भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 747, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 747

वि० पृ० ॥ ३२६॥ पृ०नं० अ० ४२ ॥ ३३६॥

दीपानां च करैः कार्यं तथा भूमण्डलं शुभम् ॥ ६२ ॥ ॐ ............राजस्तथा स्थिरसर्पणमयः ॥ रत्नपञ्चकराः कार्याः सागरा मञ्जुलोत्तमा ॥ ६३ ॥ समुद्राणां प्रभास्यान्ते सलिलं तु प्रदर्शयेत् ॥ आयुधानां च तच्चिह्नं किञ्चिनमूर्ध्नि दर्शयेत् ॥ ६४ ॥ निधीनां दर्शयेत्कुम्भं शंखं शंखस्य दर्शयेत् ॥ पद्मं पद्मस्य राजेन्द्र शेषाणामनुबन्धरूपतः ॥ ६५ ॥ कार्यस्त्वव्यक्तभावैः कार्यः स्वैर्हस्तदक्षैः पृथक् ॥ दिव्यानां दर्शयेच्चिह्नं मालाञ्चैव पुस्तकम् ॥ ६६ ॥ अतः परं प्रवक्ष्यामि रूपं यद्यस्य दृश्यते ॥ अकाशं दर्शयेद्विद्वान्दिव्येन स्वाभ्रमाकुलम् ॥ ६७ ॥ तथैव दर्शयेद्राज्ञं रत्नाकरमणिप्रभं दिव्यमम्बुधिं च जाङ्गलंनृपमिश्रैः स्वैःस्वतैस्तथा गुणैः ॥ ६८ ॥ पर्वतं तु शिलाजालैः शिखरोन्नतिमुद्गमैः ॥ निर्झरैश्चर्गजैश्चैव दृष्टैर्वनतृणस्तथैव ॥ ६९ ॥ वनं नानाविधैर्वृक्षैर्विहङ्गैः श्वापदैस्तथा ॥ तोयं च दर्शयेद्विद्वांनन्तर्मत्स्यकच्छपैः ॥ ६० ॥ पद्माक्षैश्च महाराज तथान्यैर्जलजैरुपैः ॥ दैवतार्थाश्चमिश्रैश्च प्रासादापणवेश्मभिः ॥ ६१ ॥ नगरं दर्शयेद्विद्वान राजमार्गश्च शोभनैः ॥ बभत्या दर्शयेद्भूमिं किञ्चिन्द्यानशोभितम् ॥ ६२ ॥ सर्वेषामथ दुर्गाणां कर्तव्यं दर्शनं तथा ॥ समभिविनिवेशेन भ्रष्टाट्टालकपर्यतैः ॥ ६३ ॥ पण्यायुक्तस्तु कर्तव्यास्तथैवापणभूमयः ॥ आचान्तभूमिः कर्तव्या पानयुक्तैः नराकुलै ॥ ६४ ॥ उत्तरीयविहीनांश्च हुतसत्त्वान्प्रदर्शयेत् ॥ जिताश्चापेक्षिताम्मुक्तानध्यारूढयज्यास्तथा ॥ ६५ ॥ चतुरङ्गबलोपेतां प्रहरद्भिनरैर्युताम् ॥ मृतावयवखण्डांश्च रणभूमिं प्रदर्शयेत् ॥ ६६ ॥ चिताकुणपसंयुक्तं श्मशानं च तथा नृप ॥ युक्तं सभाररुक्षाभामार्गं साथं प्रदर्शयेत् ॥ ६७ ॥ सचन्द्रग्रहनक्षत्रं तथा दर्शितलौकिकम् ॥ आसन्नभास्करं रात्रिं दर्शयेत्सुसमानवाम् ॥ ६८ प्रभातं दर्शयेत्तज्ज्ञो तथा चैवाभिसारिकाम् ॥ मारुणो म्लानदीपांश्च प्रत्युषो रुरुदुक्कुटैः ॥६९॥ कर्मव्यग्रजनप्रायः कर्तव्यो वासरस्तथा ॥ द्विजैर्यज्ञमियुक्तैश्च रक्तं सन्ध्वां प्रदर्शयेत् ॥ ७० ॥ तमसौ दर्शनं कार्यं वासे संसर्पकीनरैः ॥ कुमुदानां विकारैश्च ज्योत्स्नां चन्द्रे प्रदर्शयेत् ॥७१॥ दीक्षौतस्तस्करस्य च शय्यां कृणोतिकावृताम् ॥ सदूतोन्मत्तनाव्रणयां दृष्टिं दृष्ट्वाम्प्रदर्शयेत्ता॥७२॥प्राणिनां क्लेशतप्तानामादित्येन निदर्शनम् ॥ वृक्षैर्वसन्तजैः फुल्लैः कोकिलालापशोभितैः ॥ ७३ ॥ प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत् ॥ क्लान्तैः कार्यं नरैर्ग्रीष्मं मृगैश्छायागतैस्तथा ॥ ७४ ॥ महिषैः पङ्कमलिनैस्तथा मुञ्जकुलाश्रयम् ॥ विहङ्गैरूर्द्धसंलीनैः सिंहव्याघ्रेर्मृदङ्गतैः ॥ ७५॥ तोयन्त्रस्रवदुर्वेलैः सेन्द्रचापविभूषणैः ॥ विद्युद्दद्योतनैर्युक्तां प्रावृषं दर्शयेत्तथा ॥ ७६ ॥ मण्डलैर्हसमंस्युक्तैः पक्वसस्यां वसुन्धराम् ॥ सहंसपद्मसलिलं शरद् तु तथा लिखेत् ॥ ७७ ॥ सबाष्पसलिलं


ॐ पुस्तकद्वयं त्रुटिः । १ 'आयुधानां च तद्विद्भिः'-इति ख० ।