विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 758, कुल 1001 में से
संदर्भ में पढ़ेंतु विज्ञेयो नियोगो नृप इष्यते ॥ १२३ ॥ एतावदुक्तं नृप नृपशास्त्रं समासतः पार्थिववंशसूनो ॥ निःशेषमेतद्वदितं महार्थं विस्तारतः सर्वजग- त्प्रधानम् ॥ १२४॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ॥ नृपशास्त्रोद्धारो नाम त्र्यत्रिंशत्तमोऽध्यायः ॥ ३३ ॥ वज्र उवाच ॥ नृत्तमुत्पादितं केन ऋषिणा दैवतेन वा ॥ एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥ १ ॥ मार्कण्डेय उवाच ॥ एकार्णवे पुरा लोके नष्टस्थाव- रजङ्गमे ॥ शेषपर्यङ्कशयने सुप्ते मधुनिषूदने ॥ २ ॥ संवाह्यमानचरणे लक्ष्म्या मुकुलितेदृशि ॥ नाभ्यां तस्य समुत्पन्नं पद्मं पद्मनिभेशण ॥ ॥ ३ ॥ तत्र जातः स्वयं ब्रह्मा देवैः सुभवतुर्मुखः ॥ देवैः सह महाभाग सशरीरैर्नराधिप ॥ ४ ॥ पद्मोदविन्दु- सम्भूतौ तत्रैव मधुकैटभौ ॥ रजस्तमोमयौ घोरौ दानवौ तौ भयानकौ ॥ ५ ॥ ततो जगृहतुर्वेदान्ब्रह्मणस्तो नराधिप ॥ हत- वेदस्ततो ब्रह्मा तुष्टाव मधुसूदनम् ॥ ६ ॥ वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ॥ दानवापहृता वेदा अन्धीभूतोऽतोस्मि शत्रुहन् ॥ ७ ॥ एवमुक्तेस्तदा विष्णुरंशाणा पुरुषोत्तमः ॥ उत्थाय सलिलात्तस्माद्भश्रम सलिलाशये ॥ ८ ॥ अङ्गैरधैः सुललितैस्तथा पदपरिक्रमैः ॥ तथा भ्रमन्तन्तं देवं ददर्शायतलोचना ॥ ९ ॥ अतीव ललितं लक्ष्मीर्गीतज्ञा विशेपतः ॥ देवोऽप्यथशिरो भूत्वा पाताललगः क्षणात् ॥ १० ॥ स दैत्यान्दधृषान्वेदांस्त्वत्वाशीरशसतस्तुम ॥ जघान तौ महाकायो दानवौ मधुकैटभौ ॥ ११ ॥ हत्वा वेदसदाद्यस्तु सम्प्राप्तो ब्रह्मणोऽन्तिके ॥ ददौ वेदान्स्ततस्तस्मै देवदेवः स्वयम्भुवे ॥ १२ ॥ दत्वा वेदान्स्ततः प्राह सृष्टिं कुरु पितामह॥ वेदमृत्युतो ब्रह्मा सर्गं चक्रे ततः प्रभुः ॥ १३ ॥ शेषम्यङ्गागते देवे लक्ष्मीः पप्रच्छ पार्थिव॥ दृष्टम्भूयाव ॥ देवदेव जगन्नाथ शङ्खचक्रगदाधर ॥ १४ ॥ पारिक्रमं मया तोये दृष्टः सललितः प्रभो ॥ अतीव रमणीयाङ्ग किं तत्प्रब्रूहि मे प्रभो॥१५॥ श्रीभगवानुवाच॥ नृत्तमुत्पादितं ह्येतन्मया पञ्चनिभेशणे॥अङ्गैरहारैः सकरणैः संयुक्ते सपरिक्रमैः १६॥ सुरेनारायिष्यन्ति भक्तिमन्तस्तु मां शुभे ॥ त्रैलोक्यस्यानुकण्र्णं नृत्ते देवि प्रतिष्ठितम् ॥ १७ ॥ एतावदुक्त्वा तां देवी ब्रह्माणं वाक्यमब्रवीत् ॥ गृहाण नृत्तं धर्मज्ञ लक्ष्मलक्षणसंयुतम् ॥ १८ ॥ एतावदुक्त्वा ब्रह्माणं ग्राहयामास केशवः ॥ तद्वर्त्तयित्वा ततो ब्रह्मा ददौ रुद्राय वेधसे ॥ गृहीत्वा तच्च रुद्रोपि तोषयामास केशवम् ॥ तेन नृत्तेन सततं देवेशं भक्तवत्सलम् ॥ २० ॥ एवमुत्पादितं नृत्तं वासुदेवेन पार्थिव ॥ एकार्णवे पुरा लोके नष्टस्थावरजङ्गमे ॥ २१ ॥ ततः प्रभृति देवेशः शङ्करः शङ्करो नृणाम् ॥ नृत्तेनाराधयाञ्चस्ते देवं चक्रगदाधरम् ॥ २२ ॥ नृत्तेश्वरत्वं चागाप तुष्टाय मधुसूदनम् ॥ सोऽपि तुष्यति नृत्तेन सम्यगारार्धितो हरः ॥ २३ ॥ अन्ये च देवास्तुष्यन्ति सम्यक् नृत्तेन तोषिताः ॥
५३