भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 794, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 794

खण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे नपुंसकविधौ त्रयोदशोऽध्यायः ॥ १३ ॥ मार्कण्डेय उवाच ॥ एकैकस्य तु वर्णस्य विन्यासो यः पुनःपुनः ॥ अर्धगत्या तु संख्यातास्तद्भासं पुरातनैः ॥ १ ॥ अत्यर्थं तद्गतं राजन्ग्राम्यतामुपगच्छति ॥ शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ॥ २ ॥ आदौ मध्ये तथैवान्ते पादस्य तु तदिष्यते ॥ संदष्टकसमुद्गौ तथैव यमको मतौ ॥ ३ ॥ समस्तपादजंयमकं दुष्करं परिकीर्तितम् ॥ उपमानेन तुल्यत्वादुपमेयस्य रूपकम् ॥ ४ ॥ रूपकाभ्यधिकं नाम तदेवैकागुणाधिकम् ॥ गुणानां व्यतिरेकेण व्यतिरेकमुदाहृतम् ॥ ५ ॥ उपमानविरुद्धैश्च गुणैस्तदपरं मतम् ॥ द्व्यर्थैर् वाचकैः शब्दैः श्लेष इत्यभिधीयते ॥ ६ ॥ अन्यद्रूपस्य चार्धस्य कल्पना वाच्यया भवेत् ॥ उत्प्रेक्षाख्यो ह्यलङ्कारः कथितः स पुरातनैः ॥ ७ ॥ उपन्यासात्स्तथान्योः स्यात्प्रस्तुतार्थः क्वचिद्भवेत् ज्ञेयः सोर्थान्तरन्यासः पूर्वार्थानुगतो यदि ॥ ८ ॥ उपन्यासेन चान्यस्य यदन्यः परिकीर्त्यते ॥ उपन्यासम्बलङ्कारं तं नरेन्द्र प्रचक्षते ॥ ९ ॥ हेतुं विना वितततां प्राप्ता सा तु विभावना ॥ प्रोक्ता चातिशयोक्तिस्तु ह्येतद्रूपप्रसाधुभिः ॥ १० ॥ यथा स्वरूपकथनं स्वभावोक्तिः प्रकीर्तिता ॥ भूयसाञ्चापिधानानां निर्देशः क्रमगस्तथा ॥ ११ ॥ यथासंख्यमिति प्रोक्तमलङ्कारः पुरातनैः ॥ विशेषाणाम्बाहुल्ये विशेषोक्तिस्तथा नृप ॥ १२ ॥ या क्रिया चान्यफलदा विरोधात्तु स इष्यते ॥ स्तुतिरूपेण या निन्दा निन्दास्तुतिरितीष्यते ॥ १३ ॥ निन्दास्तुतिस्तथैवोत्क्ता निन्दारूपेण या स्तुतिः ॥ वस्तूनां सूक्ष्मभावेन दर्शनं तन्निदर्शनम् ॥ १४ ॥ विना तथा स्यादुपमा तु यत्र तेनैव तस्यैव भवेन्नृवीर ॥ अनन्वयाख्यं कथितं पुराणैरेताबदुक्तं तव लेशमात्रम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अलङ्काराध्यायो नाम चतुर्दशोऽ ध्यायः ॥ १४ ॥ मार्कण्डेय उवाच ॥ धर्मार्थकाममोक्षाणां शास्त्रं स्यादुपदेशकम् ॥ पूर्वेषां चरिते सार्द्धं धर्मकामार्थसाधकम् ॥ १ ॥ मोक्षस्य चोपपन्न्यास इतिहासः स उच्यते ॥ तदेव काव्यमित्युक्तं चोपदेशं विना कृतम् ॥ २ ॥ एकस्य चरितेनैव तथा काव्यं प्रकीर्तितम् ॥ निबद्धो यत्र राजेन्द्र नायकप्रतिनायकौ ॥ ३ ॥ प्रयाणोपेतसंरोधयुद्धैर्युक्तं तदेव तु ॥ नायकस्याभ्युदयोपेतं महाकाव्यं तदिष्यते ॥ ४ ॥ वर्णयेन् महाकाव्ये देशपत्तणपा र्थिवान् ॥ ऋत्वादीन्दिनसंन्ध्याश्च तथा नारीश्च पार्थिव ॥ ५ ॥ वर्णनीयो नथेवान्नायकःप्रतिनायको ॥ नायको धर्मविजयी सताम्पन्थानमाश्रितः॥ ६॥ तथा च लोकविजयी विज्ञेयः प्रतिनायकः ॥ प्रतिनायकबधातस्तु वक्तव्यो नेतरस्य तु ॥ ७ ॥ नायकस्य महाराज मरणं नैव वर्णयेत ॥ सशरी रस्य यस्य स्यात्स्वंर्गप्राप्तिरितस्तस्य वर्णयेत् ॥ ८ ॥ छन्दोविरहितं गद्यं शब्दशास्त्रविरोधि च ॥ कथाक्षेपदन्याससमश्लेषलक्षणान्वितम् ॥ ९॥ तस्या

५३