भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 748, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 748

मातरः स्वेन रूपेण तथा कार्या नराधिप ॥ २६ ॥ पिशाचानां च पत्न्योऽपि कार्य्यास्तद्रूपसंयुताः ॥ विस्मृतारस्त-
कर्त्तव्याश्शियः पलितसंयुताः ॥ २७ ॥ शुक्लवस्त्रपरीधानाः सर्वाभरणवर्जिताः ॥ कुब्जा वामनिका वृद्धा तथा रूपवती भवेत् ॥ २८ ॥
राजस्त्रीणां परिवारे वृद्धः स्यात्कञ्चुकी पुनः ॥ रूचकस्य तु मानेन वैश्यमानं विधीयते ॥ २९ ॥ शशकस्य तु मानेन शूद्रमानं तथैव च ॥ गया
जात्यनुरूपेण वेषेण मनुजेश्वर ॥ ३० ॥ दैत्यादियोषितां कार्याः परिचारभियः सदा ॥ महाशिरा महोरस्को महानासो महाहनुः ॥ ३१ ॥ पीन-
स्कन्धभुजग्रीवः परिमाणेन चोच्चितः ॥ वितरङ्गललाटश्च व्योमदृष्टिर्महाकटिः ॥ ३२ ॥ दृताश्चिद्रविदा कार्यः सेनायाः पतिरुर्जितः ॥
योधाः कार्या महाराज प्रायशो भृकुटीमुखाः ॥ ३३ ॥ किंचिदुद्धतवेषाश्च कार्याश्चोधतदर्शनाः ॥ अभ्युद्रताश्च कर्तव्या आयुधीयाः पदातयः
॥ ३४ ॥ खड्गचर्मधराः कार्याः कर्णोत्कर्षकधूर्धराः ॥ वरवाणधराः कार्या नरा नञ्जाञ्धैश्च धन्विनः ॥ ३५ ॥ नात्युद्वतेन वेषेण सोपानत्कास्तथैव ते ॥
पृथक्लक्षणाः कार्याः कुञ्जरास्तुरगादयः ॥ ३६ ॥ हस्त्यारोहास्तु कर्त्तव्या मुण्डाः श्यामास्तु वर्णतः ॥ केशैश्र गूढपरैः सालंकारास्तथैव च
॥ ३७ ॥ उदीच्यवेषाः कर्त्तव्यास्तुरगाणां तु सादिनः ॥ उद्धतेन तु वेषेण कर्तव्या बन्दिनस्तथा ॥३८॥ सिरादर्शितकण्ठाश्च तथैवोद्बुद्धदृष्टयः ॥
आह्वानकास्तु कर्तव्याः कपिलाः केकरेक्षणाः ॥ ३९ ॥ किंचिदानतवसङ्गाङ्गाः प्रायशो दण्डपाणयः ॥ न केकरात्र कपिलायुद्दे द्वेद्धानसम्प्राप्ति
खेत् ॥ ४० ॥ नात्युद्वतेन वेषेण न च शान्तेन शस्यते ॥ पार्श्ववेष्टेन खड्गेन प्रतोदहरस्तु दण्डवान् ॥ ४१ ॥ संवेष्टितशिरस्काश्च
कर्तव्या वणिजस्तथा ॥ गायना नर्तका ये वा बाह्यवादिविबुद्धये ॥ ४२ ॥ उद्धतेन तु वेषेण कार्गास्ते मनुजोत्तम ॥
आसन्नपतिताः कार्याः स्वभूषणाविभूषिताः ॥ ४३ ॥ पौरजानपदाः श्रेष्ठाः शुभ्रवस्त्रविभूषणाः ॥ प्रससन्नवणाः भद्राः स्वभावप्रियदर्शनाः ॥ ४४ ॥
स्वकर्म्मोपस्कराद्धन्वयः कार्याः कर्म्मकरो जनः॥ प्रांशवः पीनगात्राश्च पीनग्रीवाशिरोधराः ॥ ४५ ॥ उग्राश्च नीचकेशाश्च मल्लाः कार्यास्तथोद्धताः ॥
वृषाः केशाग्रिणश्चैव याथ्रान्याः सर्वजातयः ॥ ४६ ॥ यथाभिमिनिवेशास्ते लोके दृष्टा नराधिप ॥ एतद्रूपसमुद्देशमदृष्टानां तवेरितम् ॥ ४७ ॥
दृष्टं सुसदृशं कार्य सर्वमप्यविशेषतः ॥ ४८॥ चित्रे सादृश्यकरणं प्रधानं परिकीर्तितम् ॥ ४८ ॥ बुद्ध्या रूपं यथावेषं वर्णं च मनुजोत्तम ॥
देशेशो नराः कार्या यथावत्तत्समुद्भवाः ॥४९॥ देशं नियोगे स्थानं च कर्म बुद्ध्या च यत्नतः ॥ आसनं शयनं यानं वेशं कार्य नराधिप ॥ ५० ॥ सांगितं सशरीराणां वाहनानि प्रदर्शयेत् ॥ पूर्णकुम्भकराः कार्य्यास्तथा नामितजानवः ॥ ५१ ॥ शैलानां शिखरं मूर्ध्नि दर्शयन्मनुजोत्तम ॥

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 748, कुल 1001 में से · BharatKosha