भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

खण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशे नपुंसकविधौ त्रयोदशोऽध्यायः ॥ १३ ॥ मार्कण्डेय उवाच ॥ एकैकस्य तु वर्णस्य विन्यासो यः पुनःपुनः ॥ अर्धगत्या तु संख्यातास्तद्भासं पुरातनैः ॥ १ ॥ अत्यर्थं तद्गतं राजन्ग्राम्यतामुपगच्छति ॥ शब्दाः समानानुपूर्व्या यमकं कीर्तितं पुनः ॥ २ ॥ आदौ मध्ये तथैवान्ते पादस्य तु तदिष्यते ॥ संदष्टकसमुद्गौ तथैव यमको मतौ ॥ ३ ॥ समस्तपादजंयमकं दुष्करं परिकीर्तितम् ॥ उपमानेन तुल्यत्वादुपमेयस्य रूपकम् ॥ ४ ॥ रूपकाभ्यधिकं नाम तदेवैकागुणाधिकम् ॥ गुणानां व्यतिरेकेण व्यतिरेकमुदाहृतम् ॥ ५ ॥ उपमानविरुद्धैश्च गुणैस्तदपरं मतम् ॥ द्व्यर्थैर् वाचकैः शब्दैः श्लेष इत्यभिधीयते ॥ ६ ॥ अन्यद्रूपस्य चार्धस्य कल्पना वाच्यया भवेत् ॥ उत्प्रेक्षाख्यो ह्यलङ्कारः कथितः स पुरातनैः ॥ ७ ॥ उपन्यासात्स्तथान्योः स्यात्प्रस्तुतार्थः क्वचिद्भवेत् ज्ञेयः सोर्थान्तरन्यासः पूर्वार्थानुगतो यदि ॥ ८ ॥ उपन्यासेन चान्यस्य यदन्यः परिकीर्त्यते ॥ उपन्यासम्बलङ्कारं तं नरेन्द्र प्रचक्षते ॥ ९ ॥ हेतुं विना वितततां प्राप्ता सा तु विभावना ॥ प्रोक्ता चातिशयोक्तिस्तु ह्येतद्रूपप्रसाधुभिः ॥ १० ॥ यथा स्वरूपकथनं स्वभावोक्तिः प्रकीर्तिता ॥ भूयसाञ्चापिधानानां निर्देशः क्रमगस्तथा ॥ ११ ॥ यथासंख्यमिति प्रोक्तमलङ्कारः पुरातनैः ॥ विशेषाणाम्बाहुल्ये विशेषोक्तिस्तथा नृप ॥ १२ ॥ या क्रिया चान्यफलदा विरोधात्तु स इष्यते ॥ स्तुतिरूपेण या निन्दा निन्दास्तुतिरितीष्यते ॥ १३ ॥ निन्दास्तुतिस्तथैवोत्क्ता निन्दारूपेण या स्तुतिः ॥ वस्तूनां सूक्ष्मभावेन दर्शनं तन्निदर्शनम् ॥ १४ ॥ विना तथा स्यादुपमा तु यत्र तेनैव तस्यैव भवेन्नृवीर ॥ अनन्वयाख्यं कथितं पुराणैरेताबदुक्तं तव लेशमात्रम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अलङ्काराध्यायो नाम चतुर्दशोऽ ध्यायः ॥ १४ ॥ मार्कण्डेय उवाच ॥ धर्मार्थकाममोक्षाणां शास्त्रं स्यादुपदेशकम् ॥ पूर्वेषां चरिते सार्द्धं धर्मकामार्थसाधकम् ॥ १ ॥ मोक्षस्य चोपपन्न्यास इतिहासः स उच्यते ॥ तदेव काव्यमित्युक्तं चोपदेशं विना कृतम् ॥ २ ॥ एकस्य चरितेनैव तथा काव्यं प्रकीर्तितम् ॥ निबद्धो यत्र राजेन्द्र नायकप्रतिनायकौ ॥ ३ ॥ प्रयाणोपेतसंरोधयुद्धैर्युक्तं तदेव तु ॥ नायकस्याभ्युदयोपेतं महाकाव्यं तदिष्यते ॥ ४ ॥ वर्णयेन् महाकाव्ये देशपत्तणपा र्थिवान् ॥ ऋत्वादीन्दिनसंन्ध्याश्च तथा नारीश्च पार्थिव ॥ ५ ॥ वर्णनीयो नथेवान्नायकःप्रतिनायको ॥ नायको धर्मविजयी सताम्पन्थानमाश्रितः॥ ६॥ तथा च लोकविजयी विज्ञेयः प्रतिनायकः ॥ प्रतिनायकबधातस्तु वक्तव्यो नेतरस्य तु ॥ ७ ॥ नायकस्य महाराज मरणं नैव वर्णयेत ॥ सशरी रस्य यस्य स्यात्स्वंर्गप्राप्तिरितस्तस्य वर्णयेत् ॥ ८ ॥ छन्दोविरहितं गद्यं शब्दशास्त्रविरोधि च ॥ कथाक्षेपदन्याससमश्लेषलक्षणान्वितम् ॥ ९॥ तस्या

