केशवः॥ १६॥ अग्निहोत्रपरो विद्वान्यज्ञैर्नित्यमतन्द्रितः ॥ यस्तु तर्पयते देवांस्तस्य तुष्यति केशवः॥ १७॥ स्ववर्णधर्मस्थः पूजयन्मधुसूदनम् ॥ कालं नयति यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ १८॥ सोपवासस्तु पक्षान्ते द्वादश्यां वा भुङ्क्तम् ॥ वोधयति श्रवणैर्वा वा ततोयायान्तु वा पुनः ॥ सोपवासोऽर्चयति यस्तस्य तुष्यति केशवः ॥ १९ ॥ पुष्पं विना हरिं प्राप्य फलं रत्नं क्षुमां पि वा ॥ निवेदयति यः कृष्णे तस्य तुष्यति केशवः॥२०॥ कृष्णे पश्यति यत्सर्वं कृष्णं सर्वत्र पश्यति ॥ महात्मा बुद्धिसम्पन्नस्तस्य तुष्यति केशवः ॥ २१ ॥ तत्कथायाञ्च रमते तत्कथां यः करोति च ॥ तन्मनास्तद्गतप्राणस्तस्य तुष्यति केशवः ॥२२॥ सर्वभूतहिते युक्तः सर्वभूतहिते रतः ॥ सर्वभूतानुकम्पी च तस्य तुष्यति केशवः ॥ २३ ॥ अप्रणम्य क्रियां काञ्चित्तु नाऽऽरभते हरिम् ॥ असन्निधायशार्ङ्गस्य तुष्यति केशवः ॥ २४ ॥ नामसंकीर्तनं नित्यं श्रुत पुस्तकलनादिषु ॥ यः करोति महाभागस्तस्य तुष्यति केशवः ॥ २५ ॥ नैवं पत्रं फलं पुष्पं निवेद्य मधुसूदने ॥ पश्चाद्भुङ्क्ते स्वयं यश्च तस्य तुष्यति केशवः ॥ २६ आद्यपि च कपट्यां देवशपार्थं नरः ॥ न करोति हि यो ब्रह्मंस्तस्य तुष्यति केशवः ॥ २७॥ द्वादश्यामुद्धृत्य निर्माल्यं छायां नाक्रामते च यः ॥ धूपानग्निभस्म च तथा तस्य तुष्यति केशवः ॥२८॥ दृष्ट्वा सम्पूजितामर्चां यश्च भक्त्याभिनन्दति ॥ मर्च्यं मंजर्जयेद्यन्तु तस्य तुष्यति केशवः ॥ २९ ॥ नित्यं संपूजयेद्यस्तु देवदेवञ्च भक्तितः ॥ यथाशक्त्या महाभाग तस्य तुष्यति केशवः ॥ ३० ॥ न गम विवि धैर्दानैर्न रत्नधनसञ्चयैः ॥ तोषमायाति देवेशो भक्त्या तुष्यति केशवः ॥ ३१ ॥ दानेसुयैश्च बहुप्रकारैर्गोभिर्वाप्यवामव्रतदर्शनैश्च ॥ तथा न तोपं भगवान्ययाति भक्त्या यथा तद्गतमानसानाम् ॥ ३२ ॥ एतावदुक्तं तव गूढं न देयमेतद्भुवि मत्स्यगाणाम् ॥ न तर्कशास्त्रानुकुलमानसानां नाऽवैष्णवानां न च नास्तिकानाम् ॥ ३३ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे भक्तिलक्षणो नामाष्टपञ्चाशत्त मोऽध्यायः ॥ ५८ ॥ श्रीराम उवाच ॥ उपांगिनेत् यंनेद्यं यंयं कोयं प्रयच्छति ॥ तदहं श्रोतुमिच्छामि गदन्तम् वृषभध्वज ॥ १ ॥ शंकर उवाच॥


१ 'पठताञ्चवेच्छा च' इति ख० । २ 'देव्यं' इति ख० । ३ 'नाम मन्त्रम् ' इति क० । ४ 'मेधयति' वा 'इति ग० ।

