विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 766, कुल 1001 में से
संदर्भ में पढ़ेंउद्वेगोऽसहस्तैर्ह्यभिनयो विष्णौ ॥ दारिद्र्याद्दारिविनाशो च निर्वेदो नाम जायते ॥ १७॥ परस्पराविभिः शास्त्रैस्तस्याभिनयक्रिया ॥ वान्ते विरक्ते श्रान्ते च ग्लानिः स्यात्तपसा तथा ॥ १८॥ मन्दक्रिमशक्तकम्पाद्यैः क्षामत्वेन च दर्शयेत् ॥१९॥ चौर्यादिभिर्गृहीतस्य शङ्का नामेह जायते ॥ आकारावरणं तस्याः कार्यं दिगवलोकनम् ॥ परापराधसम्भूत असूया नाम जायते ॥ १४ ॥ गुणनशनिविद्वेषैः साभिनेया तथा बुधैः ॥ मदोपयोगेन मदो जायत च त्रिमस्तथा ॥ १६ ॥ उत्तमाधममध्यत्वाद्रूपगुणां स्वभावतः ॥ दृष्टगर्वोन्नतमत्तमानं स्यान्मध्यमानां वाक्यह्लापतः ॥ १७ ॥ अधमानां च पतनेरसम्बद्धप्रलपनैः ॥ आयासैर्नायनाभ्याञ्च श्रमो नामेह जायते ॥ १७॥ गात्रमर्दनिःश्वासैज्जृम्भणैस्तत्प्रयोजयेत् ॥ गर्वेण खेदद्रोगेण ह्यालस्यं स्यात्स्वभावतः ॥ १८ ॥ तस्य प्रयोगः कर्तव्यः शयना१सनसेवनात् ॥ २० ॥ दौर्गत्येन मनस्तापाद्देन्यं नामेह जायते ॥ १९॥ हृदयस्य वितर्कण तस्य त्वभिनयो भवेत् ॥ अभ्यन्तरे तस्कराद्दृष्ट्वा त्रासनैर्निर्विचेष्टतया ॥ २० ॥ तत्प्रतीकारशून्यस्य मोहः समुपजायते ॥ व्यसनेनाभिघातेन वेगात्स्मरणेन च ॥२१॥ सर्वेन्द्रियाणां मोहेन स तु कार्यः प्रयोक्तृभिः ॥ स्मरणात्पूर्ववृत्तानां स्मृतिर्नामेह जायते ॥ २२ ॥ भृभ्रूसुश्लेषणात्तस्याः प्रयोगः कार्यलोचनात् ॥ लोके वृत्तान्तविज्ञानाद् धृतिर्नामेह जायते ॥ २३ ॥ प्रयोक्तव्यो लब्धभोगेन अलब्धस्य विवर्जितम् ॥ क्रीडा नामेह भवति चापल्याद्धर्षसम्भवा ॥ २४ ॥ क्रीडनेन प्रयोक्त्या सा गुरुवाक्यप्रतीक्रमैः ॥ कृताकार्यस्य राजेन्द्र ब्रीडा नामेह जायते ॥२५॥ अधोमुखेन सा कार्या मूले स्वीकरणेन च ॥ ज्ञेया चपलता राजन् विचार्या क्रिययावता ॥ २६ ॥ अयमेव प्रयोगस्य तथैव समुदाहृतः ॥ मनोरथानां लाभे तु हर्षो नामेह जायते ॥२७॥ मुखप्रसादरोमाञ्चस्वेदैरभिनयेद् बुधः ॥ सम्भ्रमाज्जायते राजन्नावेगो इति सर्वदा ॥२८॥ आः शब्दैः सहसानर्थ्या दर्शनेण भुविस्थे ते ॥ विषादस्य समुत्पत्तिः कार्यनाशेण जायते ॥ २९ ॥ निद्रा निःश्वसितन्याजैः साभिनेया तथा भवेत् ॥ उक्त ण्ठाकरणैः संवेरात्सुखैयं नाम जायते ॥ ३० ॥ आलस्यजृम्भणोत्तत्वे ध्यानेनाक्षिनिमेषैश्च तत् ॥ रात्रिजागरणग्लान्याश्रमदैरिनिद्रं तु जायते ॥ ३१ ॥ नेत्राभिमर्दनात्कार्या जृम्भणा गात्रगौरवात् ॥ अपस्मारस्तु भवति देवादीनां प्रकोपततः ॥ ३२ ॥ निःसंज्ञत्वं समृद्धानि तस्येह्याभिनयो भवेत् ॥ निद्रासमर्थं सुतत्वं स्वप्नं तत्र योजयेत् ॥ ३३ ॥ निद्रोच्छेद्वोदि बोधन्तु जृम्भणं तत्र योजयेत् ॥ विधारशौर्यघनाद्यै२र्मर्षोनाम जायते ॥ ३४ ॥ शिरसः कम्पनैस्तस्य कार्यस्त्वभिनयो बुधैः ॥ धाष्ट्याद्यैर्हेतुभिस्सम्पत्तो ह्यवहित्थ्योभयात्मकः ॥ ३६॥ सर्वाङ्गोपगतत्त्कार्योऽभिनयो नर्तनेस्य च ॥
१ 'आस्याने' इति क० पुस्तके तु नास्त्येव ।
२ 'विघासाशौचेर्यधैय्र्ये:' इति पुस्तकान्तरे पाठः ।