५३

वि० ध० ॥३१२॥

तृ०खं० अ० १३ ॥३१२॥

रपि ॥ ६ ॥ पुत्रपर्याय शब्दाश्च पितृपर्यायसंयुताः ॥ कण्ठनालोस्तथा संज्ञाः स्तनकेशरदस्य च ॥६॥ गुल्फनामानि कर्णेश्च द्रुहः प्रग्नो विधि र्निधिः ॥ कपोलनामानि तथा निर्यासौकुकणैक्ययः ॥ ७ ॥ कलिर्विन्दो घटो जूटः पटः पायुः कुरोऽङ्कुशः ॥ बिन्दुः स्वरः कुठारश्च पण शाणौ च पर्पटः ॥ ८ ॥ वटो बन्धः पुटो मृत्युर्मन्युः शोषः किणः फणः ॥ गुणोद्रुणो गणः पथ्या अश्वाड्डः पूग एव च ॥९॥ कमण्डलुः प्लवो ङ्गुष्ठ गण्डः स्थूलश्च कङ्कटः ॥ प्रस्थः शङ्को र्थ्यश्वश्च रसो वर्गस्तथो बुधः ॥ १० ॥ यवो माषस्तथा शब्दः स्पर्शो गन्धः शठो वणिक् ॥ करीषस्त रलो मंद्रो रथो मण्डप एव च ॥ ११ ॥ नक्तो तूपस्थैव ससुढौ लोक एव च ॥ कार्षापण्यः कोणमूसलौ ऊमूलः शूर्पदुर्दरौ ॥ १२ ॥ पञ्च पिण्याकऋपर्ण्यश्च वातण्डण्डकुरोङ्कुशाः ॥ १२ ॥ कुणपः ग्रैवेयश्चौ व कुन्तदण्डर्णवण्णुकाः ॥ ध्वजो वंशस्तथा वेणुः क्रिमिकल्किपिकंदराः ॥ १३ ॥ पुस्तकश्चाश्ववो द्रौहेरम्बुदौशन एव च ॥ १४ ॥ स्तंभः पशूर्मेदामिनदण्डकुम्भाः कटायुधस्तकबोकाः सफेनाः ॥ नितम्बषण्डेषु सुपर्णपुष्पाः पुंसि स्मृता यादववंशमुख्य ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽभिधानकोशे पुंल्लिङ्गनिर्देशो नाम द्वादशो ध्यायः ॥ १२ ॥ मार्कण्डेय उवाच ॥ अन्त्यलिङ्गेऽथ वर्तन्ते ये शब्दा नृपसत्तम ॥ तानहं संप्रवक्ष्यामि शृणुष्व गदतो मम ॥ १ ॥ जलनामानि सर्वाणि विनापो यदुसत्तम भ्रान्ताश्च पूर्वे येनोक्तास्ते शब्दा लोचनवाचकाः ॥ २ ॥ दृग्भो नान्तास्तथा ये च नोक्तास्ते यदुसत्तम ॥ असृग्वनं धनं सर्वं जरसोऽन्यच्च यादव ॥ ३ ॥ नपुंसके च वर्तन्ते शब्दा लोहनामभानि यानि च ॥ अहर्निशं शकृत्सास्थि धनुः शोणितदारुणी ॥४॥ क्षीरं विषासृक् दधि च सक्थि वा गूदजानीक्षणा॥५॥ श्मश्रुश्चक्रं कुलं पर्णं लोहनामानि यानि च ॥ गगनं वनमाकाशं सुखदुःखपदानि च ॥ कूपबीजेऽथ पल्ललं तरपद्म षण्ढं फलमूलमलानि च ॥ पुरं मधु खलं नालं चीवरं चीवरमम्बरम् ॥७॥ फलन्द्वन्द्राक्षराणि च ॥ ९ ॥ धान्यश्मशानरत्नोग्रद्वयत्नयुगानि च ॥ शवानि चा॥८॥निमित्तितीक्ष्णोपशितप्रमुञ्चमस्यानि चातोर्यपञ्चरवेलानि फलितं विषम् ॥ श्मशानं मिथुनं तत्त्वं क्लिबिषं विद्दलं हिमम् ॥११॥ गोपपत्तनसन्ध्यार्घमङ्गलद्युध्वनानि च ॥ १० ॥ नगरं हरितालं च तिमिरं पङ्किकं युगलं कूटं कपालं शूलहेमरे ॥ पातालं विवरं वृन्दं कुतूहलं शौष्ठ शरावं शिखरं पलम् ॥ वृतं च सुकृतं पुण्यं मलमंशुुकमेव च ॥ १२ ॥ इंद्रियं च तुङ्गिनं द्रगमस्पदम् ॥ १४ ॥ राष्ट्रं तलं रन्ध्रं छिद्रमाकाशमेव च ॥ १३ ॥ तृणं शुत्रमिमं चैव कुङ्कुमं शुष्कचीवरम् ॥ मृणालमजिनेः खङ्गं वहिनं नद्यां नपुंसके स्यात् ॥१५॥ इति श्रीविष्णुधर्मोत्तरे तृतीय किट्कफ तथाऽयुः स्थूलं स्खलीनं प्लक्षं पलायम् ॥ काष्ट रणं पार्श्वकुन्दरं च सन्देहेके चैव नपुंसके स्यात् ॥१५॥ इति श्रीविष्णुधर्मोत्तरे तृतीय

तस्यैव गृहकृत्यस्तु स पुरोहित इष्यते ॥ २७॥ अमात्यश्च स्मृतो मन्त्री देशो निश्चय उच्यते ॥ राजा नरेन्द्रो नृपतिस्तथैव सिंहासनं तस्य तथा सनं स्यात ॥ क्षत्ता प्रतीहार इति प्रदिष्टस्सङ्घस्तदण्डः कथितं तु वेत्रम् ॥ २२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधान कोशे चण्डालादिपर्य्यायवर्णनो नाम दशमोऽध्यायः ॥ १० ॥ मार्कण्डेय उवाच ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा मतिः पुष्टिः सरस्वती ॥ स्मृतिः श्रद्धा रतिश्चैव धृतिर्नीतिः स्थितिः श्रुतिः ॥ १ ॥ रात्रिः प्रभा क्षपा दीप्तिः शाला माला निशा स्पृहा ॥ दोला हेला तथा लीला भामिनी हृद्गुहाक्षुरा ॥ २ ॥ यात्रा भक्षा धृतिर्मात्रा दृशु सेना वचा तथा ॥ झटिः खोरी दया ज्योत्स्ना सीमा वेणुस्तथैव वाक् ॥ ३ ॥ तद्युक्तिः शलाका च ग्रीवा भ्रूश्च शतस्थाल्यदः प्रावृट् चाचमनी स्थूणा चूडा सिरा वसा ॥ ४ ॥ कक्ष्या सक्ता सुरा जंघा जटा घण्टा कशा तथा ॥ विद्युत्कक्षा- सारिङ्गीरिणिका रञ्जनिष्टिका ॥ ५ ॥ दिग्भूमिर्मिही क्षोणी क्ष्मा दैव वसुन्धरा ॥ छाया चस्र्द्धिका च तथा विद्युत्पित्सारित ॥ ६ ॥ इरा सम्पद्द्वा पञ्च लोला वेला तला शिला ॥ कङ्का च मेखला ज्वाला सेना दुर्द्वली समा ॥ ७ ॥ जया च म्लानिसंस्था हानिः शाटी स्वाहा तथैव गीः ॥ धीर्द्धिद्युः क्षमा बुद्धिः क्षुत्समशीः सवाङ्किका॥ ८ ॥ विशितेर्नवितविस्कोऽटस्वदिरोधधरा ॥ माया च शष्कुली जिह्वा घटोत्का स्वसुरेव च ॥ ९ ॥ लेखा जरा तथा पङ्किश्चेता प्राडुरोचका ॥ लाक्षा कृच्छ्रः प्रियङ्गुश्च माण्डका कटिरोषधिः ॥ १० ॥ ऋक्स्फुलिङ्गा कलिः शय्या कोटिः कन्या च नालिका ॥ निःश्रेणिः पूतना दीप्तिर्निद्रा तन्द्रा गुहा रुचिः ॥ ११ ॥ सान्ना दृशा तथा वीथी नीतिर्धारा तथा कृषिः ॥ मञ्जूषा पर्पटीचैव पताका काकिनी कृपा ॥ १२ ॥ पेला चैव समाजिह्वा मेरी नेमिनर्नःशिला ॥ दूर्वा स्थली सभा वीचिः स्थली चैव समञ्जसी ॥ १३ ॥ बह्वी मन्दुरा लाक्षा सूची चाविपणी शमी ॥ मक्षिका विकृतिर्यूका शिखा शास्त्रा तथारटवी ॥ १४ ॥ स्त्रीप्रत्यस्ते कथिता मयेते शब्दाः समा सस्यव्यसन राजन् ॥ इदं तमानन्त्यमुरोति सर्वं स्त्रीवाचकं शब्दसुरानित धीराः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० अभिधानकोशे स्त्रीलिङ्गनिर्देशो नामैकादशोऽध्यायः ॥ ११ ॥ मार्कण्डेय उवाच ॥ अतः परं प्रवक्ष्यामि चतुर्वर्णविवर्धन ॥ तव पुंवाचकाञ्छब्दान्शृणु तान्वदतो मम ॥ १ ॥ राजा हुतासस्तूसूर्य्या वायुश्चैवार्थसम्परूणः ॥ मन्ना प्लीहा च कथिता नाताबस्काः पुम- र्थकाः ॥ २ ॥ वृत्रः पुत्रस्तथा मन्त्रस्तथैवामन्त्र इष्यते ॥ पुंसि राशिर्मुर्द्धश्च मासः पञ्चोऽन्वत्सरो ॥ ३ ॥ ऋतुः कालो गिरिः शैलः शिलोच्च- यन्नगाचलाः ॥ सुरासुराणां संज्ञाश्च ग्राह्य. मोक्ता महोदधैः ॥ ४ ॥ संवत्सरश्च दिवसो ग्रहो वासर एव च ॥ पर्यायः पङ्कशय्योरितिनिश्चयो|

