विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 778, कुल 1001 में से
संदर्भ में पढ़ेंछिद्रे क्रोधे परे हास्ये समं शेषेषु कारयेत् ॥ विवर्तनं तथा कम्पो विसर्गोऽथ विगूहनम् ॥ ६९ ॥ संदंशश्च समुद्गश्च कूर्माख्यश्चरजानि च ॥ मुक्ता सूक्तकरणं विवर्तितमिति स्मृतम् ॥ ७० ॥ वेपनं चापि विज्ञेयमधरस्य तु कम्पने ॥ यो निष्क्रमोऽधरस्याथ स विसर्ग इति स्मृतः ॥ ७१ ॥ अन्तःप्रवेशनं चैव विनिगूहितमुच्यते ॥ दन्तोष्ठपीडनाच्चैव संदंशकमिति स्मृतम् ॥ ७२ ॥ पिण्डताम्युद्गतश्चैव समुद्गक इति स्मृतः ॥ विवाततस्तथाऽन्यो रोषकम्पितमित्युच्यते ॥ भयानके विसर्गश्च कर्षणेऽथ निगूहनम् ॥ ७३ ॥ ततोन्मादादिकारेषु संदष्टं वीररौद्रयोः ॥ समुद्गमन्तकम्पायां शेषं कार्यं स्वभावजम् ॥ ७४ ॥ उपाङ्गकर्ममीहितं तथैतं मया समासेन नरेन्द्रचन्द्र ॥ कार्यः प्रयत्नेऽत्र सदा बुधेन यस्मा- दुपाङ्गाश्रयमेव नृत्यम् ॥ ७५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे उपाङ्गकवर्णनो नाम पञ्चविंशतितमोऽध्यायः ॥ २५ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ पताकस्त्रिपताकश्च तथा वैकर्तरीमुखः ॥ अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथापरः ॥ १ ॥ मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः ॥ सूच्यास्यः पद्मकोशश्च मृगशीर्षो मृगस्य च ॥ २ ॥ लाङ्गूलः कालपद्मश्च चतुरो भ्रमरस्तथा ॥ हंसास्यो हंसपक्षश्च संदंशो मुकुलस्तथा ॥ ३ ॥ असंयुताः करा ह्येते द्वाविंशतिरुदाहृताः ॥ अथ संयुक्ता हस्तान् गदतस्तन्निबोध मे ॥ ४ ॥ अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ खटको वर्धमानश्च उत्सङ्गो निषधस्तथा ॥ ५ ॥ दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च ॥ ६ ॥ एते वै संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ नृत्तहस्तांस्तथैवोक्तान् भूयो नाद्रि निबोधत ॥ ७ ॥ चतुरस्रस्तथा वृत्तस्तथा ल्पुमुखौ स्मृतौ ॥ तथा चैव तु विज्ञेयौ ह्यरालखटकामुखौ ॥ ८ ॥ आविद्धवक्षस्संयार्व्वौ रेचितावङ्गिरोचितौ ॥ अव- हित्यः पक्षविततो नितम्बः केशबन्धनौ ॥ ९ ॥ लतारख्यौ करिहस्तौ च पक्षोद्योतावधैस्थितौ ॥ ज्ञेयो गरुडपक्षौ च दण्डपक्षौ तथैव च ॥ १० ॥ ऊर्ध्वमण्डलौ चैव पार्श्वमण्डलजावपि ॥ पार्श्वमण्डलौ चैव उरोमण्डलको तथा ॥ ११ ॥ इत्यस्वस्तिकवाक्यौ तथा वै पद्मकोशिकौ ॥ अलपक्ष्व- वसंज्ञौ च तथा चोल्बणसंज्ञितौ ॥ १२ ॥ ललितौ वलितौ चैव ज्ञेया नृत्त्यकराः सदा ॥ अतः परं प्रवक्ष्यामि करणाणां कर्मलक्षणम् ॥ १३ ॥ प्रसारिताग्रा संहता यस्याङ्गुल्यो भवन्ति हि ॥ अञ्चितश्च तथाऽङ्गुष्ठः स पताक इति स्मृतः ॥ १४ ॥ एष प्रहारग्रहणे रोधने स्यात्प्रतापने ॥ चलिताङ्गुलिरप्येष वायुवीधिनिरूपणे ॥ १५ ॥ ऊर्ध्वगश्च तथोत्साहे छत्रानिड्वृव्यथेषुसः ॥ पुक्षकप्रहितस्तले समः प्रचलिताङ्गुलिः ॥ १६ ॥
१ क पुस्तके ऽयमत्र 'अविहितः' स्ततत्र ख० पुस्तके 'अवाहित्थ' इति वर्तते ।