विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 78, कुल 1001 में से
संदर्भ में पढ़ेंदुर्लभां निरानन्दं स्कन्धांसकटिकुब्जकैः ॥ इतश्चेतश्च यास्यन्ति दानवेन्द्रैर्विसंकुलम् ॥ १७ ॥ शुष्कतायाशयं भीमं नामशेषमहापगम् ॥ तस्मिन्काले महारोरे चोत्सृष्टनियमा द्विजाः ॥ १८ ॥ आर्य्यावर्त्तं परित्यज्य म्लेच्छदेशमुपाश्रिताः ॥ मध्यमदेशं परित्यज्य कुर्वाणाः प्राणधारणम् ॥ १९ ॥ प्राणधारणसक्तानां क्षुधाव्याकुलचेतसाम् ॥ तेषां ब्रह्म तदा नष्टं धावतां च इतस्ततः ॥ २० ॥ तदा नष्टेषु देवेषु म्लेच्छी- भूतमभूदिदं जगत् ॥ म्लेच्छीभूते जगत्त्यस्मिन्स्वाहास्वाधाविवर्जिताः ॥ २१ ॥ यथा मत्स्यांस्तथा जाताः सर्वे ते देवतागणाः ॥ क्षुत्क्षामकण्ठैस्त्रिदशैः प्रार्थितश्च जनार्दनः ॥ २२ ॥ शक्रार्थं त्रिदशा गत्वा त्रैलोक्यहितकाम्यया ॥ २३ ॥ तानुवाच हरिर्देवः सर्वे गच्छन्तु मानसम् ॥ विस्रंततुगतं शक्रं तस्माल्लप्स्यथ मा चिरम् ॥ २४ ॥ यजतां सोऽश्वमेधेन मामेव सुसमाहितः ॥ अहमेव करिष्यामि विपाप्मानं विडौजसम् ॥ २५ ॥ तत्कृता ब्रह्महत्यां तु चतुर्धा स करिष्यति ॥ २६ ॥ अमेध्यप्रक्षेपके वह्नौ पादेनैकेन यास्यति ॥ तथा चैकेन पादेन ह्यशुचिक्षेपके जले ॥ २७ ॥ पादेनैकेन च तथा सर्वकाले द्रुमोच्छिदम् ॥ रजस्वलासु पादेन तथा चैकेन यास्यति ॥ २८ ॥ अहमेतेन यास्यामि भूतलं सुरकारणात् ॥ नष्टे च भूतले धर्मं स्थाप- यिष्याम्यहं पुनः ॥ २९ ॥ एतत्सर्वं यथोद्दिष्टं देवदेवेन शार्ङ्गिणा ॥ चक्रे सुरगणैः सर्वं राज्यं चावाप वृत्रहा ॥ ३० ॥ शक्रेण नित्यं विसतन्तु- गेन ध्यातो महात्मा हरिरप्रमेयः ॥ हत्यापि कामेन स विप्रमुख्यं लेभे त्रिलोकीं पुनरेव तस्मात् ॥ ३१ ॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्क- ण्डेयवज्रसंवादे वृत्रवधोपाख्यानं नाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥ मार्कण्डेय उवाच ॥ ब्रह्मणोऽङ्गिराः सुतः श्रीमान्प्रभावाद्ब्रह्मणा समः ॥ प्रभाकरस्तस्य सुतः पितामहसमो गुणैः ॥ १ ॥ स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ तमोभिभूते तपसा प्रभा येन विवर्धिता ॥ २ ॥ स्वस्त्य- स्त्विति स होवाच पतमानं दिवाकरम् ॥ वचनात्तस्य ब्रह्मर्षेर्न पपात दिवो महीम् ॥ ३ ॥ आत्रेयाणि गोत्राणि यश्चकार महायशाः ॥ यज्ञोपवित्रवनं वाप्यनुसृष्टवान् ॥ वेदानध्यापयामास ब्राह्मणांश्च श्रुतान्वितान् ॥ ४ ॥ दत्तात्रेयोऽथ दुर्वासा लोके ख्यातिमुपागतौ ॥ ५ ॥ दत्तोऽत्रेयत्वमगमत्तन्मयोऽभवत् ॥ ६ ॥ अभिवर्द्धति चाधर्मे सत्ये नष्टे द्रुते¹ स्थिते ॥ प्रजासु शीर्यमाणासु धर्मे चाकुलतां गते ॥ ७ ॥ हयास्याः शक्तया वेदाः प्रत्यानीता हि तेन वै ॥ चातुर्वर्ण्यमसंकीर्णं कृते तेन महात्मना ॥ ९ ॥ दुर्भिक्षमङ्गे नष्टे तस्मिन्त्राते महीतले ॥ प्रववर्ष च देवेन्द्रः सहस्रनयनः क्षितौ ॥ १० ॥ भूय एव
¹ 'विद्रुते' इति ख० ।
² 'प्रवर्त्तितम्' इति क० ।