शीकराम्बुसमवस्थाश्च तुषारस्तूहिनं हिमम् ॥ विद्युत्सौदामनी लोला चञ्चला च शतह्रदा ॥ २० ॥ समुद्राश्चाम्बुनिधयः सागरा लवणोदकाः ॥ नद्यः कुटिलगामिन्यो निम्नगाः सरितस्तथा ॥ २१ ॥ गङ्गाविष्णुपदी प्रोक्ता जाह्नवी त्रिदशा तथा ॥ कालिन्दी यमुना प्रोक्ता रेवा प्रोक्ता च नर्मदा ॥ विपशा च सनन्दाख्या शतद्रुः शौरिसंज्ञिका ॥ २२ ॥ उद्भिदास्तथा सुराः प्रोक्ता यानि चोक्तानि तथोन्द्रियाणि ॥ वाणी तथोक्ता च सरस्वती च सनत्सुतोक्ते नृप चन्द्रसंज्ञम् ॥ २३ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अभिधानकोशो नाम नवमो- ऽध्यायः ॥ ९ ॥ ॥ मार्कण्डेय उवाच ॥ ॥ मनुष्यो मनुजश्चैव पुरुषः पुरुषस्तथा ॥ रामा योषित्तथा स्त्री च ललना च तथा स्मृता ॥ १ ॥ वरारोहा पुरन्ध्रीच श्रेष्ठा सा सत्कलोत्तिनी ॥ ब्राह्मणश्च तथा विप्रो राजन्यः क्षत्रियो मतः ॥ २ ॥ कीनाशश्च स्मृतो वैश्यः शूद्रश्चान्त्यज उच्यते ॥ चण्डालः पुल्कसः प्रोक्तो मातङ्गश्च तथोच्यते ॥ ३ ॥ हस्ती द्विप इभो दन्ती मातङ्गः कुञ्जरो गजः ॥ अश्वश्च तुरगः सादित्यौ वाजी हरिरस्तथा ॥ ४ ॥ गौस्तथाच्छागलोऽजश्च उस्त्रोऽथविवस्तथोच्यते ॥ ५ ॥ असिर्विशसनः खड्गस्तीक्ष्ण धारो दुरासदः ॥ श्रीगर्भो विजयश्चैव धर्मधारस्तथाऽक्षमः ॥ ६ ॥ सुवर्णं कनकं रूप्यं हेम कार्तस्वरं तथा ॥ जाम्बूनदं तद्देवानां रूप्यं रजतमित्यपि ॥ ७ ॥ उदुम्बरं स्मृतं ताम्रमयोलोहं प्रकीर्तितम् ॥ आरकूटं तथा रीती रत्नं माणिक्यमुच्यते ॥ ८ ॥ आतपत्रं स्मृतं छत्रं कम्बुः शंख उदाहृतः ॥ पङ्कजं कमलं पद्मं पुण्डरीकं प्रकीर्तितम् ॥ ९॥ तथा तामरसं चैव शतपत्रं तु दैवतम् ॥ इन्दीवरं चोत्पलं श्या- तक्कारं शुकमेव तत्॥१०॥ संध्याभासिजुर्भुदं च जन्ममाहाव एव च ॥ दानं संवननं प्रोक्तं विवाहो विनिवेशनम् ॥ ११॥ पत्नी भार्या तथा जाया सुतः पुत्रस्तनूद्भवः ॥ माता जनित्री जननी जनिता जनकः पिता ॥ १२ ॥ क्षयं तु भवनं प्रोक्तं मन्दिरं गृहमथ च ॥ भाण्डागारः स्मृतः कोशो धन्वनं युतिरित्यपि ॥ १३॥ वाहने पुंससंज्ञे स्याद्गमने पात्रमुच्यते ॥ वर्धमानं शरावे स्याच्चापं च धनुरुच्यते ॥ १४॥ सायकश्च शरः प्रोक्त इषुभीर्णः शिलोमुखः ॥ हस्तमोच्यः स एवोक्तो बृहतस्त्वथ तोमरः ॥ १५॥ शुण्युपकरणमित्युक्तमुपकारं नराधिप ॥ बालव्यजनमप्युक्तं तथा चामरसंज्ञितम् ॥ १६॥ मृजा शोभा विनिर्दिष्टा अलङ्कारो विभूषणम् ॥ प्रसाधनं मण्डनं स्याद्दलः सार उदाहृतः ॥ १७॥ अर्भकश्च स्मृतो बालो बाल्यश्वाश्वः किशोरकः ॥ हस्ती कलभ इत्युक्तो वत्सश्चोक्षा प्रकीर्तितः ॥ १८ ॥ सर्वथा केशरी सिंहः शार्दूलो व्याघ्र उच्यते ॥ विपिनं निर्जनं प्रोक्तमजिरं स्याङ्कणाङ्गणम् ॥ ॥ १९ ॥ उपनीय ददेद्यस्माचार्यः स उदाहृतः ॥ एकदेशमुपाध्यायौ ऋत्विग्यज्ञेहदुच्यते ॥ २० ॥ सांवत्सरो ज्योतिर्विद् दूतो भवति भूसुतः ॥

न्येषु विचक्षणः ॥ असुरा दानवा दैत्या गंधर्वा देवनायकाः ॥ २२ ॥ यक्षाः पुण्यजनाः प्रोक्ता यातुधानाश्च राक्षसाः ॥ अदृश्याश्च तथा भूताः पिशाचाः पिशिताशनाः ॥ २३ ॥ किन्नरास्त्वथः किंपुरुषा नागाः कद्रुसुता मताः ॥ सिद्धा विद्याधरा प्रोक्ता देवरामास्तथाप्सराः ॥ २४॥ महर्षयो भृगुकाः तथा ब्रह्मर्षयोमलाः ॥ प्रोक्ताः सप्तर्षयो लोके तथा चित्रशिखंडिनः ॥ २५ ॥ ध्रुवः स्थानुस्तथा प्रोक्तः शुकस्त्वासस्तथैव च ॥ आशा दिशस्तथा काष्ठा भचक्रं भगणं स्मृतम् ॥ २६ ॥ कृतानि शास्त्राणि नरेन्द्र पूर्वैः स्मृतिस्तथोक्ता श्रुतिरेव वेदः ॥ सम्यग्गदश्चारमिति प्रदिष्टं दूतं हि गच्छान्द्रविदो नरेन्द्र ॥ २७ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे देवादिराब्दपर्यायवर्णनं नामा ऽष्टमोऽध्यायः ॥ ८ ॥ संवत्सरोऽब्दो वर्षं च समा हायन एव च ॥ दिवसो वासरश्चैव दिनं चाहस्तथैव च ॥ १ ॥ दोषा विभावरी रात्रिः शर्वरी यामिनी क्षपा ॥ संविः प्रोक्ता तथा सन्ध्या अन्धकारं तमः स्मृतम् ॥ २ ॥ चन्द्रिका च तथा ज्योत्स्ना चैत्रो मधुमिति स्मृतः ॥ वैशाखो माधवः प्रोक्तः शुचिज्र्ज्येष्ठ ऽउदाहृतः ॥ ३ ॥ शुक्रः प्रोक्तस्तथाषाढो नभः श्रावण इष्यते ॥ प्रौष्ठपादो नमस्यश्च इषश्चाश्वयुजः स्मृतः ॥ ४ ॥ ऊर्जञ्श्रियः कार्तिकः प्रोक्तो मार्गशीर्षः सहस्तथा ॥ सहस्यः पौष इत्युक्तो माघः स्यात्तप एव च ॥ ५ ॥ फाल्गुनश्च तपस्याख्यो मासो वृद्ध कुलोद्भव ॥ तुलामेषगते भानौ विषुवद्दिनमुच्यते ॥ ६ ॥ धन्वतो मिथुनन्तञ्च अयने सोम्य दक्षिणे ॥ मेषान्ते च तुलान्ते च युगादिदिवसौ स्मृतौ ॥ ७ ॥ तथा विष्णुपदं प्रोक्तं कुलीरमकरान्तयोः ॥ कन्या मिथुनमीनानां प्रवेशे षडशीतथा ॥ ८ ॥ षडशीतिमुखं नाम ज्ञेयं दिन चतुष्टयम् ॥ रविश्मभिस्तप्ता वा करो दीर्घितिरेव च ॥ ९ ॥ सूर्योदयास्तममययोः स दीर्घः परिवेषिभवेत् ॥ तिर्यग्गतो मेघराजौ तदेव परिवेषो भवेत् ॥ १० ॥ तदेव दण्डसंस्थानो मेघो दण्डोभिधीयते ॥ शक्राचाप शक्रधनुः तदीर्घं रोहिते भवेत् ॥११॥ तदेव दण्डसंस्थानो मेघो दण्डोऽभि धीयते ॥ शक्र चापं शक्रधनुः तदीर्घं रोहिते मतम् ॥ १२॥ तत्पीतन्मपाल्यं क दुपास्यं प्रतिसूर्यकमू॥ चन्द्रार्कयोर्मेघराजितपरिवेषस्तुमण्डलम् ॥१३॥ स्वर्गाङ्गभ्रष्टफले क्षीणे पतन्होल्केति कथ्यते ॥ अनित्यः सरिसो दृष्टः तारकः केतुरिष्यते ॥ १४॥अग्निवर्णा तु दिङ्मुष्टा दिग्दाह इति विश्रुतः ॥ नगरं शून्यतो दृष्टं गन्धर्वनगरं स्मृतम् ॥ १५॥ निर्धातं स्तनितं प्रोक्तं विना मेधन्दिदर्शनोत् ॥ द्योतद्योतो रवं हरिः कथितस्त्वगुटिणका ॥ १६॥ मेघो घनं वारिदं व जीमूतं व बलाहकम् ॥ स्तनितं गर्जितं विद्याद् वृष्टिः प्रोक्ताः प्रवर्षणे ॥ १७ ॥ आसारो वेगवद्वर्षं पृषतो मंद उच्यते ॥ दृश्यमाने तथा सूर्ये दिव्ये प्रोक्तं च वर्षणम् ॥ १८॥ दृश्यमाने तथा चन्द्रे सामुतं परिकीर्तितम् ॥ वात्या वातसमुत्था स्यान्नीहारं तम उच्यते ॥१९॥

