विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 722, कुल 1001 में से
संदर्भ में पढ़ेंरूपेण प्रांशुः खड्गो विधीयते ॥ २६ ॥ चक्रादीनां स्वहस्तेन किञ्चिद्रूपञ्च दर्शयेत् ॥ गदाद्यायुधभूषाणि चक्रादीन्यथ यादव ॥ २७ ॥
वामपार्श्वगताः कार्या देवानां प्रवरो ध्वजाः ॥ स्वपताकाकुला राजन्व्युत्स्थितास्ते यथोरिताः ॥ २८ ॥ पीतवर्णं प्रतीहारं वासुदेवस्य कारयेत् ॥
सुभद्रं सुमहात्मानौ वीरौ प्राग्शत्रुजिद्गभौ ॥ २९ ॥ आपाढो भद्रतातश्च कामः सङ्कर्षणस्य तु ॥ नीलवर्णौ महाभागौ तथा क्षुद्ररुधारिणौ ॥ ३० ॥
प्रद्युम्नस्य प्रतीहारौ जयो विजय एव च ॥ श्वेतवर्णौ महाभाग तथा खड्गगदाधृभौ ॥ ३१ ॥ आमोदश्च प्रमोदश्च महाबलपराक्रमौ ॥ अनिरु-
द्धस्य विज्ञेयौ प्रतीहारां सुरेश्वरौ ॥ ३२ ॥ रक्तवर्णौ महाभाग तयोर्भा शक्तिधारिणौ ॥ सर्वे सुरूपाः कर्तव्याः सर्वाभरणधारिणः ॥ ३३ ॥
दिग्वाहनेस्तु कर्तव्यस्तत्तज्जन्येकलक्षणम् ॥ दृष्टिमन्तं तु कर्तव्यं द्वाःस्थस्त्व महाभुज ॥ ३४