विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 728, कुल 1001 में से
संदर्भ में पढ़ेंइति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवरूपनिर्माणो नाम त्रिसप्ततितमोऽध्यायः ॥ ७३ ॥ वज्र उवाच ॥ लिङ्गस्य रूपनिर्माणं कथयस्व ममानघ ॥ १ ॥ मार्कण्डेय उवाच ॥ लिङ्गे हि पूजिते पूजा कृता तु जगतो भवेत् ॥ भोगोस्य वृत्ततः कर्तव्यो भागमष्टास्रमेव तु ॥ २ ॥ चतुरस्रं तथा भागं कर्तव्यं भूरिदक्षिणम् ॥ वृत्तं दृश्यं तु कर्तव्यं अष्टास्रं पिण्डिकागतम् ॥ ३ ॥ चतुरस्रं तु कर्तव्यं ब्रह्मपीठगतं तथा ॥ अष्टतालाङ्घ्रिपीठस्य ब्रह्मपीठे विदुर्बुधाः ॥ ४ ॥ लिङ्गोपरिष्टात् गता पुरस्ताल्लेखा सुवृत्ता तु तथैव कार्या ॥ ऊर्ध्वगता द्विगुणा तथाऽन्या या ब्रह्मसूत्रे विबुधैः प्रदिष्टा ॥ ५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे लिङ्गरूपनिर्माणो नाम चतुःसप्ततितमो ऽध्यायः ॥ ७४ ॥ वज्र उवाच ॥ व्योमरूपं साम्प्रदं च सर्वधर्मभृतां वर ॥ व्योम्नि तु पूजिते पूजा कृता स्याज्जगतो भवेत्तदा ॥ १ ॥ मार्कण्डेय उवाच ॥ चतुरस्रं भवेन्मूले ततो वृत्तं महाभुज ॥ ततोल्पचतुरस्रं च चतुरस्रं ततो भवेत् ॥ २ ॥ ततोल्पचतुरस्रं च मेरुवत्संस्थितं ततः ॥ भद्रपीठं मिदं प्रोक्तं व्योमभागं तृतीयकम् ॥ ३ ॥ सर्वेषां भद्रपीठानामप्येतल्लक्षणमुच्यते ॥ सम्बधश्चतुरस्रं तु मध्यभागं प्रकीर्तितम् ॥ ४ ॥ भद्रपीठे ततो मानं तत्र पद्मं निवेशयेत् ॥ शुभाष्टपत्रं तन्मध्ये कर्णिकायां दिवाकरम् ॥ ५ ॥ पत्रेषु कल्पयेत्तत्र दिक्पालांश्च यथादिशम् ॥ भद्रपीठे मध्यस्तद्वा पृथिवी परिकल्पयेत् ॥ ६ ॥ अन्तरिक्षं तथा स्तम्भमूर्ध्वभागं ततो विदुः ॥ तत्र सन्निहिताः सर्वे भवन्ति त्रिदशोत्तमाः ॥ ७ ॥ सर्वदेवमयं व्योम कथितं ते महाभुज ॥ तस्य सम्पूजनं कृत्वा सर्वान्कामानवाप्नुयात् ॥ ८ ॥ इति व्योमः स्वरूपं कथितं मयैतद्व्योमस्तु पूज्यं करणात्समग्रम् ॥ सम्पूजिते स्याज्जगदेकवीरे चराचरं यादववंशमुख्य ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे व्योमरूपनिर्माणो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥ वज्र उवाच ॥ नरनारायणौ कार्यौ केन रूपेण संव्रतौ ॥ द्वारि कृष्णश्च कर्तव्यः कथं वा भुवनन्दन ॥ १ ॥ मार्कण्डेय उवाच ॥ दुर्वादलश्यामो नरः कार्यो द्विभुजश्च महाभुज ॥ नारायणश्चतुर्बाहुर्नीलोत्पलदलच्छविः ॥ २ ॥ तयोर्मध्ये च बदरी कार्या फलविभूषणा ॥ बदर्यामङ्के¹ तौ कार्यावक्षमालाधरावुभौ ॥ ३ ॥ अष्टाचक्रे स्थितौ याने सितुक्ते² मनोहरे ॥ कृष्णाजिनधरौ दान्तौ जटामण्डलधारिणौ ॥ ४ ॥ पादेन चैकेन रथस्थितेन पादेन चैकेन च जानुगेन ॥ कार्यो हरिश्चाथ नरेण तुल्यः कृष्णोऽपि नारायणतुल्यमूर्तिः ॥ ५ ॥ इति श्रीविष्णु ध० तृ० ख० मा० सं० नरनारायणरूपनिर्माणो नाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥ वज्र उवाच ॥ धर्मस्य रूपनिर्माणं ज्ञानस्य च परन्तप ॥ वैरा
१ 'पद्मो' इति क० । २ 'द्युतयुक्ते' इति क० 'भूतयुक्ते' इति ख० ।