वि० ध० ॥३१०॥

तृ० खं० अ० ८

हकारोऽपि विधीयते ॥ ८ ॥ चतुर्थी नात्र विज्ञेया न च द्विवचनं क्वचित् ॥ पदादौ यो गुरुः सोऽत्र लघुरेव विधीयते ॥ ९ ॥ दिङ्मात्रमेतदुद्दिष्टं मध्या प्राकृतलक्षणम् ॥ प्रयोगादनुकर्तव्यो विस्तारो ह्यतिविस्तरः ॥१०॥ देशेषु देशेषु पृथग्विभिन्नं न शक्यते लक्षणतस्तु वक्तुम् ॥ लोकेषु यत्स्या- दुपधम्र्मसंज्ञं ज्ञेयं हि तद्देशविदोऽधिकारम् ॥ ११ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्राकृतभाषालक्षणं नाम सप्तमो- ऽध्यायः ॥ ७ ॥ मार्कण्डेय उवाच ॥ देवा दिवौकसो दिव्या गीर्वाणास्त्रिदशाः सुराः ॥ हरिनारादनो विष्णुर्वासुदेवस्त्वथोध्वजः ॥ १ ॥ नारायणो हृषीकेशश्चक्री गरुडवाहनः ॥ चक्रः संकर्षणोऽनन्तः शेषस्तालध्वजो हली ॥ २ ॥ प्रद्युम्नः कामदेवश्च चापी मकरकेतनः ॥ वज्रायुधोऽनिरुद्धश्च तथा वै ऋष्यकेतनः ॥३॥ लक्ष्मीः करीषिणी श्रीश्च तथा देवी विभावरी ॥ चक्रः सुदर्शनः प्रोक्तः शार्ङ्ग चापस्तु वैष्णवम् ॥४॥ माहेश्वरं पिनाकाख्यं वारुणं गण्डिवं भवेत् ॥ शाक्तमाग्नेयगं प्रोक्तं वज्रं कुलिशमुच्यते ॥ ५ ॥ वैष्णवी तु गदा प्रोक्ता तथा कौमोदकी नृप ॥ हलो लाङ्गल इत्युक्तः सानन्दं मुसलं स्मृतम् ॥ ६ ॥ पाञ्चजन्यः स्मृतः शङ्खः यं बिभर्त्ति जनार्दनः ॥ करेऽस्य कमलं प्रोक्तं तथाब्जालोक्यसंज्ञितम् ॥ ७ ॥ भूमिश्चसुधरा पृथ्वी क्षमा क्षोणी धरा मही ॥ ९ ॥ खं गगनं चैव तथाकाशं हरेः क्रमम् ॥ ८ ॥ तार्क्ष्यः सुपर्णो गरुडो हरिकेतनवाहनः ॥ नागानन्तो हलधरः शेषः तालध्वजी हली ॥ ९ ॥ ब्रह्मा पितामहः शंभुः स्वयम्भूसूर्यभावनः ॥ महादेवो भवः शंभुस्त्र्यंबकः पार्वतीपतिः ॥ १० ॥ उमा सती पर्वतजा मेनकाजा तथोच्यते ॥ भद्रकाली स्मृता दुर्गा गणाश्च प्रमथाः स्मृताः ॥ ११ ॥ विनायको गणपतिः कुमारः स्कन्द इष्यते ॥ इन्द्रः शक्रः कौशिकश्च पुरूहूतः पुरन्दरः ॥ १२ ॥ अग्निश्चैश्वानरो वह्निर्जातवेदो हुताशनः ॥ विवस्वतो यमश्चैव कीनाशः प्रेतनायिकः ॥ १३ ॥ विरूपाक्षो निरऋतिश्च तथा रात्रिचराधिपः ॥ यादसामीश्वरो देवः प्रचेता वरुणोऽधिपः ॥१४॥ तोयमंबु जलं चापः पानीयं सलिलं पयः ॥ वह्निः समीरणो वातः पवनः सर्वगोनिलः ॥ १५ ॥ राजराजो धनाध्यक्षस्तथैवैकविदः स्मृतः ॥ ईशानः शङ्करः शर्वः तथा पशुपतिः शिवः ॥ १६ ॥ नास्तत्यावश्विनौ प्रोक्तौ वसवो वसुसंज्ञिताः ॥ तथैवाङ्गिरसो नागा विश्वेदेवाग्निभोजिनः ॥ १७ ॥ वृषभावग्मारुद् भगवो मरुतो मताः ॥ साध्या धर्मसुताः प्रोक्ता आदित्या कश्यपात्मजाः ॥ १८ ॥ मारुतो मातरिश्वानो ग्रहाद्विसुवनेश्वराः ॥ नक्षत्राणि तथा तानि ऋक्षाणि च उडूनि च ॥ १९ ॥ आदित्यो भास्करः सूर्यः सविता रविरर्थमा ॥ चन्द्रः शीतकरः सोमः शशांको मृगला- ञ्छनः ॥ २० ॥ वक्रः क्षितिसुतो भौमो बुधो ज्ञः सोमनन्दनः ॥ बृहस्पतिर्गुरुर्जीवः शुक्र आत्मसुजिरेव च ॥ २१ ॥ सारणः पञ्चमः प्रोक्तो प्रम

