विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 726, कुल 1001 में से
संदर्भ में पढ़ेंख० मा० सं० नृसिंहरूपनिर्माणो नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥ मार्कण्डेय उवाच ॥ ऐश्वर्यमभिरूद्धस्तु वराहो भगवान्हरिः ॥ ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुंधरः ॥ १॥ नृवराहोऽथ वा कार्यः शेषोपरिगतः प्रभुः ॥ शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ॥ २॥ आश्चर्योत्फुल्लनयनो देवीवीक्षणतत्परः ॥ कर्तव्यौ सर्पसुमलौ करयोस्तस्य यादव ॥ ३ ॥ सर्पमूर्ध्न्यथ कर्तव्यस्तथैव रचितांजलिः ॥ आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान्सभवेत् ॥ ४ ॥ सच्छेदंशनिगता तस्य गोपेंद्रा वसुंधरा ॥ नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा ॥ ५ ॥ यस्मिन्भुजे धरा देवी तत्र शंखः करे भवेत् ॥ अन्ये तस्य कराः कार्याः पद्मचक्रागदाधराः ॥ ६ ॥ हिरण्याक्षशिरच्छेदश्चक्रहस्तैकरोध वा ॥ शूलोद्यतहिरण्याक्षसमुद्ग्रो भगवान्भवेत् ॥ ७ ॥ मूर्तिमत्समनेनैव हिरण्याक्षं विदुर्बुधाः ॥ ऐश्वर्येण वराहेण स निरस्तोऽरिर्मद्दनः ॥ ८ ॥ नृवराहोऽथ वा कार्यों ध्याने कपिलवत्स्थितः ॥ द्विभुजस्त्वथ वा कार्यः पिण्डनिर्वेपणोद्यतः ॥ ९ ॥ समग्रक्रोडरुपी वा बहुदानवमध्यगः ॥ नृवराहो वराहो वा कर्तव्यः द्युसतिधाग्रणे ॥ १० ॥ ऐश्वर्ययोगोद्धृतसर्वलोकः कार्योंऽनिरुद्धो भगवान्वराहः ॥ रुद्धा न यस्य क्वचिदेव शक्तिः समस्तपापापहरस्य राजन् ॥ ११ ॥ इति श्रीवि० ध० तृ० ख० मा० व० सं० वराहरूपनिर्माणो नामैकोनाशीतितमोऽध्यायः ॥ ७९ ॥ वज्र उवाच ॥ अथाश्वशिरसो रूपं विष्णोरमिततेजसः ॥ श्रोतुमिच्छाम्यनेनैव प्रसङ्गेन महाभुज ॥ १॥ मार्कण्डेय उवाच ॥ मूर्तिमत्पृथिवीपाल हस्तपादविमत्सन्धिः ॥ नीलाम्बरधरः कार्यों देवो हयशिरेोश्वरः ॥ २ ॥ विद्धि सङ्कर्षणार्द्धं वै देवं हयशिरोधरम् ॥ कर्तव्योऽष्टभुजो देवस्तत्करे षु चतुष्र्वथ ॥ ३ ॥ शङ्खचक्रगदापद्मात्साकारांकरयेद्वुधः ॥ चत्वारश्च कराः कार्या वेदांनां देहधारिणाम् ॥ ४ ॥ देवेन मूर्ध्नि विन्यस्ता सर्वो भरणधारिणा ॥ अभ्याधीनेन देवेन पुरा वेदाः समुद्धृताः ॥ ५ ॥ वेदा हता दानवपुङ्गवाभ्यां रसातलाद्देव वरेण तेन॥ समुद्धता यादववंशमुख्य तुरङ्गसूर्यो पुरुषोत्तमेन ॥ ६ ॥ इति श्रीवि० ध० तृ० ख० मा० व० सं० हयग्रीवरूपनिर्माणो नामाशीतितमोऽध्यायः ॥ ८० ॥ वज्र उवाच ॥ पद्मनाभस्य मे रूपं ब्रूहि जगताम्पतेः ॥ १ ॥ यन्नाभ्यन्तरसम्भूतो देवदेवः पितामहः ॥१॥ मार्कण्डेय उवाच॥ जलमध्यगतः कार्यः पद्मनाभाननः प्रभुः ॥ फणपुञ्जामलच्छत्रनन्दितादित्यशिरोधरः ॥ २ ॥ देवदेवस्तु कर्तव्यस्तत्र सुप्तश्चतुर्भुजः ॥ एकः पादोऽस्य कर्तव्यो लक्ष्म्युत्सङ्गगतः प्रभो ॥ ३ ॥ तथापरश्च कर्तव्यः शेषभोगाङ्कसंस्थितः ॥ एको भुजोऽस्य कर्तव्यस्तत्र जानौ प्रसारितः ॥ ४ ॥ कर्तव्यो नाभिमध्यस्थस्तथा तस्यापरः करः ॥ तथा चान्यः करः कार्यों देवस्य तु शिरोधरे ॥ ५ ॥ सन्तानमञ्जरीधारी तथैवास्यापरो भवेत् ॥ नाभीसरसि सम्भूते कमले तस्य यादव ॥६॥