विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 736, कुल 1001 में से
संदर्भ में पढ़ेंष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अग्निरूपनिरूपणो नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥ मार्कण्डेय उवाच ॥ ॥ विरूपाक्षो विवृताक्षः प्रशुष्कदोर्ज्वलत्स्तनः ॥ ऊर्ध्वकेशो हरिश्चश्मश्रुर्द्विबाहुर्भीषणाननः ॥ १॥ वर्णेन रक्तकृष्णोऽङ्गः कृष्णाम्बरधरस्तथा ॥ सर्वाभरणधारी च दण्डरोम करस्तथा ॥ २॥ भार्या च तस्य कर्तव्या देवी निर्ऋतिसंस्थिता ॥ कृष्णाङ्गी कृष्णवदना पार्श्वस्था तु वामतः ॥ ३॥ कालः प्रोक्तो विरूपाक्षो मृत्युर्हि निर्ऋतिस्तथा ॥ विभर्ति ताभ्यां रूपं वासांसि च ततो नृप ॥ ४॥ मारणं तस्करं दण्डं बन्धनं¹ चोद्यमस्तथा ॥ महामोहास्तथैवोग्राः कथिता स्तस्य वामतः ॥५॥ नृपेन्द्रपालमिदं गदितं रक्षोधिपस्यप्रतिमस्य तस्य ॥ अतः परं वच्मि तवाद्य राजनवायोस्तु रूपं परमस्य धाम्नः ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विरूपाक्षरूपनिरूपणो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ मार्कण्डेय उवाच ॥ वायुरम्बर वर्णस्तु तदाकाराम्बरो भवेत् ॥ वायुश्चापूरितवस्त्रश्च द्विभुजो रूपसंयुतः ॥ १॥ गमनेच्छा स्थिता भार्या तस्य कार्या च वामतः ॥ कार्यों गृहीत वस्त्रान्तः कराभ्यां पवनो द्विज ॥ २॥ तथैव देवी कर्तव्या शिवा परमसुन्दरी ॥ व्यथितारतस्यस्था कार्यों देवी व्याकुलमूर्धजा ॥ ३ ॥ वायु राश्रयतो यत्तो गन्धवर्णादिकं यतः ॥ तस्मादनेनवर्णेस्तु गमनस्य समाश्रयात् ॥ ४ ॥ तदेव वसनं तस्य गगनं परिकीर्तितम् ॥ या गतिः सा शिवा देवी गोऽनिरुद्धश्च सोऽनिलः ॥ ५ ॥ एतद्धि रूपं पवनस्य राजंस्तेलोदितं सर्वजगन्मयस्य ॥ देव्याः शिवायाश्च महासुभावं² एवं पवित्रं विदितं द्विजानाम् ॥ ६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० वायुरूपनिर्माणोनामअष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ मार्कण्डेय उवाच ॥ अथातो रूपनिर्माणं वक्ष्येऽहं भैरवस्य ते ॥ ऊर्ध्वोदरं तथा कुर्याद्वृत्तपीनत्रिलोचनम् ॥ १॥ दंष्ट्राकरालवदनं फुल्लनासापुटं तथा ॥ कपालमालिनं रौद्रं सर्वतः सर्पभूषणम् ॥ २ ॥ व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम् ॥ सजलाम्बुदसंकाशं गजचर्मोत्तरीयकम् ॥ ३ ॥ बाहुभिर्बहुभिर्व्यग्रैर्नाना सर्वायुधैर्विभूषणैः ॥ ॥ बृहतसालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः ॥ ४॥ साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम् ॥ महाकालस्य कथितमेतदेव च सम्मुखम् ॥ ५ ॥ देवी तु वामतः कार्या करे कार्यस्तु पन्नगः ॥ न चास्य पुरतः कार्या देवी पर्वतनन्दिनी ॥ ॥ ६॥ शुद्धा न कार्या न तथाम्यस्य रक्ता समीपती मातृगणप्रधाने ॥ कार्यस्त्वन्यः परिवेषमस्य गणाश्च कार्या बहुरूपरूपाः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भैरवरूपनिर्माणो नामकोनषष्टितमोऽध्यायः ॥ ५९ ॥ ॥वज्र उवाच ॥
१ 'वन्दनं,' इति क० । २ 'देवी त्रासनकं' इति ख० ।