विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 793, कुल 1001 में से
संदर्भ में पढ़ेंदुश्चेष्टंवाप्यथार्थमप्रसिद्धमथानवत् ॥ काव्यबन्धं न कर्तव्यं पुनरुक्तं च यद्भवेत् ॥ १० ॥ विस्मये वाप्यसूयायां भयशोकतरासु च ॥ हर्षे च वीप्सा कर्तव्या पुनरुक्तं न तद्विदुः ॥ ११ ॥ दूतवाक्ये तथा स्वप्ने कार्यस्यातो तयागते ॥ पुनर्वचननिर्देशे पुनरुक्तं न तद्विदुः ॥ १२ ॥ ससंशयं न वक्तव्यं प्रतिज्ञातं हितं तथा ॥ पूर्वापरविरुद्धं च यच्च लोकविगर्हितम् ॥ १३ ॥ शृङ्गारहास्यकरुणरौद्रवीरे भयानकेः ॥ बीभत्साद्भुतशान्तान्ये रसैः काव्यं समन्वितम् ॥ १४ ॥ काव्यं कलाकौशलोरसंप्रयुक्तं धर्मेण चार्थेन तथोपपन्नम् ॥ धर्मेण युक्तस्य च नायकस्य काव्यं तथा चाभ्युदयान्व- मेव ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाकाव्यलक्षणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥ ॥ मार्कण्डेय उवाच॥ काव्ये येऽभिहिता दोषाः केचिद्देयाः प्रहेलिकाः ॥ कर्तव्यैषा तथैवान्यास्तासां वक्ष्यामि लक्षणम् ॥ १ ॥ श्लोकेनैकेन वा द्वाभ्यां कर्तव्या तु नरोत्तम ॥ न कर्तव्यैषा तु राजन्बहुश्लोकनिबन्धना ॥ २ ॥ तस्यां मात्रार्थशब्दार्थौ गोप्येते सा समागता ॥ पर्यायवचनैश्चान्या वन्दिता सा प्रकीर्त्तिता ॥ ३ ॥ वृत्तान्तगोपिकान्यास्यात्पदैरर्थावहिर्भवैत् ॥ अप्रसिद्धैस्तु पर्यायैर्दुःखिता नाम सा स्मृता ॥ ४ ॥ कल्पनारोगोपिलात्तैस्तु कथिता परिहासिका ॥ समानरूपतुल्यार्थौ शब्दैरन्यैः प्रकीर्तिता ॥ ५ ॥ दुर्बोधशब्दसम्बन्धा च परुषा नामतः स्मृता ॥ संख्यामात्रसमानत्वाद्संख्याताख्या तथोच्यते ॥ ६ ॥ अर्थान्तरान्विकल्पनया कल्पिता च तथोच्यते ॥ अन्यस्य संज्ञाव्यासामोहान्नाम्नान्तरिसंहिता ॥७॥ अर्थव्यमोहतः प्रोक्ता निभृता च महामृप ॥ ९ ॥ समानशब्दा कथिता तुल्यशब्दाभिगोपिते ॥ संकीर्णा सम्भवोपेता या तदर्धकरी भवेत् ॥ १० ॥ तदर्थकरी यत्रार्थैः ज्ञायतेऽन्या- र्थकारकः ॥ राजन्प्रणष्टदंष्ट्रास्या च कथिता व्यभिचारिणी ॥ ११ ॥ उक्तैरर्थे ह्यतन्बन्धेन माययौभिः स्थापिता तथा ॥ नष्टार्था वा च सा प्रोक्ता द्युतबन्धनिदर्शिता ॥ १२ ॥ नष्टाक्षरा तु कथिता विलोकेन तदर्थदा ॥ अन्यथाँता तथैवोक्ता वर्णभ्रंशा नरेश्वर ॥ १३ ॥ कालस्य रूपरूपाणां व्याख्यानेन तदर्थदा ॥ बीजमात्रेण लेशाख्या संसिपाल प्रकीर्तिता ॥ १४ ॥ अश्लीलमेतास्वपि नैव कार्यं तद्वर्ज्यमाहुः कवयो नरेन्द्र ॥ उद्वेजनीयं तु सतां तदुक्तमश्लीलमन्यं सुसदं न काव्यम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्रहेलिकांलक्षणो नाम षोडशोऽध्यायः ॥ १६ ॥ ॥ वज्र उवाच ॥ ॥ मन्त्राः सब्राह्मणाः प्रोक्तास्तदर्थं ब्राह्मणं स्मृतम् ॥ कल्पना च तथा कल्पः कल्पश्च ब्राह्मणस्तथा ॥ १ ॥ कथितानि तथार्थानि पुराणं च तथा द्विज ॥ प्रक्रिया प्रथमः पादः कथावस्तुपरिश्रहः ॥ २ ॥