॥३१०॥

साध्येनपरम् ॥ गवयादिव गोः सिद्धिरुपमानं तदिष्यते ॥ २८ ॥ साध्योऽर्थस्तत्कार्यो वाक्ये यस्मिन्प्रकृष्यते ॥ सार्थापत्तिर्दिवा भुङ्क्ते देवदत्त इतीति यत ॥ २९ ॥ निपातनाद्योगविभागाद्दर्शनाद्रूपदेशादनुवृत्तिकोऽपि ॥ स्वतन्त्रसिद्धेः परतन्त्रदर्शनात्प्रसाद्येह्यलक्षणतश्च षड्विधम् ॥३०॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रगुणदोषवर्णनो नाम पञ्चमोऽध्यायः ॥ ५ ॥ मार्कण्डेय उवाच ॥ अथ तन्त्रयुक्तयो भवन्ति अधिकरणं योगः पदार्थः हेत्वर्थ उद्द्देशो निर्देशः प्रदेशोऽतिदेशः अपवर्गो वाक्यविशेषोपपत्तिः प्रसंग एकान्तोऽनेकान्तः पूर्वपक्षो निर्णयो विधानमर्थापत्तिरेकान्तान्तावशेषो संशयो व्याख्यानममुमतसत्त्वंसञ्ज्ञानिर्वचनं दृष्टान्तो वियोगो विकल्पः समुच्चयोध इति । तदधिकरणं येन वाक्यार्थो बुध्यते संयोगो योगो विक्षिप्तसङ्घः स पदार्थो यदन्यत युक्तिसङ्घर्येस्य साधनं स हेत्वर्थः । समासवचनमुद्देशो विस्तरवचनं निर्देश एवमेवेत्युपदेशो नेन कारणेनेत्यपदेशः ॥ प्रकृतस्यानगतेन साधनं प्रदेशोऽतिक्रान्तेन सहि देशोऽभिप्राययुक्तैणमपवर्गो येनार्थः परिसमाप्यते । पदेनार्थाद्दर्पणे स त्नकपशेपो यद्कीर्तिसमर्यादामापद्यते सार्थापत्तिः । प्रकरणासिद्धिरुक्तेः केनचिदुपोद्घातेन पुनरभिधीयमानः प्रसंगः सर्वत्र गतथा स एकान्तः क्वचि त्तथा क्वचिदन्यथासत्वनेकान्तः प्रतिषेधवचनं निर्णयः प्रकरणमादौ पूर्वं विधानं तस्य प्रातिलोम्यं विपर्यय इत्युक्ताऽसावतिक्रान्ताय क्षणं परत्र वक्ष्यामि इत्यनागताविभूषणमुच्यते हेतुदर्शनं संशयः तन्त्रातिशयवर्णनातिव्याख्यानं परमतमप्रतिषिद्धमनुमतं परस्समत्तः शब्दः स्वसंज्ञा लोके प्रती तमुद्देशरणं निर्वचनं तद्गतिनिदर्शनं दृष्टान्त एवैति नियोग इदं वेदं वेति विकल्प इदं चेदं चेति समुच्चयोध यदनिर्दिष्टं युक्तिगम्यं तद् क्षामिति ॥ प्रयोजनं संशयनिर्णयो च व्याख्याविशेषा गुणलावथश्व ॥ कृतद्युदासो कृतशासनं च सांवितिको धर्मगुणोधकश्च ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तन्त्रशुद्धिर्नाम षष्ठोऽध्यायः ॥ ६ ॥ ॥ मार्कण्डेय उवाच ॥ अधातः संप्रवक्ष्यामि तव प्राकृतलक्षणम् ॥ ऋ ॠ ऌ ॡ न संत्यत्र तथा न च ञ मषावुभौ ॥ १ ॥ सकारहीना च तथा नासिक्स्याश्च तथा नृप ॥ रेफश्च शषवा राजन् संयोगे नास्ति कर्हिचित् ॥ २ ॥ एकारश्च तथौकारः पदमध्ये महाबलः ॥ दृढयोगे वकारेण डगयोगे तथैव च ॥३॥ ग्ययोगे गकारोऽत्र लोप मयाति नित्यदा ॥ दमो युक्तौ पृथक् कृत्वा दमौ कार्यौ तथैव च ॥ ४ ॥ ॠतयोगे दुकारस्याताकारस्सर्वमिष्यीते ॥ ककारः पदमध्योत्र वक्तव्यो हेलिवर्जितः ॥ ५ ॥ नकारस्य णकारः स्यात्सकारस्य स इष्यते ॥ तकारश्च थकारश्च डकारश्च ण एव च ॥ ६ ॥ क्वचित्व्योचितस्या राब्दा हकारश्च तथा क्वचित् ॥ डकारस्य तु वक्तव्यं बांकारस्य ह इष्यते ॥ ७॥ चकारस्य छकारः स्याद्युक्तरे ह्लू च लुप्यते ॥ युक्ते पकारे तद्धर्मि

वि० ध० ॥३०९॥

तृ० सं० अ० ५

रोऽस्याप्यथो नाम चतुर्थोऽध्यायः ॥ ४ ॥ अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् ॥ अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥ १ ॥ उत्सर्गाप- वादेन द्विविधं तत्प्रकीर्तितम् ॥ सूत्रं व्युदासश्च तथा तथोदाहरणं नृप ॥२॥ प्रत्युदाहरणं चैव चतुर्थं प्रकीर्तितम् ॥ वाक्यं चैवार्थवाक्यार्थः पदार्थः पदमेव च ॥ ३ ॥ चतुरङ्गमिदं चेति तथैवान्वयकीर्तितम् ॥ प्रतिज्ञा हेतुदृष्टान्तादुपसंहार एव च ॥ ४ ॥ तथा निगमनं चैव पञ्चावयवमिष्यते ॥ आरम्भोऽथापि संबन्धः सूत्रार्थैतन्निरूपणम् ॥ ५ ॥ चोदना परिहारश्च व्याख्या सूत्रस्य षड्विधा ॥ सूत्रेष्वेव हि तत्सर्वं यद्भूतं सङ्ग्रहात्मना ॥ ६॥ विस्तरस्तेन मतिं हन्ति समासोक्तं न गृह्यते ॥ समासविस्तरो हित्वा वक्तव्यं यदिदार्हितम् ॥७॥ अपार्थं व्यर्थत चैव पुनरुक्तं तथैव च ॥ तथा विभिन्न- संस्थानं युक्तिहीनं विवर्जयेत् ॥ ८ ॥ क्रमेदो विसंज्ञञ्च गुरुसूत्रं तथैव च ॥ अभिप्रायस्य चान्यत्वं नैतानि स्युरकारणात् ॥९॥ सर्वं कृत्वा पदच्छेदं समासं तदनन्तरम् ॥ समासे तु कृते पश्चादर्थं ब्रूयाद्विचक्षणः ॥ १० ॥ सूत्रार्थश्च पदार्थश्च हेतुश्च क्रमशस्तथा ॥ निरुक्तमथ विन्यासो व्याख्या- जोगस्य षड्विधा ॥ ११ ॥ प्रत्यक्षमनुमानं च तथोपवनं भवेत् ॥ त्रिभिः प्रमाणैः संयुक्तस्तत्त्वी प्रामाण्यमर्हति ॥ १२ ॥ प्रत्यक्षाभास- मयुक्तं तथा वै सुगतोक्तिका ॥ आभासमनुमानस्य बाष्पेरण्वह्नयो यथा ॥ १३ ॥ धूसरोकसञ्जनयतो न च वह्निमुपलब्धये ॥ आप्तत्वं दर्शयित्वा तु पञ्चनेनेव भाषितम् ॥ १४॥ तद्भासवचनाभासं वदन्ति नृपसत्तम ॥ रागाद्वेषोविनिर्मुक्त आप्त इत्यभिधीयते ॥ १५ ॥ नैरुक्तं द्विविधं विद्धि सिद्ध- मौपाधिके तथा ॥ निर्वक्तव्यं ततस्सिद्ध्यर्थसिद्धस्त्वं सर्वदा ॥ १६॥ तत्र त्वौपाधिकं सर्वं गौरश्वः पुरुषो यथा ॥ दृष्टार्थञ्च गुणोदीर्ते तद्वत्ख्यासि नृपाम- तज ॥ १७॥ गगणे नैमित्तिकोभक्तः संर्वादः कारिकस्तथा ॥ उपचारश्च संबन्धः गौणिको यौगिकस्तथा ॥ १८॥ गुणाद् दृष्टे गौणं पश्यामो महोदयम् मादयः ॥ निमित्ततस्तु रूपोक्तो दृष्ट्वोत्पादिके यथा ॥ १९॥ भक्त्या भक्तं नृसिंहास्यादमातरे च मातवत् ॥ समं वदन्ति यस्मिंश्च संवादीत्युत्तरी- यथा ॥२०॥ कार्तकः स्यात् कृतैको देवतातादिको यथा ॥ उपचारस्तूपचारोल्लापरो तुला यथा॥२१॥ संबन्धतस्तु संबन्धो दृष्टी मीमांसको यथा ॥ संयोगोऽपि संयोगः क्रियायाः क्रयिकः स्मृतः ॥ २२॥ षट्‌सुह्येषुद्वयो ज्ञेयः शक्तिकर्तकतया ॥ एवं परेषां च परं स्यान्नियमनिश्चयक्रमम् ॥ ॥ २३ ॥ स्वार्थो न प्रसिद्धेश्चेत्तस्यानार्थं विधिः शृणु ॥ यदिच्छं तु दृश्यत तत्साध्यं साधनैस्समैः ॥ २४ ॥ आत्मैन्द्रियमनोर्थानां संयोग उपादिश्यते ॥ ज्ञानंदर्शनादिसिद्धिं प्रत्यक्षमिति तद्विदुः ॥ २५ ॥ बुद्धया शरीरभूतात्मा बुध युक्तोऽहमित्यते ॥ सोऽध्यक्षैस्साधया विद्यादनुमानं तदि- ष्यते ॥ २६ ॥ वेदोविधाविरुद्धं यत्सा स्मृतिः शिष्टसंमता ॥ अप्रत्यक्षफले विद्यात्साधनं शास्त्रसंज्ञितम् ॥ २७ ॥ द्वयोः सहचारयोरेकं निर्दिष्टं

