भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 775, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 775

ना० शा० ॥३२२॥ तृ० खं० अ० २६

मुखान्वितौ ॥ शैलेरधोमुखौ विद्धाववहत्थ इति स्मृतः॥६५॥दीर्घत्वञ्च सिते कार्यो गात्राणां च निदर्शने॥ ज्ञेयो वै वर्धमानस्तु हंसपक्षौ पराङ्मुखौ ॥ ६६ ॥ जालावातायनादीनां प्रयोगस्तेन चेष्यते ॥ संयुतानां कराणां तु लक्षणं कथितं मया ॥ ६९ ॥ एवं ज्ञेयाः कराः सर्वे नानारससमुद्भवाः ॥ अत ऊर्ध्वं प्रवक्ष्यामि नृत्तहस्तमथापरम् ॥ ७० ॥ वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ ॥ समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ॥७१॥ हंसपक्षौ स्मृतौ हस्तौ व्यावृत्तौ तालवृन्तकौ ॥ उदद्रुताविति विज्ञेयावथ वा तालवृन्तकौ ॥ ७२ ॥ चतुरस्रीकृतौ हस्तौ हंसपक्षौकृतौ तथा ॥ तिर्यङ्मुखावृर्ध्वतलौ ज्ञेयो ह्युद्‌वृत्तभाषितौ करौ ॥ अधोमुखतलाविद्धावाविद्धाविति कीर्तितौ ॥ ७६ ॥ सर्पशीर्षौ यदा हस्तौ भवतः स्वस्तिक भुजौ सकूर्पराग्रौ तु कुटिलावावितौ करौ ॥ अधोमुखतलाविद्धावाविद्धाविति कीर्तितौ ॥ ७६ ॥ सर्पशीर्षौ यदा हस्तौ भवतः स्वस्तिक स्थितौ ॥ तिर्यक्प्रसारितांस्यौ च ज्ञेयौ सूचीमुखाविति ॥ ७६ ॥ रेचितौ चापि विज्ञेयौ हंसपक्षाङ्गुतभ्रमौ ॥ प्रसारितोतानतलौ रचितावेव सं स्थितौ ॥ ७७ ॥ चतुरस्रो भवेद्दामः सव्यहस्तश्च रेचितः ॥ विज्ञेयो नाटयसत्त्वज्ञैरेवं रेचितसंज्ञितः ॥ ७८ ॥ अञ्चितौ कूर्पराभ्यां तु त्रि पताकौ यदा करौ ॥ किञ्चित्तिर्यग्गतावन्तावावृत्तौवविपर्ययः प्रकीर्तितः ॥ ७९ ॥ मणिवन्धननिंसिक्तौ शिथिलौ पल्लवौ स्मृतौ ॥ बाहू शीर्षविनिष्क्रान्तौ नितम्बौ परिकीर्तितौ ॥ ८० ॥ अंसदेश प्रभृतौ तु परिपाश्र्वस्थितौ तथा ॥ विज्ञेयो केशबंन्धाख्यौ करावार्यार्चसम्मतो ॥ ८१ ॥ तिर्यक्प्रसा रितावेव पार्श्वसंस्यौ तथैव च ॥ लताख्यौ तु करौ ज्ञेयौ नृत्ताभिनयने प्रति ॥ ८२ ॥ सम्प्रता लताहस्तः पार्श्वोपार्श्वविलोड़ितः ॥ द्वितोयः खटकाख्यश्च करिहस्तः प्रकीर्तितः ॥ ८३ ॥ कटिशीर्षानिविष्टाग्रौ त्रिपताकौ यदा करौ ॥ पक्षावचितको वामे तदा ज्ञेयो प्रयोगवित्भिः ॥ ८४ ॥ तावेव तु परावृत्तौ पक्षावातौ कराविति ॥ अधोमुखतलाविद्धौ ज्ञेयो गरुडपक्षको ॥ ८५ ॥ तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ ॥ तौ चोर्ध्वमण्डलो ज्ञेयौ गूरुदेशविवर्तनात ॥ ८६ ॥ तावेव पार्श्वविन्यस्तौ विज्ञेयो पार्श्वमण्डलो ॥ वेष्टितावेष्टितौ हस्तौ तयोर्मण्डलको स्मृतौ ॥ ८७ ॥ तावेव मणिबन्धन्तौ स्वस्तिकाङ्कतिसंज्ञितौ ॥ स्वस्तिकाविति विख्यातौ विख्यातौ च प्रकी र्तिको ॥ ८८ ॥ द्वावेव प्रभकोशाग्रौ पद्मकोशाविति स्मृतौ ॥ करावूद्धं जिताग्रौ तु विज्ञेयावलिपल्लवौ ॥ ८९ ॥ ऊर्ध्वप्रसारितौ विद्धौ विज्ञेयावृल्ल पाणिती ॥ पक्ष्वौ तु शिरोदेशे सम्प्राप्तौ ललितान्विति ॥ ९० ॥ कूर्परस्वस्तितकव्यस्तौ ललितावलितौ स्मृतौ ॥ संयुता विवृताश्चैव नृत्तहस्ताः ॥३२२॥


१ 'कुटिलाग्राविती' इति क०, 'उद्वृत्ताग्राग्रौ' इति ख० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 775, कुल 1001 में से · BharatKosha