विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 79, कुल 1001 में से
संदर्भ में पढ़ेंजगद्वृत्तं यथापूर्वं जगत्पते ॥ ११ ॥ यजत्सु विप्रमुख्येषु तपस्याभिरतेषु च ॥ वार्तासक्तैषु वैश्येषु शुश्रू- षून्वन्त्यजेषु च ॥ १२ ॥ मुदितेषु च लोकेषु त्रैलोक्ये देवसादृते ॥ विष्णोर्भागे क्षितिर्गते कार्त्तवीर्यार्जुनस्तदा ॥ १३ ॥ दशवर्षसहस्राणि कृत- वान्दुश्चरं तपः ॥ प्रयागवनमासाद्य दत्तात्रेयाश्रमं प्रति ॥ १४॥ आराधयामास तदा दत्तं शुश्रूषया नृप ॥ तेन दत्तवरश्चक्रे स राज्यं हतकण्टकम् ॥ १५॥ आर्यावर्तंषु निर्मलेंच्छा कृता तेन वसुन्धरा ॥ तस्मिन्त्राजनि धर्मज्ञे दैत्यैर्देवनिपातितैः ॥ १६ ॥ संप्रानैर्भृमिपालत्वं वसुधा भारपीडिता ॥ नाकपृष्ठं ययौ शीघ्रं शक्रदर्शनलालसा ॥ १७॥ वत्र उवाच ॥ आसाद्य लोकं त्रिदिवेश्वरस्य भारेण खिन्ना वसुधा नरेन्द्रः ॥ किं तत्र चक्रे वद तन्ममाद्य दृष्ट्वा क्षितिं यच्च चकार शक्रः ॥ १८॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे दत्तात्रेयोपाख्यानं नाम पञ्चविंशतितमोऽध्यायः ॥२५॥ मार्कण्डेय उवाच ॥ नाकपृष्ठगता भूर्मिददर्श मधुसूदनम् ॥ रत्नहासनगतं वीरं श्रिया परमया युतम् ॥ १ ॥ उपास्यमानं त्रिदशैर्भासयन्तं सभां शुभाम् ॥ आदित्यैर्वसुभिः साध्यैर्विश्वेदेवैर्मरुद्गणैः ॥ २ ॥ रुद्रैर्गन्धर्व्वरक्षोभिश्च नासत्यैश्च महात्मभिः ॥ ऋषिभिः सूर्य्यसंकाशैस्तपसा द्योतितप्रभैः ॥ ३ ॥ गन्धर्व्वैरप्सरोभिश्च स्तूयमानं सहस्रशः ॥ किरीटिनमतंसंञ्च्छन्नं हारकेयूरभूषितम् ॥ ४ ॥ रत्नाङ्गदकृतोद्द्योत रत्तगर्भासमप्रभम् ॥ हारिचन्दन- दिग्धंगं नीलाम्बरधरं हरिम् ॥ ५ ॥ तिर्यग्गलत्तकटाक्षाद्द्ण्या तृतीयिन विराजितम् ॥ पश्यन्तं सर्वलोकस्य सततं धर्म्मकर्म्मणी ॥ ६ ॥ विष्णोर- चिन्तयम्मङ्गं तत्रैलोक्यस्यैव कारणम् ॥ गोब्राह्मणहितासक्तं ददृर्श वसुधा तदा ॥ ७ ॥ सन्ध्यासह समासोनं श्रिया चैव जनार्द्दनम् ॥ तं ववन्दे वसुमती दैत्यभारप्रपीडिता ॥ ८ ॥ पाद्यार्थ्याचमनीयैार्थैः शक्रोऽपि वसुधां तदा ॥ पूजयित्वाँ सुखासीनां पप्रच्छागमनक्रियाम् ॥ ९ ॥ पृष्टा शके्रण सा देवी वक्तुं समुपचक्रमे ॥ १० ॥ पृथिव्युवाच ॥ अन्तरिक्षं दिवं यच्च तथैवाऽहं जगत्पते ॥ तवायत्ता महाभाग त्वं हि देवेश्वरो विभुः ॥ ११ ॥ त्वयि भारं समासज्य वेदाभ्यासनतत्परः ॥ सुखमास्ते प्रशान्तात्मा ब्रह्मा शुभचतुर्मुखः ॥ १२ ॥ त्वयि भारं समासज्य देवदेवोऽपि शङ्करः ॥ आस्ते तपस्याभिरतः कैलासे पर्वतोत्तमे ॥ १३ ॥ त्वयि भारं समासज्य सुखं स्वपिति केशवः ॥ क्षीरोदाशयने नित्यं शेषपर्य्यङ्कऽमा स्थितः ॥ १४ ॥ पितामहस्य यत्तेजः केशवस्य शिवस्य च ॥ स्थितं तत्सकलं तुम्यं त्वं हि सर्वमयोऽरिहा ॥ १५ ॥ त्वया विनिहतो वृत्रो बल- श्चापि निषूदितः ॥ त्वया च नाशितः पाकस्त्वया दैत्या निषूदिताः ॥ १६ ॥ ब्रह्मण्यस्त्वं शरण्यस्त्वं प्रणतार्त्तिविनाशनः ॥ सहस्रनयनः
१ ‘जपत्सु’ इति ख० । २ ‘स्थितिगते’ इति क० । ३ ‘पूरयित्वा’ इति ख० । ४ ‘वक्षश्च त्रित्यूद्धितः’ इति क० । ५ ‘निपातिताः’ इति क० ।