विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 739, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥३४०॥ तृ० खं० अ० ५२
तस्य पाशः करे योज्यो यममार्गः सुदुष्करः ॥ १४ ॥ वज्र उवाच ॥ संहारहेतुको मूर्तिर्विष्णोः सङ्घर्षणो मतः ॥ सा तु देवस्वरूप्या प्रोक्तैश्चन्द्रमुखेक्षण पुम्वान ॥ १५ ॥ तस्य संहारकर्तृत्वं कृष्णमूर्त्तिः कथं यमः ॥ एतं मे संशयं छिन्धि भुवनार्तिविनाशन ॥ १६॥ मार्कण्डेय उवाच ॥ मूर्तिः साङ्कर्षणो विष्णो रुद्रः संहारकारकः ॥ कल्पक्षये तु संहारं करोति जगतां हि सा ॥ १७ ॥ प्रकृतौ याति धर्मज्ञ संहृतं तु तदा जगत् ॥ तेन प्रकृतिवर्णस्यः करोति जगतां क्षयम् ॥ १८ ॥ कृत्वापि प्रतिसंहारं यमरूपी पुनःपुनः ॥ प्राणिनां प्रकृतौ योजं न विद्यते कदाचन ॥ १९ ॥ विकारे योजयत्येष सुखदुःखान्वके तदा ॥ विकाररूपवर्णं तु तेन संहरते जगत् ॥ २० ॥ रूपमिदं कथितं तव गम्यं पापनाशनकरं विबुधानाम् ॥ दुःषमतः कथयामि महात्मंल्लोपगतैकवर्णमथ त्वाहम् ॥ २१ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यमस्कन्दनिर्माणो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१ ॥ मार्कण्डेय उवाच ॥ सन्नद्धंसे रथे कार्यो वरुणो यादसाम्पतिः ॥ स्निग्धवैडूर्यसङ्काशः श्वेताम्बरधरस्तथा ॥ १॥ किञ्चित्प्रलम्बजठरो मुक्ताहारविभूषणः ॥ सर्वासामपरावाजा¹ तथा देवश्चतुर्भुजः ॥ २ ॥ वामभागगते कर्तुं मकरस्य तु कारयेत् ॥ छत्रं च सुसितं मूर्ध्नि भार्य्या सर्वाङ्गसुन्दरी ॥ ३ ॥ वामोत्सङ्गगता कार्या गौरी तद्विभुजा नृप ॥ उत्पलं तु करे वामे दक्षिणे देवपृष्ठगम ॥ ४ ॥ पद्मधरो करे कार्यो देवदक्षिणहस्तयोः ॥ शङ्खं च रत्नपात्रं च वामयोस्तस्य कारयेत् ॥ ५ ॥ भागे तु दक्षिणे गङ्गा मकरस्था सचामरा ॥ देवी पद्मकरा कार्या चन्द्रगौरी वराङ्गना ॥ ६ ॥ वामे तु यमुना कार्या कूर्मसंस्था सचामरा ॥ नीलोत्पलकरा सौम्या नीलनीरदसन्निभा ॥ ७ ॥ स्निग्धवैडूर्य सङ्काशस्त्वपांपोर्णो² गतो नृप ॥ तयोश्चमध्यगोयर्था तद्रूपो वरुणस्ततः ॥ ८ ॥ स्वरूपवर्णाः सुसितास्ता एव द्विजपुंगव ॥ वसनं तस्य कथितं ता एव सुसितं नृप ॥९॥ वज्र उवाच ॥ उभयस्मरस्तु कथं वर्णः सत्यासत्ये तयोरिति ॥ एतत् श्रोतुमिच्छामि परं कौतूहलं हि मे ॥१०॥ मार्कण्डेय उवाच ॥ वैडूर्य्याभमपां वर्णमथर्व्व युदुनन्दन ॥ छायागतस्य नमसस्तद्रूपं ताहू दृश्यते ॥ ११॥ प्रभातपातयेत्यैद्रूपममस्तं नृप दृश्यते ॥ शशाङ्कांश्रुप्रतीकाशं तस्यरूपं प्रतिष्ठितम् ॥ १२ ॥ प्रद्युम्नो वासुदेवस्तु वरुणो यादसां पतिः ॥ तस्य भार्य्या गतिर्ज्ञेया गौरी यादवनन्दन ॥१३॥ सौभाग्यमुत्पलं तस्याः करे सुस्तनं विभो ॥ वरुणस्य करे पद्मं विचिन्त्यं महाभुज ॥ १४ ॥ शङ्खमर्थं विजानीहि पाशं संसारबन्धनम् ॥ रत्नपात्रं करे ज्ञेयं सर्वरत्नधरा भग ॥ १५ ॥ मूर्धस्थं सुसितं छत्रं सौख्यं मकर एव च ॥ ब्रह्मणा कथितं तस्य भुजामरणधारणम् ॥ १६ ॥
॥३४०॥
¹ 'तासाम्' इति क० व० । ² 'वर्णं' इति ख० ।