विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 788, कुल 1001 में से
संदर्भ में पढ़ेंरञ्जनं गायकानां निवेशनम् ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आतोद्यविधिनैकोनविंशोऽध्यायः ॥ १९ ॥ परस्याङ्गकृति- र्नाट्यं नाट्यज्ञैः कथितं नृप ॥ १ ॥ तस्य संस्कारकं नृत्तं भवेच्छोभाविर्वर्धनम् ॥ १ ॥ नृत्यं तु द्विविधं प्रोक्तं नाट्यलास्याश्रयं सदा ॥ २॥ द्वैविध्यं द्विवि- धस्यापि पुनरुक्तं नराधिप ॥ २ ॥ अभ्यन्तरश्च बाह्यं च बाह्यं लक्षणवर्जितम् ॥ ३॥ अभ्यन्तरं लक्षणवन्मङ्गल्यं तत्प्रयोगतः ॥ ३ ॥ लास्यं स्वच्छन्दतः कार्यं मण्डपे यदि वा बहिः ॥ नाट्यं मण्डप एव स्यान्मण्डपं द्विविधं भवेत् ॥ ४ ॥ आयतं चतुरस्रं तु द्वात्रिंशद्धस्तसम्मितम् ॥ चतुरस्रं न कर्तव्यमायतं द्विगुणायतम् ॥ ५॥ हीनाधिकं न कर्तव्यं दृष्टादृष्टशुभप्रदम् ॥ हीने भवति सम्मर्दो विस्तीर्णे नाट्यगोपयोः ॥ ६ ॥ व्यक्तिर्नैवोपपद्येत तस्मात्तत्तु परिवर्जयेत् ॥ आदावेव तु कर्तव्यं विदुषाणां तु पूजनम् ॥ ७ ॥ पूजनं जर्जरस्यापि वासुदेवप्रपूजनम् ॥ एवं कृत्वा ततो नाट्यं नान्दीपूर्वकमिष्यते ॥ ८ ॥ ततो जवनिकाक्षेपैः प्रतिपात्रप्रवेशनम् ॥ प्रवेशानिर्गमौ कार्यौ कृत्वा कार्यस्य सूचनम् ॥ ९ ॥ पुण्याह- लिर्मृदङ्गश्च नाट्यान्ते वास्तुपूजनम् ॥ पाठ्ये गीते समानासक्तः पात्रतुल्यः परिक्रमः ॥१०॥ चतुष्कलो नायकानां मध्यानां त्रिकलो भवेत् ॥ द्विकलोऽधमानां स्यात्सव्यं नृपकर्मणि ॥ ११ ॥ एकाधिकेन सर्वेषां कर्तव्यं कार्ययोगतः ॥ देवा धीरोद्धता ज्ञेया उद्धता दानवादयः ॥ १२ ॥ नृपाश्च धीरललिता धीरास्तदुपजीविनः ॥ प्रशान्तधीरा ऋषयः प्रशान्तास्तत्पदाऽनुगाः ॥ १३ ॥ धीरोदात्तास्तथा विप्रा उदात्ता वणिजो मताः ॥ एवंविधाश्च कथिता एतेषामेव योगतः ॥ १४ ॥ आद्यैः सात्त्विकैश्चैव यान्त्रिकौशिक एव च ॥ चतुष्षट्करोऽभिनयः कर्तव्यो नाट्यकर्मणि ॥ १५ ॥ आहार्य्यः प्रतिशीर्षाङ्गिकृतो वेश उच्यते ॥ धीरोदात्तानां वेशः स्यात् चातुर्य्यसमुत्थणः ॥ १६ ॥ उद्धतश्चोद्धतानां स्याद्राज्ञो ललित इष्यते ॥ प्रतिनायकवेशस्तु कर्तव्यश्च तथोद्धतः ॥ १७ ॥ अन्येषां सदृशो वेशो देशकर्माऽऽश्रयो भवेत् ॥ अथाङ्गश्च कर्तव्यः श्मश्रुकेशादिभिः समाः ॥ १८ ॥ अतः परं प्रवक्ष्यामि सात्त्विकाभिनयं तव ॥ अश्रुप्रपातरोमाञ्चस्वेदनं स्पन्दनं तथा ॥ १९॥ तथा च वर्णविन्यासः सात्त्विकाभिनयो स्मृता ॥ १८ ॥ अथाङ्गिको वाचया प्रोक्तो वक्ष्याम्याङ्गिकमुत्तरे ॥२०॥ नाट्यनृत्तं तु कर्तव्यं हर्षस्थाने सदा बहु ॥ शोकस्थाने न कर्तव्यं किञ्चिद्वा कारयेत्ततः ॥२१॥ चतुर्धा रेचकं प्रोक्तं कटिपादाङ्गिकन्धरम् ॥ चार्याकाश्या महाचारी चारी च द्विविधा मता ॥ २२ ॥ सुकुमाराङ्गवाक्यैश्च चारी भवति यादव ॥ एतैरभ्यासैर्ज्ञेया महाचारी नरेश्वर ॥ २३ ॥ मण्डलानि दशैवाऽस्य चारिसंयोगजानि तु ॥ अतिक्रान्तं विचित्रं च तथा ललितसञ्चरम्॥ ॥ २४ ॥ सूचीविद्धं दण्डपादं विक्रान्तालतसंज्ञिते ॥ वामबद्धं सुललितं कान्तं चाकाशगानि तु ॥ २५ ॥ मण्डलानि दशान्यानि शृणु भौमानि