विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 718, कुल 1001 में से
संदर्भ में पढ़ेंश्वेताख्या भद्रसंयुक्ताः ॥ ४८ ॥ क्रतुस्तु द्वापशालस्यात्संस्म्यः स्याद्वन्द्यमादनः ॥ ४९ ॥ सौम्यः सुभद्रश्च तथा सर्वेषामेव शस्यते ॥ १अर्थाधिकूटं निष्कूटं शुभाश्चामलकांशकम् ॥ ५० ॥ अथांशगगनात्तन्वं तथा चेष्टकमण्डलम् ॥ अष्टाशीतिद्र्वारं कमलं परिकीर्तितम् ॥ ५१ ॥ अष्टौ तत्र तु कर्तव्या ग्रहाः क्रतुविवर्जिताः ॥ सूर्यः शुक्रः कुजो राहुः सौरिश्चन्द्रो बुधो गुरुः ॥ ५२ ॥ क्रमेणैतेन कर्तव्यं तत्र राजन्यथाट्टकम् ॥ भुजलोकाश्रवेनन्दिद्वौ दिनाकर्कमरुत्तनुः ॥ ५३ ॥ महादेवोऽथ वा कार्यस्तत्र देवो जगद्गुरुः ॥ अथात्मा वासुदेवो वा प्रमवे वामनेन च ॥ ५४ ॥ प्रासादाग्रिमस्तु कर्तव्यो विधिशानेन वा हरिः ॥ चतुरस्रा तु कर्तव्या दिग्वारेश्यश्च केशवः ॥ ५५ ॥ अश्वशीर्षं वराहे च नरसिंहं त्रिविक्रमम् ॥ ईशानादिषु कोणेषु कार्या देवा नरोत्तम ॥ ५६ ॥ उच्छ्रिता जगती कार्या भद्रपीठांकृति विना ॥ प्राग्भागवलभीहीनं तुरगं तत्र कारयेत् ॥ ५७ ॥ प्रशस्तः सर्वदेवानां प्रासादस्त्वरुणोदयः ॥ पूर्वापराशितिसुखः कार्याय नान्यदिङ्मुखः ॥ ५८ ॥ अयमेवातिदीर्घेस्तु प्रासादो गृहसंज्ञितः ॥ प्रासादे तरुणे लग्ना वलभ्यासादकाङ्क्षिभौ ॥ ५९ ॥ गाम्येतोराशिसुमुखौ तद्वन्नामनि वन्धनौ ॥ सम्मुखौ तौ तु जगति वलभीच्छन्दकौ मवेताम् ॥ शुभा जात्यमतिच्छुश्रा सोमेश्वरमुखा तथा ॥ तत्र स्याद्रुद्रो नाम प्रासादः मनोहरः ॥ ६१ ॥ आदित्यस्य प्रतिष्ठानं प्रासादे तत्र शस्यते ॥ दण्डपिङ्गलकौ कार्यौ तत्र प्रासादयोग्रकेतोः ॥ ६२ ॥ तयोश्च नृप कर्तव्यौ गतो मन्द्वमथाशुभौ ॥ कर्तव्यो वा महाराज तथा केशवशङ्करौ ॥ ६३ ॥ प्रासादे गरुडो वापि कर्तव्यश्चन्द्रमा बुधैः ॥ पार्श्वप्रासादयोस्तस्य कर्तव्यौ गिरिराण्वृषौ ॥ ६४ ॥ प्रासादे गारुडे वापि कामदेवं तु कारयेत् ॥ पार्श्वप्रासादयोस्तस्य कर्तव्या वनमालिनी ॥ ६५ ॥ प्रासादे गारुडे वापि कर्तव्यो देवराट् बुधैः ॥ पार्श्वप्रासादयोस्तस्य कर्तव्या वनमालिनी ॥ ६६ ॥ प्रासादे गारुडे वापि कर्तव्यश्च तथा यमः ॥ पार्श्वप्रासादयोस्तस्य सुत्युकालौ निवेशयेत् ॥ ६७ ॥ प्रासादे गारुडे वापि वरुणो भवेत् ॥ पार्श्वप्रासादयोः कार्या गङ्गा कालिन्दिरेव च ॥ ६८ ॥ प्रासादे गारुडे वापि धनाध्यक्षं तु कारयेत् ॥ पार्श्वप्रासादयोस्तस्य गुह्यकौ निवेशयेत् ॥ ६९ ॥ प्रासादे गारुडे वापि ब्रह्माणं विनिवेशयेत् ॥ पार्श्वप्रासादयोस्तस्य कर्तव्यौ केशवेश्वरौ ॥ ७० ॥ प्रासादे गारुडे वापि महादेवं निवेशयेत् ॥ पार्श्वप्रासादयोस्तस्य कार्यों २विष्णुपितामहौ ॥ ७१ ॥ विनायकः कुमारो वा कर्तव्यो यदुनन्दन ॥ वीरभद्रश्च नन्दी च कर्तव्यौ वा मनोहरी ॥ ७२ ॥ प्रासादे गारुडे वापि गरुडं विनिवेशयेत् ॥
१ 'अग्रतः कूटं' इति पा० ।
२ 'विपुलितामहौ' इति क० ।