विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 730, कुल 1001 में से
संदर्भ में पढ़ेंउवाच ॥ प्रजापत्येन रूपेण कर्तव्यः कश्यपः प्रभुः ॥ अदितिर्दितिश्चैव काष्ठा दनायुः सिंहिका सुरभिः॥२॥ क्रदूः क्रोधा दरा प्राथा विनता सुरभिः स्वशा ॥ सर्वाः सुरूपाः कर्तव्या द्विभुजाः पूर्वमातरः ॥ ३ ॥ अदितिश्च दितिश्चैव विनता सुरभिस्तथा ॥ ददिरसां तु कर्तव्या सौम्या यादृ वनन्दन ॥ ४ ॥ अनेनैव तु रूपेण सर्वा वै देवमातरः ॥ कर्तव्या यादृवेश्वेह रूपनिर्माणकर्मणा ॥ ५ ॥ कश्यपस्यापराः पत्न्यः कार्या व्याकुल लोचनाः ॥ विष्णुरूपधरः कार्यो ध्रुवो ग्रहगणेश्वरः ॥ ६ ॥ चक्ररश्मिकरः श्रीमान्द्विभुजः सौम्यदर्शनः ॥ मविष्यमनुरूपेण कार्योऽगस्त्यो महामुनिः ॥ ७ ॥ रूपं तदेव कथितं सुन्वादीनों महात्मनाम् ॥ शुक्रपुत्रौ ज्वलन्तश्च कर्तव्यौ रूपसंयुतः ॥ ८ ॥ चापबाणकरः श्रीमान्द्विभुजः सौम्यदर्शनः ॥ बलो यमसुतः कार्यश्चर्मखड्गधरः प्रभुः ॥ ९ ॥ पुष्करश्च तथा कार्यः पद्मपत्रसमप्रभः ॥ खड्गं च पुस्तकं चोभौ करयोस्तस्य कारयेत ॥ १० ॥ चन्द्रपुत्रौ तथा व्योमंस्ता रूपेणाप्रतिमा भुवि ॥ बासपार्श्वे तु कर्तव्या सर्वरत्नभूषणा ॥ ११ ॥ सुरूपरूपः कर्तव्यो रत्नपात्र करो विभुः ॥ द्विन्द्रप्रयुक्तवदनो धनादिर्नलकुबरः ॥१२॥ चनदस्य तु रूपेण मणिभद्रं विदुर्बुधाः ॥ न कार्या शिविका तस्य सभायां नरवाहनः ॥ १३ ॥ वायुरूपस्तु कर्तव्यो वायुरूपः पुरोजवः ॥ अतीव रूपवान्कार्यो वर्चः सोमसुतः प्रभुः ॥ १४ ॥ लीलाकम्लपाणिस्तु वर्चस्वी येन जायते ॥ नन्दी कार्योऽग्निनेत्रस्तु चतुर्बाहुर्महाभुजः ॥ १५ ॥ सिन्दूराशणसङ्काशो व्याघ्रचर्माम्बरच्छदः ॥ त्रिशूलभिन्दिपालौ च करयोस्तस्य कारयेत ॥ १६ ॥ शिरोगतं तृतीयन्तु तर्जयन्तं तथा परम् ॥ आलोकमानं कर्तव्यं दूरादागामिकं जनम् ॥ १७ ॥ अनेनैव च रूपेण वीरभद्रं विदुर्बुधाः ॥ उपरिष्ठात्प्रवक्ष्यामि धर्मरूपमहं तव ॥ १८ ॥ अधः कारयर्तु रूपेण धनदस्य महात्मनः ॥ कामदेवस्तु कर्तव्यो रूपेणाप्रतिमो भुवि ॥ १९ ॥ अष्टबाहुः स कर्तव्यः शङ्खपद्मविभूषणः ॥ चापबाणकरश्चैव मदादुद्वितलोचनः ॥ २० ॥ रतिः प्रीतिस्तथा शक्तिर्मदशक्तिस्तथो ज्ज्वला ॥ चतस्रस्तस्य कर्तव्याः पत्न्यो रूपमनोहराः ॥ २१ ॥ चत्वारश्च करास्तस्य कार्या भृगारंस्तनोपगाः ॥ केतुश्च मकरः कार्यः पञ्चबाण मुखो महान् ॥ २२ ॥ करेण कटिनेनाथ निद्रां वामेन कारयेत ॥ दक्षिणे तु तथा पार्श्वे तस्याः सङ्कर्षणो भवेत् ॥ २३ ॥ बाहुद्वयस्तथा वामे मकनेशा तथा सुतः ॥ एवं लक्ष्म्याः प्रवक्ष्यामि उपरिष्टात्तवानघ ॥ २४ ॥ चतुर्भुजा च कर्तव्या तथा देवी सरस्वती ॥ अक्षमाला त्रिशूले च पुस्तकं च कमण्डलम् ॥ २५ ॥ तस्या करेषु कार्याणि यथावदनुन्दन ॥ कार्या सकलक्षा देवी वारुणी चातिसुन्दरी ॥ २६ ॥ लम्बोदरी तु कर्तव्या रक्ताम्बरपयोधरा ॥ शूलहस्ता महाभागा सुप्रभेरणा तथा ॥ २७ ॥ वृद्धेद्धा च कर्तव्या बहुबाहुस्तथैव सा ॥ चामुण्डा