विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 786, कुल 1001 में से
संदर्भ में पढ़ें...ञ्चितं चोलुपदं च हरिणप्लुतमेव च ॥ ५३ ॥ प्रेङ्खोलितं नितम्बं च स्खलितं परिकस्तकम् ॥ ५२ ॥ असर्पिततलं चैव सिंहविक्रीडितं तथा ॥ ५४ ॥ क्रीडितं चैव गङ्गावतरणं तथा ॥ ५५ ॥ अयोपसंहृतं चैव करणानां प्रकीर्तितम् ॥ सुकुमारं तथा विद्धं नृत्तं द्विविधमुच्यते ॥ ५४ ॥ उद्धतं पुरुषप्रायं सौम्यं सुकुमारकम् ॥ देशैश्चिह्नैस्तथाकारा पिण्डी भवति पार्थिव ॥ ५६ ॥ भारती सात्वती चैव कौशिकीत्यारभटी तथा ॥ चतस्रो वृत्तयः प्रोक्ता वाग्विधाना तु भारती ॥ ५६ ॥ तस्या वीरसप्राया विज्ञेया सात्वती नृप ॥ तथा रौद्ररसप्राया च भवत्यारभटी सदा ॥ ५७ ॥ शृङ्गारबहुला तथा संवृति कौशिकी ॥ आवन्ती दाक्षिणात्या च तथा चैवात्र मागधी ॥ ५८ ॥ पञ्चाली मध्यमा चेति वृत्तिः सा तु चतु- र्विधा ॥ देशभाषाऽनुरूपं तथानाचारप्रवर्तनम् ॥ ५९ ॥ प्रवृत्तिरिति विख्याता वृत्तीनामाश्रयास्तु ताः ॥ नाट्यलोकप्रवृत्त्या च द्विधर्मश्च द्विविधा मता ॥ ६० ॥ सिद्धिञ्च द्विविधा नाट्ये दैविकी मानुषी तथा ॥ व्यायामान्न्यादृशी तत्र दैवी देवप्रसादजा ॥ ६१ ॥ रसेन भावेन समन्वितं च तालाङ्गं काव्यरूपसमुद्भवम् ॥ गीतानुरूपं वृत्तवृत्तिं चन्दं सुखप्रदं धर्मविवर्धनं च ॥ ६२ ॥ ॥ इति श्रीविष्णुध- र्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सामान्याभिनयो नाम विशोध्यायः ॥ २० ॥ ॥ छ ॥ ॥ छ ॥ मार्कण्डेय उवाच ॥ सप्तत्रिंशत्कथं चैव प्रचारानिलविद्यतिते ॥ उदाहृतं ततं षोढा शय्यास्थानानि निर्दिशेत् ॥ १ ॥ उत्तानितं सुखं चैव सावत्सुककरं तथा ॥ समं वासकसंस्थस्य स्थानकं तु विधीयते ॥ २ ॥ स वैराङ्गिकिशिरोजैः शय्याविदे च जातुनी ॥ स्थानमाकुञ्चितं नाम गीतालनां प्रयोजयेत् ॥ ३ ॥ एकं भुजं समाधाय संप्रसारितजानुकम् ॥ स्थानं प्रसारितं नाम सुखसुप्तस्य कारयेत् ॥ ४ ॥ अधोमुखे स्थितं चैव विवलितमिति स्मृतम् ॥ शक्तेि सूते विषदं मत्तोन्मत्तेषु तद्भवेत् ॥ ५ ॥ अंशोपरि शिरः कृत्वा कुञ्चितोर्धमुखमिव च ॥ उदाहृतं तु विज्ञेयं लीलयाः शंसने प्रभो ॥ ६ ॥ तस्या यदुक्तममृतं तु जंध स्तस्तो करो तं नतमुद्रिशन्ति ॥ आलस्यखेदश्रममोहितेषु कार्येस्तु तस्याभिनयप्रयोगः ॥ ७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे शय्यासनस्थानवर्णनो नामैकत्रिंशतितमोऽध्यायः ॥ २१ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ स्वस्थ्यमन्द- लसक्रान्तं प्रस्थालसमथायि च ॥ विष्कुम्भितं तत्कटुकं मुक्तजानु तथा समम् ॥ १ ॥ जानुगतं विमुक्तं च स्थानकान्युपवेशने ॥ विष्कम्भितास्थितौ पादौ वक्षः किञ्चित्समुन्नतम ॥ २ ॥ हस्तौ कट्यूकविन्यस्तौ स्वस्थौ स्वस्थोपवेशने ॥ एकः प्रसारितः पादस्त्वन्य- श्चैवासनमाश्रितः ॥ ३ ॥ पार्श्व नतं तथा कार्यं स्थानं मण्डलकं तु तत् ॥ चिन्तायां तु तथौत्सुक्ये निर्वेदे विमदे तथा ॥ ४ ॥ विषदेषु सदा