विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 770, कुल 1001 में से
संदर्भ में पढ़ेंचेत ॥ ४३ ॥ शुकश्च शारिका चैव सूक्ष्मा ये चैव पक्षिणः ॥ शिरसाऽसन्नसंज्ञाभ्याः स्थूला ये च स्वभावतः ॥ ४४ ॥ पश्चाद्ब्रह्मादिदिव्येषु स्तेषामभिनयो भवेत् ॥ भूताः पिशाचा यक्षाश्च दानवा राक्षसास्तथा ॥ ४५ ॥ अङ्गहारैरभिनेयाः प्रत्यक्षा न भवन्ति ये ॥ प्रत्यक्षा श्चामिनेयाः स्युस्तयोर्योगः सविस्मयैः ॥ ४६ ॥ देवान्प्रणामकरणैः प्रत्यक्षे तु नराधिप ॥ परोक्षे विविधैश्चिह्नैरितरस्त्यानुकृष्णैः गुणैः ॥ ४७ ॥ संयोजितेन हस्तेन त्वरालेन शिरः स्पृशेत् ॥ नरोऽभिवादनं ह्येतत्केवलेनैव तथा स्त्रियाः ॥ ४८ ॥ महाजनं ससिखण्डं विदूषकंर्जनं तथा ॥ परि मण्डलसंज्ञेन हस्तेनाभिनयद्बुधः ॥ ४९ ॥ प्रवृत्तान्यूर्ध्वयोगेन वृक्षांश्चैव समुत्थितान् ॥ प्रसारिताभ्यां बाहुभ्यामुत्क्षिप्तस्याभ्यां प्रदर्शयेत् ॥ ५० ॥ ( समूहं सुमहत्सेनं बहुविस्तीर्णमेव च ॥ पताकाभ्यां तु हस्ताभ्यां योतिस्त्वाभ्यां प्रदर्शयेत् ॥ ) शौर्यं च धैर्यरूपं च गर्वमोदार्यमुच्छ्रयम् ॥ ललाटस्थानसंस्थेन त्वरालेन प्रदर्शयेत् ॥ ५१ ॥ प्रज्ञो देशमदाद्विद्धो करो तु मृगशीर्षिकौ ॥ विस्तीर्णशृङ्गोदस्तोष्णो योऽन्यो यस्तस्याडुपानृतम् ॥ ॥ ५२ ॥ अधोमुखोतानतलं हस्तं किञ्चित्प्रसारितम् ॥ कृत्वा चाभिनयो ज्ञे व विलग्याहं गृहं गृहम् ॥ ५३ ॥ कामातर्तिज्ज्वरितांश्चैव शापो पहतचेतसः ॥ तेषामभिनयः कार्य उच्छ्वासैः कम्पनेस्तथा ॥ ५४ ॥ प्रत्यक्षश्चाभिनयः कार्यों दोलाय्याः परिदोलने ॥ आकाशरचनानीह वन्ध्याग्यास गतानि च ॥ ५५ ॥ अपवारितकं चैव जनान्तिकमथापि च ॥ परस्सम्भाषणं यत्स्यात्तदाकाशवचः स्मृतम् ॥ ५६ ॥ अन्यैरश्रवणीयन्तु जनान्तित कमिहोच्यते ॥ अपवारितकं कुर्या पुनरुक्तं प्रचक्षते ॥ ५७ ॥ हस्तमन्तर्हितं कृत्वा त्रिपताकं प्रयोगतः ॥ जनान्तिके प्रयोगोऽयमपवारितकं तथा ॥ ५८ ॥ स्वभाषयैते चाभिनेय वाचा गूढश्च भवेत् ॥ वृद्धानां योजयेत्पाठ्यं गूढरूपलताक्षरम् ॥ ५९ ॥ असमग्राक्षरं चैव बालानां तु कलस्वनम् ॥ दीर्घो च्छ्वासयुतं ज्ञानं व्याधितानां तु योजयेत् ॥ ६० ॥ उच्छ्वासेन तु दीर्घेण मृत्युत्काले तु नाट्यवेत् । गात्रानिस्पंदभावेन सुतस्याभिनयो भवेत् ॥ सात्त्विक काभिनयं वक्ष्ये रसभावेषु पार्थिव ॥ ६१ ॥ एतावदभिधानेये तु तुभ्यं शक्यं मया पार्थिवसुखेषु वक्तुम् ॥ नाट्यं हि विश्वस्यः यतोऽनुकारं कृत्स्नं ततो वक्तुमशक्यमीश ॥ ६२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नामाष्टाविंशतितमोऽध्यायः ॥ २८ ॥ मार्क ण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि गीतानां लक्षणं तव ॥ स्वभावोनोऽङ्गजतौ कार्यं जाजुकटीरसम् ॥ १ ॥ युद्धचारी प्रचारेषु जाज्रुस्तनसमं न्यसेत् ॥ उद्वान्ते च क्षुधान्ते च तपःश्रान्ते रुजान्विते ॥ २ ॥ विह्वते चावहित्ये च तथोत्सुक्यसमन्विते ॥ शृङ्गारे चैव शोके च स्वच्छन्द
१ कोष्ठान्तर्गतः पाठः बहुपुस्तके नास्ति । २ 'पाठ्यम्'-इति क० । ५५