विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 757, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध०
॥३३॥
आप्यायनं परं ह्येतत्कथितं तु दिवौकसाम् ॥२४॥ एतदेव हि देवत्वं दीव्यतां सततं दिवि ॥ पुष्ट्यन्नैवैद्यदानेभ्यो नृत्तदानं विशिष्यते ॥ २५ ॥
स्वयं नृत्तेन यः कुर्याद्देवदेवस्य पूजनम् ॥ विशेषेण महाभाग तस्य तुष्यति केशवः ॥ २६ ॥ नृत्तं गीतं तथा वाद्यं दत्त्वा देवाय विष्णवे ॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ २७ ॥ नृत्तेन धृतिं यः कुर्यात्स तु वर्ज्यः प्रयत्नतः ॥ कुशीलावधयैः कुर्यान्नृत्तनैमित्तिकान्यकः ॥ २८ ॥
देवतायाश्चनं कुर्यान्नृत्तं नृत्तेन धर्मवित् ॥ स सर्वकामानाप्नोति मोक्षोपायं च विन्दति ॥ २९ ॥ धन्यं यशस्यमायुष्यं स्वर्गलोकप्रदं तथा ॥
ईश्वराणां विलासं तु चार्तानां दुःखनाशनम् ॥ ३० ॥ मूढानाम्बुद्धिवृद्धेश्च तत्क्षीणां सौभाग्यवर्धनम् ॥ शान्तिकं पौष्टिकं काम्यं वासुदेवेन
निर्मितम् ॥३१॥ एतावदुक्तं तव नृत्तशास्त्रं समासतो लोकहिताय राजन् ॥ नृत्तेन यत्नः पुरुषेण कार्यों लोकद्वयञ्जेतुमभीप्सता वै ॥ ३२ ॥ इति
श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तशास्त्रवर्णनो नाम चतुस्त्रिंशत्तमोऽध्यायः॥३४॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि चित्र
सूत्रं तवानघ॥उर्व्वंशी सृजतः पूर्वं चित्रसूत्रं नृपात्मज ॥१॥ नारायणेन मुनिना लोकानां हितकाम्यया ॥ प्राप्तानां वञ्चनार्थाय देवस्त्रीणां महामुनिः ॥ २॥
सहकाररसं गृह्य उर्व्या चक्रे वरस्त्रियम् ॥ चित्रेण सा ततो जाता रूपयुक्ता वराप्सराः ॥ ३ ॥ यां दृष्ट्वा व्रीडिताः सर्वा जग्रमुस्ता देवयोषितः ॥
एवं महामुनिः कृत्वा चित्रं लक्षणसंयुतम् ॥ ४ ॥ ग्राहयामास स तदा विश्वकर्माणमच्युतम् ॥ यथा नृत्ते तथा चित्रे त्रैलोक्यानुकृतिः स्मृता
॥ ५ ॥ दृष्टयश्च तथा भावा अङ्गोपाङ्गानि सर्वशः ॥ कराश्च ये महादत्ते पूर्वोक्ता नृत्तसत्तम ॥ ६ ॥ त एव चित्रे विज्ञेया नृत्तं चित्रं परं मतम् ॥
नृत्ते प्रमाणं येनोक्तं तत्त्ववद्व्याहतः शृणु ॥ ७ ॥ हंसो भद्रोऽथ मालव्यो रुचकः शशकस्तथा ॥ विज्ञेयाः पुरुषाः पञ्च तेषां वक्ष्यामि लक्षण
म् ॥ ८ ॥ उच्चैश्चायमम तुल्यस्ते सर्वे ज्ञेयाः प्रमाणतः ॥ स्वेनैवाङ्गुलमानेन शतमष्टाधिकं भवेत् ॥९॥ प्रमाणं नृप हंसस्य भद्रस्य तु षडुत्तरम् ॥
चतुरशीत्यधिकं ज्ञेयं मालव्यस्य तथा नृप ॥ १० ॥ शतं च रुचकस्योक्तं दशोने शशकस्य च ॥ द्वादशाङ्गुलिविस्तारस्ताल इत्यभिधीयते ॥ ११ ॥
अङ्गुलन्वन्तमुत्तमांगं पादोत्थञ्चायः प्रकीर्तितः ॥ द्वौ च तालौ तथा जङ्घे पादतुल्ये च जानुनी ॥ १२ ॥ जंघातुल्यौ तथा चोरू नाभिस्तालं तु
मेढ्रतः ॥ तावन्न नाभिमेद्ध्यं हृदयात्कक्ष्व एव च ॥ १३ ॥ कण्ठस्तालत्रिभागः स्यात्तालं च वदनं भवेत् ॥ तालषड्भागमप्युक्तं ललाटोपरि
मस्तकम् ॥ १४ ॥ मध्यं मेढ्रं तु विज्ञेयमिति दैर्घ्यं प्रकीर्तितम् ॥ तालः प्रोक्तः करौ राजनूबाहु सप्तदशाङ्गुलौ ॥ १५ ॥ प्रबाहू तावदेवोक्तौ वक्षसो
धर्म्याष्टकम् ॥ एतदायाममतः प्रोक्तं मानं हंसस्य पार्थिव ॥ १६॥ अनेनैवानुसारेण शेषाणामपि कल्पयेत्॥ आयामपरिणाहाभ्यां समाः सर्वे नराधिपा॥१७॥
तृ० खं०
अ० ३६
॥३३॥