पूजितः प्रयतः स्वान्तैः सोपवासैर्दिने रवेः॥ संवत्सरं महाभाग दीर्घमायुः प्रयच्छति ॥ २ ॥ सोमवारे महाभाग चारोग्यं संप्रयच्छति ॥ तथा भौमदिने राम वैश्वर्यं संप्रयच्छति ॥ ३ ॥ वासरे सोमपुत्रस्य सर्वान्कामान्प्रयच्छति ॥ अभीष्टांश्च तथा विद्यामाखण्डलगुरोर्दिने ॥ ४ ॥ सौभाग्यमतुलं लोके भार्गवार्हि प्रयच्छति ॥ तथा शनैश्चरस्याहि रिपून्र्सवान्व्यपोहति ॥ ५ ॥ कृत्तिकासु तथाऽभ्यर्च्य यज्ञानाप्नोत्यनुत्तमान् ॥ प्राजापत्ये तथाऽभ्यर्च्य प्रजां प्राप्नोति शोभनाम् ॥ ६ ॥ विन्दते ब्रह्मवर्चस्यं मृगशीर्षेऽर्चयन्हरिम् ॥ रौद्रकर्म त्वमाप्नोति सिद्धिं रौद्रे समर्चयन् ॥ ७ ॥ च्युतः स्थानमवाप्नोति पूजयानः पुनर्वसौ ॥ पुष्ये संपूजितो देवः पुष्टिंमग्र्यां प्रयच्छति ॥८॥ आश्लेषा यां तथोऽभ्यर्च्य श्रियं विन्दति मानवः ॥ पितृप्रसादमाप्नोति पित्र्ये संपूजयन्हरिम् ॥ ९ ॥ सौभाग्यं महदाप्नोति फाल्गुनीष्वर्चयंस्तथा ॥ तथैव चोत्तरायोगे गतिं विन्दति शोभनाम् ॥ १० ॥ १ हस्ते संपूजयन्देवं गजान्प्राप्नोत्यनुत्तमान् ॥ चित्रासु च तथाऽभ्यर्च्य वस्त्राण्याप्नोति मानवः ॥ ११ ॥ आध्ये समर्चयन्देवं रत्नभागी भवेन्नरः ॥ तथोत्तरास्वाषाढासु कीर्तिं प्राप्नोति शाश्वतीम् ॥ १२ ॥ सर्वान्कामानवाप्नोति श्रवणेऽभ्यर्चयन्हरिम् ॥ धनिष्ठासु तथा वित्तमारोग्यं वारुणे तथा ॥ १३ ॥ आजे पशूनवाप्नोति गावश्च तदनन्तरम् ॥ पौष्णे शीलमवाप्नोति चाश्वन्याम्रोति चाऽश्विनौ ॥ १४ ॥ दीर्घं जीवितमाप्नोति भरणीषु महाभुज ॥ प्रतिपद्यर्चयन्प्राप्नोति रूपं प्राप्नोत्यनुत्तमम् ॥ १५ ॥ सर्वान्कामान् वाप्नोति तृतीयायां समर्चयन् ॥ पञ्चैश्चतुर्थ्यामाप्नोति पञ्चम्यां श्रियमुत्तमाम् ॥ १६ ॥ षष्ठ्यां प्राप्नोत्यथाऽऽरोग्यं सप्तम्यां सुहृदस्तथा ॥ अष्टम्यां च तथा भृत्यान्नवम्यां च तथा यशः ॥ १७ ॥ कर्मसिद्धिमवाप्नोति दशम्यां पूजयन्हरिम् ॥ एकादश्यां प्रजायन्तः श्रीमान्ही स सदा भवेत् ॥ १८ ॥ अभीष्टां गतिमाप्नोति द्वादश्यां पूजयन्हरिम् ॥ त्रयोदश्यां पूजयानो रूपं प्राप्नोत्यनुत्तमम् ॥ १९ ॥ न दुर्गतिमवाप्नोति पूजयानश्चतुर्दशीम् ॥ सर्वान्कामानवाप्नोति पञ्चदश्यां महामुने ॥ २० ॥ इत्येतदुक्तं तव मानवानां काम्यं फलं सम्पुषुपोषितानाम् ॥ देवेश्वरं पूजयतां यथावत्परं पुराणं पुरुषं वरेण्यम् ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीशंकरगीतार्तूपवासफलो नामकोनषष्टितमोऽध्यायः ॥ ५९ ॥ राम उवाच ॥ उपवासाससमर्थानां किं स्यादेकसुपोषितम् ॥ महाफलं महादेवं तत्समाचक्ष्व पृच्छतः ॥ १ ॥


१ 'समभ्यर्च्य' इति ख० । २ 'हस्त्य्' इति ख० । ३ 'हस्ते संपूजयन्देवं राज्यं प्राप्नोत्यनुत्तमम्' इति ख० । ४ 'महानयन्' इति ख० । ५ 'प्राप्नोत्यनन्तरम्' इति ख० । ६ 'तथा मुने' इति ख० ।