॥३०९॥

गुरुः स्मृतः ॥ लघुगुरुविभागेन प्रस्तारेणैन यादव ॥ १२ ॥
सर्वे छन्दोविकल्पाश्च भवन्ति बहुशो नृप ॥ स्वाख्यानानयने तेषां तथा वक्ष्यामि तच्छृणु ॥ १३ ॥
यावत्संख्याक्षरं च्छन्दस्तावन्तो गुरवो नृप ॥ स्थाप्या अधश्च पूर्वाणो लघु पूर्वस्य विन्यशेत् ॥ १४ ॥
अतोऽन्येषु त्ववस्थाप्यं नृपसुस्थ यथास्थितम् ॥ एवमेव विधिं कुर्यादादिश्य गुरुभिः पुनः ॥ १५ ॥
प्रक्षीणैरक्षैस्तावत्कुर्यादेतं नृपोत्तम ॥ यावदक्षरसंख्याः स्युः सर्वे हि लघवो नृप ॥ १६ ॥
एतत्स्यादाक्षरेच्छन्दो मात्राश्छन्दास्तथैव हि ॥ उक्तवर्णान्तरं छन्दो भवेत्कविविवर्जितः ॥ १७ ॥
यदा तदा निवृत्तसंज्ञो द्व्यधिकेन तमतथा ॥ वर्णद्वयेन रहितं विराडिति हि शब्दितम् ॥ १८ ॥
अधिकं च सुरासंज्ञं कथितं यदुसत्तम ॥ तेभ्यो भवन्ति सर्वाणि मात्राच्छन्दांसि यादव ॥ १९ ॥
दिक्मात्रमेतत्कथितं नरेन्द्र विस्ताराज्जिज्ञासुरतो मनुष्यः ॥
संसाधयेत्तत्त्वधिया यथावत्सुदुस्तरं विस्तरशो हि वक्तुम् ॥ २० ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे छन्दोविधानंनाम तृतीयोऽध्यायः ॥ ३ ॥

मार्कण्डेय उवाच ॥
तत्राप्युक्तमृषेर्द्वयं दीप्तं गम्भीरशब्दवत् ॥ कचिद्विक्लिसंयुक्तं वाक्यमेतत्स्रवंशुभः ॥ १ ॥
यत्किंचिन्मिथ्यासंयुक्तं युक्तं नाम विमुक्तिकिमैः ॥ प्रत्यक्षाभिहितं यच्च तादृशीनां वचः स्मृतम् ॥ २ ॥
नैगमर्षावविधेः शब्देर्निपातं बहुलं च यत् ॥ न चापि सुमहद्वाक्यमृषीणांनां वचः स्मृतम् ॥ ३ ॥
अविस्पष्टपदं ज्ञेयमृषिशुश्रूषवो नृप ॥ भूतमन्मथसंज्ञान जन्मदुःखविमुक्तसनम् ॥ ४ ॥
मित्राणां तद्वदेवांगस्य गर्भेषु च प्रवर्तनम् ॥ आज्ञायुक्तं च वचनं तथा हेतुविवर्जितम् ॥ ५ ॥
राजर्षीणां तु विज्ञेयं बह्वर्थं बुद्धिविस्तरम् ॥ बहुविधानं बह्वर्थं देवतानां प्रकीर्तितम् ॥ ६ ॥
बहुविधानमल्पार्थं दानवानां प्रकीर्तितम् ॥ अल्पाभिधानमल्पार्थं गन्धर्वाणां तथा भवेत् ॥ ७ ॥
दुर्बोधं विषमं चैव राक्षसानां प्रकीर्तितम् ॥ गूढाक्षरं तु यक्षाणां किन्नरैरुक्तमेवतथा ॥ ८ ॥
नागानामतिमतिविस्पष्टं पुनरुक्तसमन्वितम् ॥ रागद्वेषसमायुक्तं हेतुमत्पौरुषं भवेत् ॥ ९ ॥
मन्त्रा नवाविधाः प्रोक्ताः ऋग्यजुःसामलक्षणाः ॥ स्तुतिर्निन्दा प्रशंसा च आक्रोशः प्रेष्य एव च ॥ १० ॥
प्रश्नोऽनुज्ञा तथाख्यानमाशारिस्ताविषया मताः ॥ एवं ते सर्वविद्यानां विहितं सर्वलक्षणम् ॥ ११ ॥
पौरुषे विद्यते तत्त्वं नान्यत्रेति विनिश्चयः ॥ स्वभावाञ्च च्यवन्तेऽथ ये श्रोता नरवाजिताः ॥ १२ ॥
दृश्यन्ते हि पुमाञ्कश्चित्कश्चिच्छ्रेष्ठतमो धिया ॥ तस्मात्तेनैव तस्योक्ता बुद्धिः श्रेष्ठतमा नृप ॥ १३ ॥
एतन्मयोक्तं सुपरीक्षणं ते वाक्यस्य भो वाक्यविदां वरिष्ठ ॥
विचक्षणैर्पत्र च रागस्तस्तु ज्ञेयं तथा द्वेषसमागमाच्च ॥ १४ ॥
दिव्येन तुल्यं यदि वर्णवाक्यैः वाक्येन तुल्यं यदि वा परेणा।
वाक्यं नराणां तुपरागतस्तु ज्ञेयं यथोद्देशसमागतत्वात्॥ १५॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वाक्यप

