विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 760, कुल 1001 में से
संदर्भ में पढ़ेंउत्तानी तूसतौ हस्तौ कृत्वाङ्गुष्ठौ तु कुञ्चितौ ॥ मध्यसंस्थौ करौ कृत्वा आवाहन्यास्तु लक्षणम् ॥ ७५ ॥ अङ्गुष्ठौ कुञ्चितौ द्वौ तु स्वकीयाङ्गु लिवेष्ठितौ । ऊर्ध्वो चाभिमुखौ हस्तौ योजयित्वा तु रीङ्गण ॥ ७६ ॥ उत्तानं दक्षिणाङ्गुष्ठं वामाङ्गुष्ठेन वेष्टयेत् ॥ भ्रामयेद्दुर्लभा मुद्रा मुद्रा प्रोक्ता विसर्जने ॥ ७७ ॥ विस्रस्तिसद्गयसंयोगाद्गङ्गामुद्रा प्रकीर्तिता ॥ सृष्टिः प्रभासिता ज्ञेया लिङ्गमुद्रा तथैव च ॥ ७८॥ सन्दष्टे मार्जितोबष्ठौ जीर्णमुद्रा प्रकीर्तिता ॥ प्रसारितौ भुजौ कृत्वा भुजाग्रे कुञ्चितौ तथा ॥ ७९ ॥ अप्राप्यौ कुञ्चितांशेन कल्पहृक्षसत्रिभौ ॥ तर्जनी कुञ्चितां कृत्वा अङ्गुष्ठोपरि विन्यसेत् ॥ ८० ॥ निक्कुब्जौ बाहुदण्डौ तु बन्धीयाच्च पृथक्पृथक् ॥ क्षेपिणी नाम मुद्रेषा कथिता सूर्यदेवता ॥ ८१ ॥ पद्माकारौ करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलिः ॥ अङ्गुल्या कारयेत्तस्मिन्त्रिष्वङ्गुलि प्रकीर्तिता ॥ ८२ ॥ सम्मुखौ तु करौ कृत्वा संश्लिष्टौ ग्रथिताङ्गुलीः ॥ कनिष्ठामध्यमे योज्यौ तर्जन्यौ मध्यमे तथा ॥ ८३ ॥ हृदि मूर्ध्नि शिखाबन्धे मूर्द्धे व्योमसंज्ञिता ॥ मूर्ध्निन्योच्छ्रितां कृत्वा मध्यहस्तस्य तर्जनीम् ॥ ८४ ॥ तारेशचन्द्वदन्तासौ तु मुद्रा चान्द्रम्य कीर्तिता ॥ मध्यमा तर्जनी चैव स्पृष्टहस्तस्य चोच्छ्रिते ॥ ८५ ॥ कनिष्ठानमिके कुब्जे साङ्गुष्ठेनैव संज्ञिता ॥ नेत्रप्रदर्शिता ज्ञेया गोपुच्छागमने तथा ॥ ८६ ॥ उत्तानौ तु करौ कृत्वा सर्वाङ्गुल्यो विकुञ्चिताः ॥ कृत्वा चोपरि चाङ्गुष्ठं चालयेत पुनः पुनः ॥ ८७ ॥ सर्वासानेव शक्तीनां सर्वज्ञा मुद्रप्रकीर्तिता ॥ दीप्ता मुद्रेयमाख्याता मृदा विसर्जितामला तथा ८८ ॥ अमोघा विहृता चैव नवमा सर्वतोमुखी ॥ इति नामानि शक्तीनां सर्वसस्यानि निर्दिशेत ॥ ८९ ॥ सम्मुखौ तु करौ कृत्वा श्लिष्टौ चैव प्रसारितौ ॥ इयं मुद्रा नमस्कारे रवि सान्निध्यकारिणी ॥ ९० ॥ अनामिकाग्रिकायाः सन्दंशो रविसुद्रा प्रकीर्तिता ॥ सोममुद्रा मध्यकया भौममुद्रा धनाग्रया ॥ ९१ ॥ कनीयस्या बुधे मुद्रा उत्फुल्ले जीवसंज्ञिता ॥ अनामिका सुलगा तु शुक्रमुद्रा प्रकीर्तिता ॥९२ ॥ मध्यमासुलगाङ्गुष्ठा शनिमुद्रा प्रकीर्तिता ॥ ९३ ॥ तर्जनीमूलगाङ्गुष्ठे राहु मुद्रा प्रकीर्तिता ॥ ९३ ॥ तर्जनी चलनाज्ज्ञेया केतुमुद्रा नराधिप ॥ वासस्तेन शिरस्यः कौचमुद्रा प्रकीर्तिता ॥ ९४ ॥ सम्पुटौ तु करौ कृत्वा बाधोल्ङ्ख्यां नराधिप ॥ एषा वराहमुद्रा तु सर्वकर्मकरी शुभा ॥ ९५ ॥ वामेन वेष्टितो हस्तौ दक्षिणा भैरवी भवेत् ॥ हस्तद्विधौ कुर्याद्यत्र हृद्विद्यापस्तथा भवेत् ॥ ९६ ॥ पातालगासिनी नाम मुद्रेषा कथिता नृप ॥ कंपित्थानाममनामिका दीर्घस्तम्भनी तु निगद्यते ॥ ९७ ॥ करमध्यगतु संत्राणिमिव मध्येन चाहतम् ॥ एवं मध्यन संयुक्ता क्रोधिनी परिकीर्तिता ॥ ९८ ॥ सहमध्या तु संप्राह्या स्वतमध्ये द्विहस्तम् ॥
१ 'विध्यम्यभिमतांगुली' इति ख० ।