भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 736, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 736

ष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अग्निरूपनिरूपणो नाम षट्पञ्चाशत्तमोऽध्यायः ॥५६॥ मार्कण्डेय उवाच ॥ ॥ विरूपाक्षो विवृताक्षः प्रशुष्कदोर्ज्वलत्स्तनः ॥ ऊर्ध्वकेशो हरिश्चश्मश्रुर्द्विबाहुर्भीषणाननः ॥ १॥ वर्णेन रक्तकृष्णोऽङ्गः कृष्णाम्बरधरस्तथा ॥ सर्वाभरणधारी च दण्डरोम करस्तथा ॥ २॥ भार्या च तस्य कर्तव्या देवी निर्ऋतिसंस्थिता ॥ कृष्णाङ्गी कृष्णवदना पार्श्वस्था तु वामतः ॥ ३॥ कालः प्रोक्तो विरूपाक्षो मृत्युर्हि निर्ऋतिस्तथा ॥ विभर्ति ताभ्यां रूपं वासांसि च ततो नृप ॥ ४॥ मारणं तस्करं दण्डं बन्धनं¹ चोद्यमस्तथा ॥ महामोहास्तथैवोग्राः कथिता स्तस्य वामतः ॥५॥ नृपेन्द्रपालमिदं गदितं रक्षोधिपस्यप्रतिमस्य तस्य ॥ अतः परं वच्मि तवाद्य राजनवायोस्तु रूपं परमस्य धाम्नः ॥ ६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० विरूपाक्षरूपनिरूपणो नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ मार्कण्डेय उवाच ॥ वायुरम्बर वर्णस्तु तदाकाराम्बरो भवेत् ॥ वायुश्चापूरितवस्त्रश्च द्विभुजो रूपसंयुतः ॥ १॥ गमनेच्छा स्थिता भार्या तस्य कार्या च वामतः ॥ कार्यों गृहीत वस्त्रान्तः कराभ्यां पवनो द्विज ॥ २॥ तथैव देवी कर्तव्या शिवा परमसुन्दरी ॥ व्यथितारतस्यस्था कार्यों देवी व्याकुलमूर्धजा ॥ ३ ॥ वायु राश्रयतो यत्तो गन्धवर्णादिकं यतः ॥ तस्मादनेनवर्णेस्तु गमनस्य समाश्रयात् ॥ ४ ॥ तदेव वसनं तस्य गगनं परिकीर्तितम् ॥ या गतिः सा शिवा देवी गोऽनिरुद्धश्च सोऽनिलः ॥ ५ ॥ एतद्धि रूपं पवनस्य राजंस्तेलोदितं सर्वजगन्मयस्य ॥ देव्याः शिवायाश्च महासुभावं² एवं पवित्रं विदितं द्विजानाम् ॥ ६॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० वायुरूपनिर्माणोनामअष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ मार्कण्डेय उवाच ॥ अथातो रूपनिर्माणं वक्ष्येऽहं भैरवस्य ते ॥ ऊर्ध्वोदरं तथा कुर्याद्वृत्तपीनत्रिलोचनम् ॥ १॥ दंष्ट्राकरालवदनं फुल्लनासापुटं तथा ॥ कपालमालिनं रौद्रं सर्वतः सर्पभूषणम् ॥ २ ॥ व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम् ॥ सजलाम्बुदसंकाशं गजचर्मोत्तरीयकम् ॥ ३ ॥ बाहुभिर्बहुभिर्व्यग्रैर्नाना सर्वायुधैर्विभूषणैः ॥ ॥ बृहतसालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः ॥ ४॥ साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम् ॥ महाकालस्य कथितमेतदेव च सम्मुखम् ॥ ५ ॥ देवी तु वामतः कार्या करे कार्यस्तु पन्नगः ॥ न चास्य पुरतः कार्या देवी पर्वतनन्दिनी ॥ ॥ ६॥ शुद्धा न कार्या न तथाम्यस्य रक्ता समीपती मातृगणप्रधाने ॥ कार्यस्त्वन्यः परिवेषमस्य गणाश्च कार्या बहुरूपरूपाः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भैरवरूपनिर्माणो नामकोनषष्टितमोऽध्यायः ॥ ५९ ॥ ॥वज्र उवाच ॥


१ 'वन्दनं,' इति क० । २ 'देवी त्रासनकं' इति ख० ।