वि० ध० ॥ ३०८॥ तृ० खं० अ० ३ ॥ ३०८॥

वेत्ति यथाविधि ॥ ७ ॥ वज्र उवाच ॥ गीतशास्त्रं समाचक्ष्व सर्वभूतहितं वर ॥ गीतशास्त्राविदश्चाद्य सर्वज्ञः पुरुषोत्तमः ॥ ८ ॥ मार्कण्डेय उवाच ॥ संस्कृतं प्राकृतं चैव गीतं द्विविधमुच्यते ॥ अपभ्रष्टं तृतीयं च तदनन्तं नराधिप ॥ ९ ॥ देशभाषाविशेषेण तस्यानन्तो नेह विद्यते ॥ गीतं पाठवशाज्ज्ञेयं स च पाठो द्विधा मतः ॥ १० ॥ गद्यं पद्यं च धर्मज्ञ गद्यं संख्यया स्मृतम् ॥ पद्यं छन्दोविशेषेण च्छन्दश्च बहुधा भवेत् ॥ ११ ॥ गद्यमप्यनुप्रासेन ज्ञेयो लक्षणसंयुतौ ॥ पद्यं च द्विविधं तत्र वृत्तमात्रामृतिक्रमम् ॥ १२ ॥ एकविंशतिसंख्याः स्युः सुपः सुप्तिङ्गरं स्मृतम् ॥ प्रथमः पुरुषस्त्वेको द्वितीयो मध्यमो मतः ॥ १३ ॥ उत्तमश्चापरस्तूक्तस्तु तिक्रियावचनं त्रिकम् ॥ तिङश्च नवकं तत्र परस्मैपदसंज्ञकम् ॥ १४ ॥ आत्मनेपदसंज्ञं च नवकं परिकीर्तितम् ॥ युष्मद्युपपदे तत्र मध्यमः पुरुषो भवेत् ॥ १५ ॥ अस्मद्युपपदे चैव स्यात्तथोत्तमसंज्ञकः ॥ शेषे प्रथममित्युक्तं पुरुषं यदुसत्तम ॥ १६ ॥ अर्थे प्रातिपदिकस्य स्वाद्यौ वचनमन्वये ॥ परिमाणे च कथिता विभक्तिः प्रथमा बुधैः ॥ १७ ॥ द्वितीया कर्मणि मता तृतीया करणे स्मृता ॥ कारके कर्माणि तथा सैव चान्यैः प्रकीर्तिता ॥ १८ ॥ चतुर्थी संप्रदाने स्यादपादाने च पञ्चमी ॥ संबंधे च तथा षष्ठी सप्तम्याधारभावयोः ॥ १९ ॥ तेषां तु पूर्वमेवोक्तं व्याख्यानं रिपुसूदन ॥ द्वितीयं तव धर्मज्ञ मया तत्परिकीर्तितम् ॥ २० ॥ प्रातिपदिकमिह स्वं प्रकृतिः स्यातत्प्रकृतिमपि धातुरिच्छन्ति ॥ वाङ्मयमखिलमनेन निबद्धं गद्यमपि पद्यपद्यसमेतम् ॥ २१ ॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे शब्दव्याख्यानो नाम द्वितीयोऽध्यायः ॥ २ ॥

मार्कण्डेय उवाच ॥ षडक्षरेण पादेन गायत्रं छन्द उच्यते ॥ उष्णिक् सप्ताक्षरं चैव अष्टाक्षरमनुष्टुभम् ॥ १ ॥ नवाक्षरा च बृहती पंक्तिसंज्ञं दशाक्षरम् ॥ एकादशाक्षरं त्रिष्टुब्जगती द्वादशाक्षरा ॥ २ ॥ त्रयोदशाक्षरं ज्ञेयमतिपूर्वं तथैव हि ॥ चतुर्दशाक्षरा चैव शक्करी यदुनन्दन ॥ ३ ॥ अतिशक्करी च कथिता तथा पञ्चदशाक्षरा ॥ षोडशाक्षरमिच्छन्ति च्छन्दोऽष्टिरिति यत्सत्तम ॥ ४ ॥ अत्यष्टिसंज्ञं छन्दश्च तथा सप्तदशाक्षरम् ॥ अष्टादशाक्षरं चैव धृतिसंज्ञं प्रकीर्तितम् ॥ ५ ॥ तथातिधृतिसंज्ञं च विशतिस्त्वेकवर्जिता ॥ विशत्यक्षराणि स्युः कृतिसंज्ञं यदुत्तम ॥ ६ ॥ विशतित्रिसंयुक्ता प्रकृतिः परिकीर्तिता ॥ द्वाविंशतियुतं कथितं तथैवाकृतिसंज्ञकम् ॥ ७ ॥ त्रयोविंशतिश्च विकृतिः सा चैकातस्तुकल्पिता ॥ संकृतिश्चैकसंयुक्ता कथिता विकृतिर्नृप ॥ ८ ॥ षड्विंशतिश्चातिधृतिश्छन्दोऽस्ति मनीषिभिः ॥ पृथग्गद्यं चतुर्भिः स्वैः पादैरेतानि निर्दिशेत् ॥ ९ ॥ मात्रकस्तु लघुर्वर्णः स्पष्टलेखाभिचिह्नितः ॥ संख्यायः स्याद्विमात्रास्तु गुरुर्वक्रस्तथा भवेत् ॥ १० ॥ लघ्वन्तश्च यो वर्णः स गुरुश्च भवेन्नृप ॥ दीर्घयुक्तो च कथितो तथैव गुरुसंज्ञकौ ॥ ११ ॥ संयोगाद्याः परे यस्मात्स लघुश्च

