विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 774, कुल 1001 में से
संदर्भ में पढ़ेंप्रकीर्तिताः ॥ ९१ ॥ नानार्थरससंयुक्तं प्रयोगं कालसंश्रयम् ॥ विज्ञेयं नृत्तहस्तानां तेन नामिहितं मया ॥ ९२ ॥ आचिख्यासे जगन्तै च नियमस्थे जगद्विते ॥ मते प्रसङ्गे चिन्तायां नाभिनेयः करो भवेत् ॥ ९३ ॥ उद्वृत्तं सम्प्रवृत्तं च विचेष्टितमिति त्रिकम् ॥ क्रमेद् नृत्तहस्तानां विज्ञेयं च चतुर्विधम् ॥ ९४ ॥ कार्या ललितसञ्चारा नृत्तहस्तापरा बुधैः॥ लालित्यमेव विज्ञेयं नृत्तस्य प्रतिबोधनम् ॥ ९५ ॥ देशं कालं प्रयोगं च ह्यर्थयुक्तिमवेक्ष्य च ॥ हस्ता एते प्रयोक्तव्या नृणां च नर्तके ॥ ९६ ॥ हस्ता मयैते कथिता नृवीर सर्वं करायस्तमिदं हि नृत्तम् ॥ यन्नञ्च कार्यंस्तु करेषु तस्माच्चा- त्युल्लास्याभिनयोषयुक्तम् ॥ ९७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नृत्तहस्तव्यवस्थानिर्णयो नाम षड्विंशतितमो ऽध्यायः ॥ २६ ॥ मार्कण्डेय उवाच ॥ वाचिकश्च तथा ज्ञेयस्त्वाङ्गिकस्सात्त्विकस्तथा ॥ चतुष्प्रकारोऽभिनयः कीर्तितो नाट्यकोविदैः ॥ ॥ १ ॥ वाचिको वचसा प्रोक्तः शृणु हार्यं नराधिप ॥ चतुर्विधं तु विज्ञेयं पुस्तलङ्कार एव च ॥ २ ॥ तथाऽङ्गरचना चैव ज्ञेया सञ्जीवमेव च ॥ मृदा वा दारुणा वापि वस्त्रेणाप्यथ चर्मणा ॥ ३ ॥ लोहैरङ्कुरितैर्वापि पुस्त इत्यभिधीयते ॥ देवदान- वयक्षाणां गजाश्वमृगपक्षिणाम् ॥ ४ ॥ कार्याणि प्रतिशीर्षाणि नाट्यज्ञैः पुस्तकर्मणा ॥ अलङ्कारस्तु विज्ञेयो माल्याभरणवाससाम् ॥ ५ ॥ नानाविधः समायोगो ह्यङ्गोपाङ्गविनिर्गतः ॥ तञ्च कार्यो नृपो बुद्ध्या नियोगं जातिमेव च ॥ ६ ॥ आधिपत्यं तथा स्थानं देशं च नृपसत्तम ॥ अतोऽङ्गरचनां तुभ्यं वक्ष्यामि नृप वर्णनाम् ॥ ७ ॥ श्वेतो रक्तस्तथा पीतः कृष्णो हरितमेव च ॥ मूलवर्णाः समाख्याताः पञ्च पार्थिवसत्तमा ॥ ८ ॥ एकद्वित्रिसमयोगाद्भावकल्पनया तथा ॥ सदृश्यैर्वान्तरवर्णानां लोके कर्तुं न शक्यते ॥ ९ ॥ अत्यर्थंसमयोगाव्लोकेऽहं नृपपुङ्गव ॥ विभागं सम्प्रवक्ष्यामि वर्णानां श्यामगौरोर्योः ॥ १० ॥ द्विमभाग रुचिरैर्यस्मात्सर्वस्येह प्रकीर्तिता ॥ गौरो पृथग्विधा तत्र श्यामा द्वादशधा भवेत् ॥ ॥ ११ ॥ रुक्मगोरी दन्तगोरी स्फुटचन्दनगौरिणि ॥ शरदघनचन्द्रकन्दोदरी पृथग्विधा स्मृता ॥ १२ ॥ रक्तश्यामा भवेत्पूर्वं शुद्धश्यामा निरन्तरम्॥ ततो दूर्वाङ्कुरश्यामा पाण्डुश्यामा च पार्थिव ॥ १३ ॥ ततश्च हरितश्यामा पीतश्यामा ततो भवेत् ॥ ततः प्रियङ्गु कङ्कःश्यामा कपिश्यामा च पार्थिव ॥ ॥ १४॥ ततो नीलोत्पलश्यामा चापश्यामा ततः परम्॥ ततो रक्तोत्पलश्यामा घनश्यामा तथा परा॥ १५॥ द्युत्यायुक्तेषुवर्णेषु तासां व्यक्तिरुदाहृता ॥ रङ्गव्यतिकरैः शोभामधिकृत्य महीपते ॥ १६॥ वक्ष्यामि वर्णांन्देवानां मयापृष्ट विनिश्चयम् ॥ तत्र येषां न वक्ष्यामि ते कार्या गौरवर्णकाः ॥ १७॥ श्यामस्तु वासुकिः कार्यो नागा गौरस्तु द्वापरौ ॥ दैत्याश्च दानवाश्चैव राक्षसा गुह्यकासुगाः ॥ १८ ॥ पिशाचा जलसङ्काशा सम्मितानि तु वर्णतः ॥