विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 721, कुल 1001 में से
संदर्भ में पढ़ेंवि० सं० ॥ ३४३ ॥
तृ० सं० अ० ८९
रूपं कथितं वाराहं कापिले तथा ॥ लिङ्गस्थं हयग्रीवं पद्मनाभं तथैव च ॥ ६२ ॥ बाह्ये रौद्रे च गम्येषु पुस्तकेण महात्मना ॥ कर्त्तव्यो वामनो देवः सङ्गोत्रैर्गणपैस्तथा ॥ ६३ ॥ पीनगात्रश्च कर्त्तव्यो दण्डी चाध्ययनोद्यतः ॥ दूर्वाश्यामश्च कर्त्तव्यः कृष्णार्जुननरस्तथा ॥ ६४ ॥ सजलाम्बुदसङ्काशस्तथा कार्यस्त्रिविक्रमः ॥ दण्डपाशधरः कार्यः शङ्खचक्रगदाधरः ॥ ६५ ॥ शङ्खचक्रगदापद्माः कार्यास्तस्य स्वरूपिणः ॥ सूद्देहास्ते न कर्तव्या रूपं कार्यं तु पूर्ववत् ॥ ६६ ॥ एकोर्ध्ववदनः कार्यो देवो विस्फारितेक्षणः ॥ रूपं नरस्य कथितं तथा नारायणस्य ते ॥ ६७ ॥ कृष्णस्य हरिणा साद्धं वृत्तं वक्तुमसूजुना ॥ हंसो मत्स्यस्तथा कूर्मः कार्यास्तद्रूपधारिणः ॥ ६८ ॥ भृगुमत्स्यस्तु कर्त्तव्यो देवदेवो जनार्द्दनः ॥ श्रीरूपश्च तथा कार्यः सर्वाभरणभूषितः ॥ ६९ ॥ करोऽस्यतद्दथस्यास्य कर्त्तव्यो भूरिदक्षिणः ॥ पृथुः कार्यस्तथा राजा चक्रवर्त्यन्त लक्षणः ॥ ६० ॥ कार्यस्तु भार्गवो रामो जटामण्डलदुर्द्दशः ॥ हस्तेऽस्य परशुः कार्यः कृष्णार्जुननरस्य तु ॥ ६१ ॥ रामो दाशरथिः कार्यो राजलक्षणलक्षितः ॥ भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महायशाः ॥ ६२ ॥ तथैव सर्वे कर्त्तव्याः किन्तु मौलिविवर्जिताः ॥ गौरस्तु कार्यो वाल्मीकिर्जटामण्डलदुर्द्धरः ॥ ६३ ॥ तपस्यभिरतः शान्तो न कृशो न च पीवरः ॥ वाल्मीकिरूपं सकलं दत्तात्रेयस्य कारयेत् ॥ ६४ ॥ कृष्णशान्ततनुर्व्यासः पिङ्गलोऽतिजटाग्रतः ॥ सुमन्तुर्जैमिनिः पैलो वैशम्पायन एव च ॥ ६५ ॥ तस्य शिष्यास्तु कर्त्तव्याश्चत्वारः परिपार्थ्वयोः ॥ युधिष्ठिरोऽथ कंसारिर्गजलक्षणलक्षितः ॥ ६६ ॥ ऽप्रद्युम्नोऽनिरुद्धापिनाङ्गः श्यामसभ्यो वृकोदरः ॥ तिर्यग्बंशी संहतभूः कर्त्तव्यश्च तथा गदी ॥ ६७ ॥ दूर्वाश्यामार्जुनः कार्यः किरीटी लोहिताङ्गदः ॥ चापबाणधरः श्रीमान्त्सर्व्वाभरणभूषितः ॥ ६८ ॥ नकुलः सहदेवश्च कार्यावश्विसमावुभौ ॥ खड्गचर्मधरौ कार्यों न त्वेवांगविपोषिणौ ॥ ६९ ॥ नीलार्चिग्गजप्रभा कृष्णा कार्यातिरूपिणी ॥ पद्मायताग्रव्यगोरा तु कर्त्तव्या देवकी तथा ॥ ७० ॥ मधुकपुष्पसव्याया मृगोदपि तथा भवेत् ॥ एकानंशापि कर्तव्या देवी पद्मवरा तथा ॥ ७१ ॥ कटिस्यवामहस्ता सा मध्यस्था गमकुब्जयोः ॥ ससिपाणिर्बलः कार्यो सुमत्तो चैत्र कुण्डली ॥ ७२ ॥ श्वेतोऽतिनीलवसनो मदाघूर्णितलोचनः ॥ कृष्णश्चकधरः कार्यो नीलोत्पलदलच्छविः ॥ ७३ ॥ इन्दीवरकरा कार्या तथा श्यामा च रुक्मिणी ॥ तार्क्ष्यस्तथा च कर्त्तव्या सत्यभामा सुस्रिपिणी ॥ ७४ ॥ अन्याश्च देव्यः कर्त्तव्याः सुरूपशः सुमनेाहराः ॥ चापबाणधरः कार्यः प्रद्युम्नश्च सुदर्शनः ॥ ॥ ७५ ॥ गजान्नुवाद्दलश्यामः श्वेतवासा मदोत्कटः ॥ कर्त्तव्यश्चानिरुद्धोऽपि खड्गचर्मधरः प्रभुः ॥ ७६ ॥ साम्बः कार्यो गदाहस्तः सुरूपश्च
॥३४९॥