विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 763, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥३२८॥ तृ० खं० अ० ३३ ॥३२८॥
स्तात्त्रिलोचन मे ॥ इति श्रीवि०ध०सं०तृतीयखण्डे रहस्यमुद्रावर्णनो नाम द्वात्रिंशत्तमोऽध्यायः॥ ३२॥ मार्कण्डेय उवाच॥ उत्तानं तु करं कृत्वा चतुरंगुलिकुञ्चितम् ॥ अंगुष्ठपर्वतो योज्यो भस्ममुद्रा प्रकीर्तिता ॥ १॥ सा तिसृर्भिस्त्वंगुलिभिर्लङ्गमद्रा प्रकीर्तिता ॥ अंगुल्यस्त्रयः सङ्कोच्या ग्रांगुष्ठपरिसंस्थिताः ॥ २ ॥ तर्जनीं प्रसृतां कृत्वा जटामुद्रा प्रकीर्तिता ॥ ३ ॥ वेणुमुद्रा गदा तस्यां नेत्रांन्ते तर्जनी भवेत् ॥ ३ ॥ बन्धस्यौ तु प्रकुर्वीत चांगुष्ठं प्रसृतं तथा ॥ ५॥ उत्तानं मुष्टिं संयोज्य शशाङ्कं तु विनिर्दिशेत् ॥४॥ अंगुल्यः प्रसृताः सर्वा वर्तूलाः शृङ्गरूपकाः ॥ मूत्तिं कृत्वा तु तां मुद्रां गोवृषं तु विनिर्दिशेत् ॥ ६ ॥ तिर्यक्कृत्वा तु तं हस्तं सर्वसङ्कुचितांगुलिम् ॥ अंगुष्ठं मध्यमार्थेणपर्यस्तं तु विनिर्दिशेत् ॥ ६ ॥ कनिष्ठिकां सङ्कुचितामंगुष्ठापरि विन्यसेत् ॥ कनिष्ठिकामिकामध्यं दशांगुष्ठं प्रकीर्तितम् ॥ ७ ॥ उत्तानौ तु करौ कृत्वा अन्योन्यान्तरितांगुली ॥ कनिष्ठिकान्तरे चांगुष्ठमन्तर्नि प्रकीर्तिता ॥ ८ ॥ उत्तानं दक्षिणं हस्तं तथो वामं तथोपरि ॥ करजान्योन्यसंयोगाद्दक्षस्य परिकीर्तिता ॥ ९ ॥ सा चैव विपरीता तु ज्ञानस्य परिकीर्तितम् ॥ कनिष्ठिके द्वे चांगुष्ठौ युग्मीकृत्या प्रसारयत् ॥ १० ॥ वैराग्यस्य भवेन्मुद्रा सर्वकर्मकरी शुभा ॥ पृष्ठे पृष्ठं तु संयोज्य करयोरुभयोरपि ॥ ११ ॥ कनीन्यङ्गुष्ठयोगेन भवेत्तथैवामेव च ॥ पद्माकारौ भवद्धस्तः कनिष्ठान्तर्जनीयुतः ॥ १२ ॥ चतस्र उच्च्छ्रिताः कृत्वा पृष्ठेन्योन्यं तु योजयेत् ॥ अंगुष्ठविकृतः कृत्वा प्रणालं चैव कारयेत् ॥ १३ ॥ सकलस्य भवेन्मुद्रा इयंनार्णा शमनी शुभा ॥ त्रयः सङ्कोचिता यत्र कनिष्ठांगुष्ठकर्कलाः ॥ १४ ॥ उत्तान दक्षिणांगुष्ठं वामांगुष्ठेन वेष्टयेत् ॥ दक्षिणांगुलिभिश्चात्र वामांगुष्ठं तु वेष्टयेत् ॥ १५ ॥ वामस्यांगुलिभिर्भयान्न लघुलौ परिवेष्टयेत् ॥ तर्जन्यों कुञ्चितौ कृत्वा मुद्रा निष्कळारूपिणी ॥१६॥ उत्तानौ तु करौ कृत्वा अंगुष्ठांगुलिकुञ्चितौ ॥ कस्यचत्त्यस्थिता ह्येता नखस्तांसां तु गोपयेत् ॥ १७ ॥ पृष्ठे पृष्ठे तु संयोज्य त्वंगुष्ठौ विन्यसेत्समम् ॥ मालाकारं ततः कृत्वा दूत्या मुद्रा प्रकीर्तिता ॥ १८ ॥ अंगुष्ठगुष्ठेके योज्यः कनिष्ठियां कनिष्ठिका ॥ करमथ्यं तु तां कृत्वा पद्माभ्यमीरुतेः कुरु ॥ १९ ॥ संकुच्य तु पदान्तानि शस्याकारं तु कारयेत् ॥ स्कन्दस्य तु स्मृता मुद्रा अथैषा त्रिदशैरपि ॥ २० ॥ अधोमुखं करं कृत्वा तिलाङ्गल्यग्रं कुञ्चिताः ॥ विताला मध्यमा तत्र किंचित्सङ्कोचिता भवेत् ॥ २१ ॥ तर्जन्यां योजयेदंगुष्ठं दन्ताकारं तु दर्शयेत् ॥ विघ्नराजस्य मुद्रेषा सर्वविघ्नप्रणाशिनी ॥ २२ ॥ उत्तानौ प्रसृतौ हस्तौ तर्जन्यङ्गुष्ठसंहतौ ॥ अस्य वामौ तु संयोज्य शङ्खमुद्रा प्रकीर्तिता ॥ २३ ॥ संकोच्य करजां मध्यां हस्तयोरुभयोरपि ॥ प्रसृताङ्गुष्ठसुप्तानां योज्या मुद्रा हुताशने ॥ २४ ॥ अर्धमुखं करं कृत्वा यस्य स्यात्कुंचितांगुलिः॥
१ 'कनीयामागुष्ट' इति ख० । २ 'योजगोष्ठे' इति ख० । ३ 'संयुतौ'-इति ख० । ४ 'सङ्कोशां' इति क० 'सकोरा' इति ख० ।