विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 742, कुल 1001 में से
संदर्भ में पढ़ेंपरस्य पुरुषस्यैषा संसारे विकृतिर्मता ॥ १ ॥ सर्वा च विकृतिः कृष्णा तेन संसारपालनम् ॥ १ ॥ कृष्णारूपं स भगवान्विधत्ते भूतभावनः ॥ भूषणैश्च हरेः प्रोक्तं सर्वभरणधारणम् ॥ २ ॥ बिभर्ति वक्षसा ज्ञानं कौस्तुभं विमलं हरिः ॥ शुक्ला दीर्घा विचित्रा च वनमाला प्रकीर्तिता ॥ ३ ॥ यया सर्वमिदं बद्धं जगद्गङ्गाधराग्रज ॥ अविद्या वसनं तस्य संसारपरिपालिनी ॥ ४ ॥ विद्या शुक्ला विनिर्दिष्टा कृष्णमज्ञानमुच्यते ॥ अज्ञानविद्या मध्यस्था त्वविद्या परिकीर्तिता ॥ ५ ॥ न कृष्णा न तथा शुक्ला तेन विद्येहसुत्तमा ॥ अन्तरालं विभर्त्येवं सुवर्णकनकोपमम् ॥ ६॥ मनस्तु गरुडो ज्ञेयः सर्वभूतशरीरगम् ॥ तस्माच्छीघ्रतरं नास्ति तथैव बलवत्तरम् ॥ ७ ॥ दिशश्चतस्रो धर्मश्च तावत्यो विदिशस्तथा ॥ बाहवोऽष्टौ विनिर्दिष्टास्तस्य देवस्य शार्ङ्गिणः ॥ ८ ॥ बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन ॥ विज्ञेयं देवदेवस्य तस्य वक्त्रचतुष्टयम् ॥ ९ ॥ वासुदेवश्च भगवान्संख्या सङ्कर्षणः प्रभुः ॥ प्रद्युम्नश्चानिरुद्धश्च बलाद्याः परिकीर्तिताः ॥ १० ॥ द्वौद्वौ भुजौ तु विज्ञेयो प्रतिवक्त्रं महात्मनः ॥ वासुदेवस्य करयोर्ज्ञातव्यौ सूर्यराविणौ ॥ ११ ॥ सङ्कर्षणस्य करयोस्तथा मुसललाङ्गलौ ॥ प्रद्युम्नस्य तथा ज्ञेयौ चापबाणौ महाभुज ॥ १२ ॥ चानिरुद्धस्य विज्ञेयौ चर्मखड्गौ विचक्षणैः ॥ पुरुषप्रकृतौ ज्ञेयौ सूर्याचन्द्रमसावुभौ ॥ १३ ॥ एते च वासुदेवस्य करे चक्रगदे मते ॥ काले च लाङ्गलं सिद्धिं मुसुलं च मुसलं तथा ॥ १४॥ ताभ्यां सङ्कर्षणो रूढः कर्षतीदं चराचरम्॥प्रद्युम्नस्य करे वह्निः शार्ङ्गं चापं च यत्सत्तम॥ १५॥ ध्येयं तु परमं लक्ष्यं ताभ्यां छिन्दन्ति योगिनः ॥ ब्रह्मतत्त्वमनिरुद्धस्य करे चर्म महाभुज ॥ १६ ॥ अज्ञानावरणं ज्ञेयं जगतस्सृष्टिप्रयोजनम् ॥ वैराग्यं नन्दकं खड्गं छित्त्वा वै तेन बन्धनम् ॥ नदन्ति योगिनो यस्मात्तस्मान्नन्दकं स्मृतम् ॥ १७ ॥ एतद्धि तस्याप्रतिमस्य रूपं तवेरितं सर्वजगन्मयस्य ॥ एवं शरीरेण जगत्समग्रं बिभर्त्ति देवः स जगत्प्रधानः ॥ १८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे विष्णुरूपनिर्माणो नाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥ ॥ छ् ॥ मार्कण्डेय उवाच ॥ सद्योजातं वामदेवमघोरं च महाभुज ॥ तथा तं पुरुषं ज्ञेयमेशानं पञ्चमं मुखम् ॥ १ ॥ सद्योजातं मही प्रोक्ता वामदेवं तथा जलम् ॥ तेजस्त्वघोरं विद्यात्तं वायुंस्तत्पुरुषं मतम् ॥ २ ॥ ईशानं च तथाकाशमूर्द्धस्यं पञ्चमं मुखम् ॥ ३ ॥ विभागेनाथ वक्ष्यामि शम्भोर्वदनपञ्चकम् ॥ ३ ॥ महादेवमुखं ज्ञेयं पूर्वं शम्भोर्महात्मनः ॥ नेत्राणि त्रीणि तस्याङ्कः सोमसूर्यहूताशनाः ॥ ४ ॥ दक्षिणं तु मुखं रौद्रं भैरवं तत्प्रकीर्तितम् ॥ पश्चिमं यन्मुखं तस्य नन्दिवक्त्रं तदुच्यते ॥ ५ ॥ उमा
१ 'चन्द्रमार्कौ' इति पुस्तकान्तरे पाठः ।