विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 756, कुल 1001 में से
संदर्भ में पढ़ेंसामान्यतस्ते नृपतेर्न मानं प्रोक्तं मया हंसनरधिपस्य ॥ प्रत्यक्षमानं च मयोच्यमानं समासतरत्वं शृणु राजसिंह ॥ ३८ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे आयामोच्छ्रयप्रमानवर्णनो नाम पञ्चविंशतितमोऽध्यायः ॥ ३६ ॥ मार्कण्डेय उवाच ॥ अथ प्रत्यक्षेवि भागो भवति तत्र द्वादशाङ्गुलपरीणाहौ मूर्धा । चतुरङ्गुलोच्छ्रयं अष्टाङ्गुलं ललाटम् । शङ्खौ चतुरङ्गुलौ व्यङ्गुलोच्छ्रयौ पञ्चाङ्गुलौ गण्डौ चतुरङ्गुलो च्छ्रुः । द्व्यङ्गुलौ कर्णौ चतुरङ्गुलोच्छ्रयौ। कर्णमध्यमङ्गुलं तद्रन्ध्रमुदकम् ॥ पाशिरनियमोने । (कर्णस्य त्रुटिकापालिः) नासा चतुरङ्गुला अग्रे द्व्यङ्गलोच्छ्रया त्रिकायामा च नासापुटद्वंगुलिविस्तारौ द्विगुणद्विगुणायामौ । नासोष्ठमध्यमर्धाङ्गुलम् । ओष्ठश्चाङ्गुलः । चतुरङ्गुलायाम मास्यम् । अधरोऽङ्गुलं द्व्यङ्गुलं चिबुकम् । चत्वारिंशद्दन्ताः । तेष्वष्टौ दंष्ट्राः । अर्धाङ्गुलोच्छ्रिता दन्ताः । अङ्गुलद्वादशभागिका दंष्ट्रा । अङ्गुलं विस्तृता व्यङ्गुलायाम नेत्रे । नेत्रविभागं कृष्णमण्डलमापञ्चभागस्तारा । अर्धाङ्गुलिविस्तृतेद्व्यङ्गुलायामे भ्रुवौ । तयोर्मध्यमन्तरम् । चतुरङ्गुलं नेत्रान्तकर्णविवरम् । दशाङ्गुलिविस्तृता ग्रीवा एकाविंशत्यङ्गुलपरीणाहा षोडशाङ्गुले स्तनान्तरम् । षडङ्गुलं स्तननक्षवन्तरम् । षोडश बाहूर्ध्व लक्षणोगाहः। द्वादशाश्वः सप्ताङ्गुले करतलम् । पञ्चाङ्गुलं विस्तृतं पञ्चाङ्गुलप्रमाणा मध्यमिका । तत्पूर्वदलहीना प्रदेशिनी । तत्तुल्या चानामिका । तत्पर्वहीना कनिष्ठिका सर्वाः समाग्निभागपर्वाः । पर्वाधी नखाः । व्यङ्गलमङ्गुष्ठं द्विपर्वः। जठरपरीणाहो द्वाचत्वारिंशदङ्गुलः । वेधप्रमाणाभ्यामङ्गुष्ठं नाभिः । कण्ठिरष्टादशाङ्गुला विपुला । तत्परिविधुश्चत्वारिंशत् । चतुरङ्गुलोविस्तृतौ वृषणौ । षडङ्गुलं तावत्परीणाहं मेद्रम् । तन्मध्यत ऊरुः चतुरङ्गुलौ । तद्विगुणपरीणाहाङ्ङ्गुलिविपुले जानुनी । तद्विगुणपरीणाहं जङ्घाद्वयम् । पश्चाङ्गुलं चतुर्दशपरीणाहं द्वादश दीर्घौ षडङ्गलविस्तृतौ पादौ त्रिकायतौऽङ्गुष्ठौ । अङ्गुष्ठतुल्या प्रदेशिनी । तदर्द्धांशोनाः शेषाः । अङ्गुलचतुर्भागहीनोऽङ्गुष्ठनखः । तदर्धप्रमाणं प्रदेशिन्याः । तदष्टभागः शेषा णाम् । सर्वपादम्ङ्गलमष्ठांङ्गुलोन्सेधः । व्यङ्गुले पाष्णीं चतुरङ्गुलोच्छ्रयौ इति हंसप्रमाणं भवति । भवंति चात्र ॥ शेषाणां पार्थिवेन्द्राणां मानं युक्त्या प्रकल्पयेत्। अनेनैवानुसारेण स्वमानस्याप्यनुसारतः॥१॥ मध्वक्षश्चन्दगौरस्तु नागराजसुजो बली। हंसगामी सुमध्यश्च हंसश्च सुमुखो भवेत् ॥ ॥२॥ रोमरुद्धकपोलस्तु गजगामी महामतिः ॥ वृतोपचितबाहुस्तु भद्रः पद्माननो भवेत् ॥३॥ मुद्रश्यामस्तु मालव्यः कृशमध्यस्त्वकृशविः ॥ आजाजुबाहुः पीनांसो दन्तिघोणो महाहनुः ॥ ४ ॥ शशाङ्करश्मिरस्तु रुचक्रः कम्बुग्रीवो महामतिः ॥ सत्यस्तु सिकताश्वैव बलवर्यश्च प्रकीर्तितः ॥ ५ ॥
१ कोष्ठान्तर्गतः पाठो नास्ति बहुपुस्तके २ 'चतुरङ्गुलायामं'इति ख० । ३ 'मध्यकुन्द'इति ख० । ४ 'कृशमध्यतुलङ्घ्रिः'इति ख० ।