भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 779, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 779

वि० ध० ॥३२०॥

मण्डलावर्तनं मध्य पुटयोर्भ्रमणं स्मृतम् ॥ ४२ ॥ वलनं गमनं तिर्यग्वलनाच्चलितं भवेत् ॥ आभ्यन्तरत आकर्षः प्रवेशात्सम्प्रकीर्तनम् ॥ ४३ ॥ तथा चापाङ्गसञ्चाराद्वर्धितं समुदाहृतम् ॥ पातनं त्रस्तभावश्च निष्क्रमाद्भाषिकञ्च तथा ॥ ४४ ॥ ऊर्द्धतानपरागाप्तिः प्राकृतं तु स्वभावतः ॥ हास्ये तु वलनं कार्यं मदे भ्रमणमेव च ॥ ४५ ॥ वीरे रसे स्याच्चलनं बीभत्से संप्रवेशनम् ॥ विवर्तितं तु शृङ्गारे पातनं करुणे रसे ॥ ४६ ॥ भयानके निष्क्रमणं वीरे चोद्धर्तनं तथा ॥ प्राकृतं शेषभावे तु यथाद्योगं प्रयोजयेत् ॥ ४७ ॥ ससंभ्रमं साचीकृतं नतं स्यादुद्वृत्तमतः परम् ॥ आलोकितं चोल्लोकितमवलोकितमेव च ॥ ४८ ॥ साम्प्रतारं च सौम्यं च दृष्टिकर्म समं भवेत् ॥ पक्ष्मान्तसंनतारं च साचीकृतमिहोच्यते ॥ ४९ ॥ रूपनिर्वर्तनंयुक्तमनुस्रुतमिति स्मृतम् ॥ सहसा दर्शनं यत्स्यात्तदालोकितमिष्यते ॥ ५० ॥ ऊर्द्धञ्चावलोकितं ज्ञेयं सर्वतो लोकितं तथा ॥ विलोकितं तु पार्श्वभ्यां पृष्ठतश्चावलोकितम् ॥ ५१ ॥ दृष्टीनामनुगं चैव भ्रुवोः कर्म प्रयोजयेत् ॥ गत्या नेत्रे प्रसर्पद्भिर्नानाभावरसाश्रयम् ॥ ५२ ॥ नेत्रस्यालोकनेनैव भ्रुवोस्तु चलनं भवेत् ॥ उत्क्षेपः पातनं चैव भ्रुकुटीचतुरं तथा ॥ ५३ ॥ निकुञ्चितं कुञ्चितं च तथा स्वाभाविकं भवेत् ॥ भ्रुवोरुद्गमनमुत्क्षेपः पातनं पतनं भवेत् ॥ ५४ ॥ द्वयोर्मूलोर्ध्वविगमाद्भ्रुकुटी परिकीर्तिता ॥ चतुरः किञ्चिदुच्छ्वासात्कथ्यतेऽथ भ्रुवा ॥ ५५ ॥ एकस्या उभयोर्वापि स्यादुन्नभ्रं निकुञ्चितम् ॥ एकस्या ललिताभोगाद्गात्रैचितं नाम कीर्तितम् ॥ ५६ ॥ यथास्थिते स्वभावस्थे भ्रुवाः कर्म निबोध मे ॥ समुत्क्षेपस्तु लीलायाः कारुण्यात्पातनं भवेत् ॥ ५७ ॥ क्रोधे च भ्रुकुटी ज्ञेया शृङ्गारचतुरं तथा ॥ क्षामं दूरां तु विज्ञेयं फुल्ले विकसितं भवेत् ॥ ५८ ॥ सम्पूर्णं पूर्णमित्युक्तं कम्पितं परिनर्तितम् ॥ बुद्धिमितैश्चुल्लितकं सरोमाञ्चं तथाविधम् ॥ ५९ ॥ प्राकृते तु स्वभावस्थं मन्दं प्रीति मनीषिभिः ॥ क्षामं दुःखे तु कर्तव्यं फुल्ले हर्षे प्रयोजयेत् ॥ ६० ॥ पूर्णे तुष्टे तु कर्तव्यं तथा रोषे च कम्पितम् ॥ हास्ये स्यात्कुञ्चितं स्पर्शे सरोमाञ्चं विधीयते ॥ ६१ ॥ प्राकृते तु स्वभावस्थं स्वप्रयोगेन योजयेत् ॥ नता मन्दा विकृष्टा च सोच्छ्वासा कुणितानता ॥ ६२ ॥ स्वाभाविके च कर्तव्या प्रयोगे नासिका बुधैः ॥ नतानता तु विज्ञेया मन्दा नतपुटा भवेत् ॥ ६३ ॥ विचेष्टा कुञ्चिता चोर्ध्वं सोच्छ्वासा वधुरेरिता ॥ संङ्घाननात्कुणिता स्यात्स्वभावस्या स्वनासिका ॥ ६४ ॥ नता तु रुचिते कार्या मन्दा शोके विधीयते ॥ तीव्रगन्धे विकृष्टा तु सोच्छ्वासा तु तथा प्रिये ॥ ६५ ॥ विकूणिता जुगुप्सायां शेषा स्वाभाविकी मता ॥ कूणनं खण्डनं छिन्नं शुकितं समता तथा ॥ ६६ ॥ जिह्वाग्रयोद्घट्टनं च दन्तकर्मणि कारयेत् ॥ कुट्टनं मत्तवच्छेदे खण्डनं तु विवेदनम् ॥ ६७ ॥ छिन्नं निकृन्तमेव स्याच्छुकितं विद्रमं च ॥ व्यथौ तु कुट्टनं कार्यमुत्साहे खण्डनं भवेत् ॥ ६८ ॥

तृ० सं० अ० २६ ॥३२०॥