विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 777, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० ॥ ३२३ ॥
पद्मोत्क्षेपे रचितक उत्सङ्गेऽथ धारणे ॥ अन्योऽकनामिला वक्रा त्रिपताका तथा भवेत् ॥ १७ ॥ आवाहने प्रयुञ्जीत मुकुटाभिनयेऽप्युत ॥
अचलाङ्गीक्षुरभ्येषु लघूपोत्खननेऽपि ॥ १८ ॥ तयोर्नासिकया कार्यं तथैवाश्रुप्रमार्जनम् ॥ मङ्गलस्पर्शनं कार्यं शिरसश्च निवेशनम् ॥ १९ ॥
श्रोत्रसंस्पर्शने चैव कार्यं मुनिसुखेन तु ॥ मुञ्जनाममभिनयं भ्रमराणां तथैव च ॥ २० ॥ त्रिपताका यदा हस्ते भवेत्पृथावलोकिनी ॥
तर्जनी तु तदा ज्ञेयः कर्तरीमुखसंज्ञकः ॥ २१ ॥ मेखले जघने चैव कुर्यान्मानेन कुण्डलम् ॥ २३ ॥ अनामिका तु साङ्गुष्ठा अर्धचन्द्रे करे भवेत् ॥ कुञ्चितास्तथा ॥
बालचन्द्राभिनये बालस्यावस्रवस्तथा ॥ मेखलां जघने चैव कुर्यान्मानेन कुण्डलम् ॥ २४ ॥ गम्यमीषत्स्रशौण्डीर्यकेशसंवेदनादिषु ॥ स्वेदस्य चापनयने रोषे चैव करो भवेत् ॥
शेषा मित्रोर्ध्ववलिता मृगलेङ्गुल्यः करे ॥ २५ ॥ वक्रितानामिलाङ्गुष्ठैः ॥ नाहन्वन्सिश्येतानेन नित्यं यामिन्यदे बुधः ॥ २६ ॥ अङ्गुल्यो यस्य
॥ २६ ॥ मृगशः शुकतुण्डश्च वक्रितानामिकाङ्गुलिः ॥ तासामुपरीताङ्गुष्ठः स शुकैरिति संज्ञितः ॥ २७ ॥ एष प्रहारे व्यायामे निर्देशस्तनपीडने ॥
हस्तस्य तलमध्येऽधःप्रसारिताः ॥ तासामुपरिताङ्गुष्ठः स शुकैरिति संज्ञितः ॥ २८ ॥ ऊर्ध्वाङ्गुष्ठोऽभव स्यात्करः शिखरसंज्ञितः ॥ एष रश्मिग्रहे कार्यश्चापाङ्कुशधनुर्ग्रहे ॥२९॥
सन्धारणोऽसिग्रहमोश्च ग्रहणे कुन्तदण्डयोः ॥ २८ ॥ ऊर्ध्वाङ्गुष्ठोऽभव स्यात्करः शिखरसंज्ञितः ॥ एष रश्मिग्रहे कार्यश्चापाङ्कुशधनुर्ग्रहे ॥२९॥
क्षुहिमध्यगतेऽङ्गुष्ठः कपित्थ इति कीर्तितः ॥ अनेनाभिनयः कार्यो मध्ये चक्रे शरे तथा ॥ ३० ॥ उत्क्षिप्तवक्रा तु यदानामिला सक्कनीयसी ॥
अस्यैव तु कपित्थस्य ततः स्यात्सूतकमुखः ॥ ३१॥ क्षेत्रे छत्रग्रहे चैव कर्षणे व्यजने तथा ॥ सङ्गमाद्रवगे कार्योह्यसङ्कोचायसङ्ग्रहः ॥३२॥
प्रसृता तर्जनी चात्र यदा सूचीमुखस्तदा ॥ निष्पादने चामिनयेदक्षरक्रमदेशयोः ॥ ३३ ॥ अस्याङ्गुल्यस्तु विपुलाः सहाङ्गुष्ठेन कुञ्चिताः ॥
ऊर्ध्वाधंसनखस्पर्शेन स भवेत्पद्मकोशकः ॥ ३४ ॥ श्लिष्टोङ्गुष्ठो निमनमध्यः पताकोहरिरंशो भवेत् ॥ सलिलस्य प्रदाने तु कार्यो तेन च सूचनम् ॥
॥ ३६ ॥ अधोमुखोनां सर्वासामङ्गुलीनां यदा भवेत् ॥ कनिष्ठाङ्गुष्ठका चोर्ध्वा तदा स्यान्मृगशीर्षकः ॥ ३६ ॥ संविते चोदिते कार्यं शय्या
स्वोत्थानेने तथा ॥ गेलोभ्रिसंस्थिता मध्या तर्जन्यङ्गुष्ठयोर्यदा ॥ ३७ ॥ काङ्गुले नामिका वक्रा तथा चोर्ध्वा कनीयसी ॥ अनेन खलु कर्तव्यं
फलानां तु निरूपणम् ॥ ३८ ॥ आवर्तिते करतले मध्यमाङ्गुल्यः करस्य वै ॥ पार्श्वनागर्तविकीर्णाश्च कोहपद्म इति स्मृतः ॥ ३९ ॥ प्रतिषेध
कृते योज्यो नास्ति शून्येपु चाप्यथ ॥ तिस्रः प्रसारिताङ्गुल्यस्तथा चोर्ध्वा कनीयसी ॥ ४० ॥ तस्या मध्याश्रितोऽङ्गुष्ठः करः स चतुरः स्मृतः ॥
तृ० खं० अ० २६ ॥३२४॥
१ 'कहे पद्म' इति ख० ।