भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 755, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 755

वि० ध० तृ० खं० अ० ३८

रक्तास्यामस्तु शशकः किंचिद्वक्रस्तथा ॥ पूर्णागणश्च चतुरो मयश्चाथ प्रकीर्तितः ॥ ६६ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रमाणवर्णनो नाम षट्त्रिंशत्तमोऽध्यायः ॥ ३६ ॥ मार्कण्डेय उवाच ॥ अङ्गप्रत्यङ्गमानेन यथा पञ्च नराः स्मृताः ॥ १॥ स्त्रियः पञ्च तथा ज्ञेयास्ता एव मनुजोत्तम ॥ १ ॥ पुरुषस्य समीपेच्या कर्तव्या योषितीश्वर ॥ नरस्कन्धप्रमाणेण कार्या सा नृपभामिनी ॥ २ ॥ अङ्गुलौ द्वौ नरात्तासां हियो मध्यं विधीयते ॥ ४॥ अधिका च कटिः कार्या तथैव चतुरङ्गुलम् ॥ ३ ॥ उरःप्रमाणतः कार्यों स्तनौ नृप मनोहरौ ॥ तुर्यांश च स्तनौच्या महापुरुषलक्षणाः ॥ ४ ॥ जाळपादकराः कार्यास्तथा वै चक्रवर्तिनः ॥ ऊर्णैव च भ्रुवोर्मध्ये तेषां कार्यं तथा शुभम् ॥ ॥ ५ ॥ रेखाश्च करयोः कार्यास्तिस्रो राज्ञां मनोहराः ॥ शशांकसदृशकाशाः शंखा वै चामकोटिकाः ॥ ६ ॥ तदर्द्धमाङ्गिनः सूक्ष्मा निजस्नेहसमुत्कृताः ॥ घनेन्द्रनीलसदृशाः केशाः कार्यास्तथा शुभाः ॥ ७ ॥ कुन्तला दक्षिणावर्तनाऽङ्गिनः सिंहकेसराः ॥ वर्मगा जूटसमरा इत्येताः केशजातयः ॥ ८ ॥ चापाकारं भवेन्नेत्रं मत्स्योदरमथापि वा ॥ नेत्रमुत्पलपत्राभं पद्मपत्रनिभं तथा ॥ ९ ॥ शराकृतिर्महाराज पञ्चमं परिकीर्तितम् ॥ चापाकारं भवेन्नेत्रं प्रमाणेन यथा स्त्रियः ॥ १० ॥ मत्स्योदरश्च कथितं तथा यवचतुष्टयम् ॥ नेत्रमुत्पलपत्राख्यं प्रमाणान्षड्यवं स्मृतम् ॥ ११ ॥ पद्मपत्रनिभं नेत्रं प्रमाणेन यवा नव ॥ शराकृति च विज्ञेयं तथैव च यवा दश ॥ १२ ॥ नेत्रमङ्गलमानस्य यवमानं प्रकल्पयेत् ॥ चापाकारे भवेन्नेत्रे योगिनिमिलितेक्षणम् ॥ १३ ॥ मत्स्योदराकृति कार्यं नारीणां कामिनां तथा ॥ नेत्रमुत्पलपत्राभं निर्विकारस्य शस्यते ॥ १४ ॥ त्रस्तस्य रुदतोवापि पद्मपत्रनिभं भवेत् ॥ क्रुद्धस्य वेदनान्तस्य नेत्रं शराकृतिर्भवेत् ॥ १५ ॥ ऋषयः पितरश्चैव देवताश्च नराधिप ॥ स्वप्रमाणप्रमाणाः कार्या ह्युत्तमन्तस्तथैव च ॥ सुष्णन्तस्तेजसां तेजः परेषां नृपसत्तम ॥ १६॥ सम्यग्विचार्य नृपतिः स्वधिया गृहीतै हेतत्यणाणमजुढरूपमनिन्दितं च ॥ स्थानैरनेकरुचिरैः स्थिरभूमिलग्नैः कार्यं तदेव सुकुमारमसिद्धिरेखम् ॥ १७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० सामान्यमानवर्णनो नाम सप्तत्रिंशत्तमोऽध्यायः ॥ ३७॥

॥ मार्कण्डेय उवाच ॥ नेत्रमुत्पलपत्राभं रक्तान्तं कृष्णतारकम् ॥ प्रसन्नं दीर्घपक्ष्मान्तं मनोज्ञं मृदु सत्प्रभम् ॥ १ ॥ देवतानां करं राजन्यथा हितकरं भवेत् ॥ समे गोक्षीरवर्णाभे स्निग्धे जिह्याग्रदृक्फले ॥ २ ॥ प्रसन्ने पद्मनेत्रान्ते मनोज्ञे प्रियदर्शने ॥ कृष्णतारे विशाले च नयने श्रीसुखप्रदे ॥ ३ ॥


१ किञ्चिः रज्जुसकस्तथा' इति ख० । किञ्चिद्सुकस्तथा' इति ख० । २ 'चापा' इति ख० ।

॥३३२॥