भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 765, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 765

वि० ध० ॥३२४॥

तृ० खं० अ० ३० ॥३२४॥


चौर्यादिजातसम्भ्रान्तस्य ग्लानिः कार्या प्रयोक्तृभिः ॥ ३६ ॥ वातप्रायस्तथोन्मादो यथा ज्ञेयो वियोगजः ॥ असमवेक्ष्याप्रलापेन तस्याभिनयकारणम् ॥ ३७ ॥ व्याधिभिर्वा प्रहारैर्वा मरणं नाम जायते ॥ कर्तव्योऽभिनयस्तस्य मूढेन्द्रियविवेचनैः ॥ ३८ ॥ महाभैरवनादाच्चैत्रासः समुपजायते ॥ संक्षिप्ताङ्गप्रकम्पाभ्यामेतस्य त्वभिनयो भवेत् ॥ ३९ ॥ विचाराणाञ्च सन्देहः कार्यो भ्रूक्षेपकम्पनैः ॥ क्रोधादुपशयाद्भवति क्रोधाच्चाभिनयदर्शनः ॥ ४० ॥ मद्योपशमजोज्ञेयो हर्षग्लानिनयात्मकः ॥ मनोवृत्त्यात्मजो हर्षो रोमाञ्चेन प्रदर्शयेत् ॥ ४१ ॥ भीतिक्रोधेष्व उभये रोमाञ्चस्य समुद्भवः ॥ स्वरभेदो भयाद्धास्यत्रासभेदेन दृश्यते ॥ ४२ ॥ शोकानन्दसमुद्भूतम् अश्रु स्याद्रोदनेन तु ॥ वर्णाविपर्ययाद्भिन्नेयं वैवर्ण्यं नाट्ययोगिभिः ॥४३॥ वैवर्ण्यनापिनेतव्यं प्रयत्नाद्धि दुःखरूप ॥ ४४ ॥ ग्लानिः शङ्काऽभ्यसूया च श्रमश्चापलता तथा ॥ ४५ ॥ रोमाञ्चहर्षे निद्रा च उन्मादो मद एव चा¹॥ स्वेदश्चैव विहिताश्च भावा हास्यरसे स्मृताः ॥ ४६ ॥ आलस्योग्रत्वजुगुप्साऽविभावा हि परिकीर्त्तिताः ॥ उद्वहन्ति शृङ्गारे रसमास्वादसंश्रयम् ॥ ४६ ॥ स्वेदश्चैव च चिन्ता च दैन्यग्लान्यनुपातनम् ॥ जडता मरणं चैव व्याधिश्च करुणारसे ॥ ४७ ॥ असम्मोहस्तथोन्मादो विषादो मद एव च ॥ असूयाऽव्यभिचारं चैव भावा बीभत्सरसंश्रयाः ॥ ४८ ॥ स्तम्भः स्वेदश्च रोमाञ्चो जुगुप्सा विस्मयस्तथा ॥ प्रवेगो जडता हर्षोऽसूया त्वद्भुते रसे ॥ ४९ ॥ स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा ॥ मतिश्चैव तथोन्मादोऽमर्षो मद एव च ॥ ५० ॥ रोमाञ्चः स्वरभेदश्च क्रोधाऽसूया धृतिस्तथा ॥ गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति वै ॥५१॥ ये चान्ये सात्त्विका भावा नानाभिनययोजिताः ॥ रसेष्वेतेषु ते सर्वे विज्ञेया नाट्यकोविदैः ॥५२॥ बहूनां समवेतानां रूपं यस्य भवेद्बहु ॥ स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणः स्मृताः ॥ ५३ ॥ शृङ्गारे त्रिविधं विद्याद्वाग्नेपथ्यक्रियात्मकम् ॥ अङ्गनेपथ्यभावश्च हास्यरौद्रौ प्रकीर्तितौ ॥५४॥ धर्मार्थश्चानुघातेन करुणो द्विविधः स्मृतः ॥ युद्धवीरे दयावीरे दानवीरे तथैव च ॥ ५५ ॥ रसं वीरमिति प्राहुस्तज्ज्ञाश्चोभयसम्भवे च ॥५६॥ व्याजात्त्रासापराधे च त्रिधा विद्याद्भयानकम् ॥ ५६ ॥ न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगजम् ॥ भावो वापि रसो वापि प्रवृत्तिरितरेण च ॥५७॥ एकोनपञ्चाशदिमे सप्रभावा ह्यवस्था गदिता मया ते ॥ युक्त्या च ये यत्र रसे नियुक्ताः प्रोक्तं तदग्र्यं नृपसुप्रसन्नम् ॥ ५८॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे एकोनपञ्चाशद्भावनिरूपणो नामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥


श्रीमार्कण्डेय उवाच ॥ अथातो मुद्रास्ता व्याख्यास्यामः ॥ वामस्य प्रसारिताङ्गुष्ठस्योपरि यदा कुञ्चिततर्जनी भवति तदोद्वेगकरः ॥ करमध्य


¹ 'एव च' इति क० । २ खपुस्तके तु नास्त्येतत् ।