भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 759, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 759

वि० सं० ॥३३०॥

तृ०खं० अ० ३३ ॥३३०॥

एवमध्येष्य संयुक्ता वीरमुद्रा प्रकीर्तिता ॥ ९९ ॥ एवमध्येष्य संस्यूतै भैरवी चापरा भवेत् ॥ द्वेऽन्योन्या तु संग्राह्या इत्यमध्येन संयुतम् ॥ १०० ॥ पृष्ठमध्येन च क्रान्तं स्तम्भनी चापरा भवेत् ॥ उत्सङ्गमध्यगा तु संग्राद्याहेममध्यव्येन चाहतम् ॥ १०१॥ पातालभञ्जनी नाम शुद्धमध्यपरा भवेत् ॥ तर्जन्यौ मध्यमा चैव तथा चैव त्वनामिकाम् ॥ १०२ ॥ मध्यपर्वसु संयुक्तां पृष्ठतः कारयेन्नरः ॥ शङ्खमुद्रेयमुद्दिष्टा पूर्वमुक्ता तथपरा ॥ १०३ ॥ प्रसार्य सर्वाश्वाङ्गुल्यः कण्ठपृष्ठे च योजयेत् ॥ चक्रमुद्रा भवेत्सेषां पूर्वमुक्ता तथपरा ॥ १०४ ॥ कटिभागप्रदेशे तु मुष्टिस्तु विशिखा भवेत् ॥ गदा मुद्रा भवेत्त्येषा सर्वविघ्नप्रणाशिनी ॥ १०५ ॥ अन्योन्याभिमुखौ कृत्वा करौ संवेष्टिताङ्गुली ॥ सह्वाह्वेन निदिष्टा मुद्रा कौस्तुभसंज्ञिता ॥ १०६ ॥ संस्पृश्य वेतिक्षिपिकां वामचक्रिणकं स्पृशेत् ॥ इयं मुद्रा विनिर्दिष्टा वनमालेति पार्थिव ॥ १०७ ॥ अनामीनौरंतरे द्वव्ये संजं द्वव्य कूर्कुट्ये ॥ जंघामध्यगतौ कृत्वा चिबुकौडर्घसमुद्यतौ ॥ १०८ ॥ मुखं विधृतकं कुर्याज्ज्वलजिह्वा तु लेलिहा ॥ एषा मुद्रा महामुद्रा नारसिंहेति कीर्तिता ॥ १०९॥ अङ्गुष्ठं मुदिना ग्राह्यं हृत्प्रदां परिकीर्तिता ॥ मुष्टिं बद्ध्व चाङ्गुष्ठं तिर्यग्भं कारयेच्छिरः ॥११०॥ स्पृष्ट्वा तु तर्जनीमुष्ठौ शिरसामुद्रा प्रकीर्तिता ॥ तर्जनीप्रान्तसंस्पृष्टे द्वे सृष्टी कवचं भवेत् ॥ १११॥ सृष्टी बद्ध्वा तु हस्तौ द्वे उभयोरंसयोजितौ॥ गदामुद्रा समाख्याता सर्वकर्मकरी शुभा ॥ ११२॥तार्जनी तु तथाङ्गुष्ठं प्रातिष्ठित्तौ तु कारयेत् ॥ शेषाः प्रसारिताङ्गुल्यो नेत्रमुद्रा भवेन्नृप ॥ ११३॥उत्तानमूर्ध्वोऽञ्जलीं कृत्वा तर्जन्यन्तानां सप्त श्ग्रवातामध्यम्यौ चोत्रितौ कृत्वा अङ्गुष्ठौ क्षेपिताौ समौ ॥ ११४॥एषा मुद्रा समाख्याता दिव्या च शिरसो नृप॥अञ्जलिः प्रमदा मुद्रा क्षिप्रं देवम सातितम् ॥ ११५॥ वन्दने हृदया मग्ना पूर्वदक्षिणतोऽपरा ॥ ऊर्ध्वोऽङ्गुष्ठौ वामसव्यैर्दिक्षणोऽङ्गुष्ठबन्धनः ॥ ११६॥ संन्यस्य तस्य चाङ्गुष्ठौ यस्या ऊर्ध्वं प्रतिष्ठितम् ॥ वासुदेवस्य मुद्रेषा बद्धा स्थापनघातिनी ॥ ११७ ॥ हस्तयोरुभयोरेव कनिष्ठाङ्गुष्ठगर्भेको ॥ शेषाः प्रसारिताः स्थिता मुद्रा सङ्कर्षणस्य तु ॥ ११८ ॥ तर्जन्यावधतः स्थिता समाङ्गुष्ठा तु लेलिता ॥ एषा मुष्टि ततः कृत्वा मुद्रा प्रद्युम्नसंज्ञिका ॥ ११९ ॥ अङ्गुलीं वलितां यत्र सूपकणगौ तु कारयता। वेष्टयाङ्गुष्ठमध्यस्थः कार्यवनिर्निरुद्ध तु कारयेत् ॥ १२० ॥ इत्युद्देशे तु ते प्रोक्ता मुद्राहस्ता मया नृप ॥ दर्शनेनन्त्व युक्तानां परां सिद्धिमभीप्सिताम् ॥ १२१॥ यथामन्त्रं यथादेवं यथाविधिविनिर्दितः ॥ मन्त्रैर्मुद्रेवतायुक्ता बहवो मुद्राः प्रकीर्तिताः ॥ १२२॥ तासां मन्त्रं


१ 'शिखरे वामदक्षिणकम्' इति ख० । २ 'कण्ठामे नामतो' इति ख० । ३ 'उच्चार्य' इति 'कूर्कुटो' इति ०ख। ४ 'लोहिता' इति ख० । ५ 'हृन्मुद्रा' इति ख० । ६ 'मध्यामौ वह्निगौ' इति ख० । ७ 'तर्जन्या नम' -इति ख० ।