भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 740, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 740

सुरेश्वरः ॥ वामोत्सङ्गगता कार्या रक्षमाणा तथा शची ॥२॥ नीलवस्त्रः सुवर्णाभः सर्वाभरणवाँस्तथा ॥ तिर्यग्गलाटगेनाङ्गुष्ठा कर्तव्यश्च विसर्पि-
तः ॥३॥ शक्रश्चतुर्भुजः कार्यो द्विभुजा च तथा शची ॥ पद्मश्चाङ्कुशकर्तव्यौ शक्रदक्षिणहस्तयोः ॥४॥ वामं शचीपृष्ठगतं द्वितीयं वज्रसंयुतम् ॥
वामे शच्याः करे कार्या रम्या सन्तानमञ्जरी ॥५॥ दक्षिणं पृष्ठविन्यस्तं देवनाथस्य कारयेत् ॥ ऋग्वेगेन विनिर्दिष्टं तस्याभरणधारणम् ॥ ६ ॥
तेनेव तस्य कथितं तथा बाहुचतुष्टयम् ॥ त्रिनेत्रता च तस्योक्ता देवदेवेन शम्भुना ॥ ७ ॥ रुक्मप्रसववर्णेता तस्य तेजसां धामकारणात् ॥ ग्रीवां
वसने तस्य तदाकारा प्रकीर्तिताम् ॥ ८ ॥ आज्ञा तस्याङ्कुशो हस्ते सर्वसत्त्ववशाङ्कुरी ॥ पद्मस्य सहरूपेन विभूतिं सुवनाधिप ॥ ९ ॥ करेण
धारयञ्छ्रीमान्भववान् सुरसत्तमः ॥ दुःसहशमनं क्रोधो वज्रः शक्रकरः स्मृतः ॥ १० ॥ वासुदेवः स्मृतः शक्तस्तेन लक्ष्मीः शची मता ॥ तस्याः
करे च सन्तानं ज्ञेया सन्तानमञ्जरी ॥ ११ ॥ अर्थेनैश्वर्यरावेणो ज्ञेयो दन्तास्तलस्य तु कीर्तिताः ॥ देवमन्त्रप्रभूतसाहशराक्षस्येन्द्रो महाबलः ॥ १२ ॥
एतद्रूपं वासुदेवस्य शक्रं तूम्यं प्रोक्तं देवराजस्य राजन् ॥ गाम्यं रूपं तेऽधुनाहं ब्रवीमि यस्यार्चिते सुख दुःखं नराणाम् ॥ १३ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसम्वादे शक्ररूपनिर्माणो नाम पञ्चाशत्तमोऽध्यायः ॥ ५० ॥ मार्कण्डेय उवाच ॥

सजलाम्बुदसङ्काशस्तप्तचामीकराम्बरः ॥ महिषस्थश्च कर्तव्यः सर्वरत्नविभूषणः ॥ १॥ नीलोत्पलाभमा धूम्रोर्णा वामोत्सङ्गे च कारयेत् ॥
धूम्रोर्णा द्विभुजा कार्या यमः कार्यश्चतुर्भुजः ॥ २ ॥ दण्डखड्गधरौ कार्यों यमदक्षिणहस्तयोः ॥ दण्डोपरि सुखं कार्यं ज्वालामालाविभूषणम् ॥३॥
धूम्रोर्णापृष्ठगं वामं चर्मयुक्तं तथापरम् ॥ धूम्रोर्णादक्षिण हस्तं यमपृष्ठगतं भवेत् ॥ ४ ॥ वामे तस्याः करे कार्यं मातुलिङ्गं सुदर्शनम् ॥ पार्श्वे तु
दक्षिण तस्य चित्रगुप्तं च कारयेत् ॥ उदीच्य वेशं स्वाकारं द्विभुजं सौम्यदर्शनम् ॥ ५ ॥ दक्षिणे लेखिनी तस्य वामे पत्रं तु कारयेत् ॥ ६ ॥
वामे पाराशरः कार्यः कालो विकटदर्शनः ॥ एवं सङ्कीर्णं विधि तामसी तनुमाश्रितम् ॥ ७ ॥ मर्यादापालनाथार्य लोकसंहारकारणम् ॥ नीलो-
त्पलदलच्छायमस्तसमस्तबाप्रकीर्तिः ॥ ८ ॥ वसने तस्य विख्यात तामसी वासुदेवन शङ्खदन ॥ चतुर्थभुजत्वं विख्यातं ब्रह्मण परमात्मनः ॥ ९ ॥
ब्रह्मणा तस्य निर्दिष्टं सर्वाभरणधारणम् ॥ यो मोहो मरणं नृणां विज्ञेयो महिषस्तु सः ॥१०॥ अमोघं तु करे दण्डं मृत्युं धारयते यमः ॥ अग्नि
रूढेन तस्योक्तं धारणं खड्गचर्मणोः ॥ ११ ॥ कालरात्री तु विज्ञेया धूम्रोर्णा युडनन्दन ॥ तस्यास्तु शूलिना प्रोक्तं बीजपूरकधारणम् ॥ १२ ॥
चित्रगुप्तो विनिर्दिष्टस्तथात्मा सर्वदेहगः ॥ पत्रं धर्ममधर्मं च करस्था तस्य लेखिनी ॥ १३ ॥ काल एव स्वरूपेण कालो यमसमीपगः ॥