ॐ श्रीगणेशाय नमः ॥ ॥ ॐ नमो नारायणाय ॥ ॥ अथ श्रीविष्णुमहापुराणे विष्णुधर्मोत्तरेतृतीयखण्डप्रारम्भः ॥ ॥ वज्र उवाच ॥ किं कर्तव्यं मनुष्येण किं कुर्वन्सुखमेधते ॥ अस्मिंल्लोके परे चैव केनमोहेति महद्वसृम् ॥ १ ॥ मार्कण्डेय उवाच ॥ ॥ अन्त- र्बाद बहिवैदि पुरुषेण विजानता ॥ देवताद्विजनं कार्यं लोकद्वयमभीप्सता ॥ २ ॥ यक्षेषु देवयजनमन्तर्वेदि प्रकीर्तितम् ॥ बहिर्वेदि तथैवो- क्तमुपवासाद्वितादिकम् ॥ ३ ॥ इष्टापूर्तेन लभ्यन्ते ये लोकास्तान्बुभूषता ॥ ३ ॥ देवानामालयः कार्यो द्वयमप्यत्र दृश्यते ॥ विशेषेण कलौ काले कर्तव्यं देवतार्चनम् ॥ ४ ॥ कृतेत्रेताद्वापरेषु नराः पश्यन्ति देवताम् ॥ तिष्ये प्राये न पश्यन्ति पूजास्त्वर्चिता गताः ॥ ५ ॥ कृता- दिष्वपि दृष्टा च देवासन्दर्शनक्षमम् ॥ अर्चागतास्त्वशेषेण भुञ्जन्ति विधानतः ॥ ६ ॥ चित्रसूत्रविधानेन देवतार्चा विनिर्मिताम् ॥ सुरूपां पूजये- द्विद्वांस्तत्र संनिहिता भवेत् ॥ ७॥ स्वाकारां लक्षणोपेतां यस्तां संपूजयेन्नरः ॥ स सर्वकामानवाप्नोति नात्र कार्या विचारणा ॥ अस्मिंल्लोके परे चैव सुखवान्स भवेत्सदा ॥ ८ ॥ अपार्थां लक्षणैर्हीनां यस्तु पूजयते नरः ॥ तस्यानर्था विवर्धन्ते तस्मात्तां च विवर्जयेत् ॥ ९ ॥ प्रासादकरणं पुण्यं देवार्चाकरणं तथा ॥ सुरार्चापूजनं पुण्यं तत्र पुण्या नमस्क्रिया ॥ १० ॥ तस्मात्सर्वप्रयत्नेन सुरार्चा लक्षणाभ्विताम् ॥ कारयेत्पूजने विद्वांस्त- त्त्वलक्षणसंयुताम् ॥११॥ धर्ममर्थं तथा कामं मोक्षं च यदुनन्दन ॥ प्रयच्छन्ति महाराज नराणामिह देवताः ॥ १२ ॥ कामानिष्टान्प्रयच्छन्ति स्वर्गमप्यत्यतम्भवं च ॥ तस्मात्सर्वप्रयत्नेन नृणां पूज्या दिवौकसः ॥ १३ ॥ नित्यं नराणां सुखपूजकनरा लोका मनोज्ञाः सुलभा भवन्ति ॥ लोके तथास्मिन्धनधान्ययुक्ताः समृद्धिभाजश्च नरा मन्ति ॥ १४ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चित्रसूत्रे प्रथमोऽध्यायः ॥ १॥ वज्र उवाच ॥ देवतारूपनिर्माणं कथयस्व ममानघ ॥ यस्मात्संनिहिता नित्यं शास्त्रवत्सादसहिद्भवेत्॥ १॥ मार्कण्डेय उवाच॥ चित्रसूत्रं न जानाति यस्तु सम्यङ् नराधिप ॥ प्रतिमा लक्षणं वेत्तुं न शक्यन्तेन कर्हिचित् ॥ २ ॥ वज्र उवाच ॥ चित्रसूत्रं समाचक्ष्व भृगुवंश विवर्धन ॥ चित्रसूत्राद्विदेवाथ वेत्ति वाग्गलक्षणं यतः ॥ मार्कण्डेय उवाच॥ विना तु नृत्तशास्त्रेण चित्रसूत्रं सुदुर्विदम् ॥३॥ जगत्पते न क्रिया कार्या द्वयोरपि यतो नृप ॥ वज्र उवाच ॥ नृत्तशास्त्रं समाचक्ष्व चित्रसूत्रं वदिष्यसि ॥ नृत्तशास्त्रविधानेन च चित्रं वेत्ति यतो द्विज ॥४॥ मार्कण्डेय उवाच॥ आतोद्य यो न जानाति तस्य नृत्तं हि दुर्विदम् ॥ आतोद्येन विना नृत्तं विद्यते न कथंचन ॥ ५ ॥ वज्र उवाच ॥ आतोद्यं त्वं हि धर्मज्ञ नृत्तशास्त्रं वदि- ष्यसि ॥ तस्मिन्सुविदिते वेत्ति नृत्तं भार्गवसत्तम॥६॥ मार्कण्डेय उवाच ॥ न गीतेन विना शक्यं ज्ञातुमातोद्यमच्युत ॥ गीतशास्त्रविधानज्ञः सर्व

The provided image is completely blank and contains no text to transcribe.

॥ अथ श्रीविष्णुमहापुराणे २ भागे विष्णुधर्मोत्तरे तृतीयखण्डप्रारम्भः॥

वि० ध०
॥३०६॥

द्वि० खं०
अ० १८३

विज्ञेण मूले यस्य स्यादाध्वस्थानं महाभुजः ॥ पताकानां गुणे यस्य आयुधानां समर्पणम् ॥ १६ ॥ समागन्तं महाभागं तथा सारथिरक्षणम् ॥
स्यान्तां धनुर्भूगे तत्र तथा च रथिनोऽग्रगौ ॥ १७ ॥ योधौ धनुर्धरौ श्रेष्ठ सर्वायुधविशारदौ ॥ तुरगांश्च सुसन्नद्धा दान्ताः कार्य्यास्तथा रथे ॥
॥ १८ ॥ तुल्यसंवत्सराश्चैव तथा लक्षणैरुच्छ्रिताः ॥ अतः परं प्रवक्ष्यामि तव नागेन्द्रकल्पनम् ॥ १९ ॥ कुञ्जरः स्यात्सुसन्नद्धः सवर्णगणः कुथा-
वृतः ॥ सर्वायुधधरश्चैव तथा योधा वरायुधाः ॥२०॥ पृष्ठारूढावरौ तत्र स्यात मङ्गुष्ठद्वितौ ॥ २१ ॥ एकः पृष्ठिरथस्तस्तत्र द्वितीयः स्कन्धगो भवेत् ॥
पताका च तथा कार्य्या कुञ्जरस्य सुशोभना ॥ वराङ्कुशधरो तत्र स्यातौ मङ्गुष्ठद्वितौ ॥ २२ ॥ तयोस्तुभ्रमतौ वे तथा रक्षाविधायिनौ ॥ एकः पाणिस्थितस्तत्र वंशशक्तिपताकयुक्त ॥ २४ ॥
योधौ द्वौ धनुषाद्युक्तौ द्वौ च खड्गधरौ नृपौ ॥ २३ ॥ एवं परस्परायत्ता रक्षा तेषां वृथा भवेत् ॥ २६ ॥ महामात्रस्य धर्मज्ञ तथा च गजयोधिनः ॥ एवमेव
पाल्यञ्चाध्वनं यद्वद्धनुर्द्धरस्य महात्मने ॥ एवं परस्परायत्ता रथा तेषां वृथा भवेत् ॥ २६ ॥ रथेऽश्वे गजे वापि तुरगाणा

च भुजाद्विसमं तथा ॥ १७ ॥ क्रोशद्भूतविमार्गं च पदाह्विति विपादकम् ॥ गात्रसंश्लेषणं कान्तं तथा गोविधिकर्षणम् ॥ १८ ॥ ऊर्ध्वप्रहारं घातं च गोमूत्रं सव्यदक्षिणम् ॥ पादसंभारकं गण्डं कवरीबन्धमाकुलम् ॥ १९ ॥ तिर्यग्गतमपामार्गं भीसवेगं सुदर्शनम् ॥ सिंहक्रान्तं गजक्रान्तं वृष- भाक्रान्तमेव च ॥ २० ॥ गदाकर्म विजानीयाद्बुद्धेर्बुद्धिविशारदः ॥ आक्षेपणं विकर्षं च बाहुनामनमेव च ॥ २१ ॥ ग्रीवाविपरिवर्त्तं च पृष्ठभङ्गं सुदारुणम् ॥ पर्णासनं विपर्यासः पशुरामसगात्रिकम् ॥ २२ ॥ पादप्रहारमास्फोटं करिविरोचितकं तथा ॥ गात्रश्लेषं कण्ठगते महीत्याजन- मेव च ॥ २३ ॥ उत्लोलाटघातं च विस्पष्टकरणं तथा ॥ उद्धतमवधूतं च तिर्यग्मार्गगतं तथा ॥ २४ ॥ गजस्कन्धमवक्षेपमबाहुसक्तमेव च ॥ देवमार्गम्शोणमार्गसंसर्गममनाकुलम् ॥ २५ ॥ इतिपातसमक्षेपो वसुधारणं तथा ॥ जानुबन्धं संजानुबन्धं ऊरुबन्धं सुदारुणम् ॥ २६ ॥ संसृष्टं सोदरं शूभ्रं भुजावक्षिप्तमेव च ॥ नियुद्धकर्म जानीयान्नियुद्धकुशलो जनः ॥ २७ ॥ प्रधानकर्माणि तवेरितानि न्यस्तप्रधाने पुरुषप्रवीर ॥ नामानि रूपाणि भवन्ति तानि ज्ञेयानि सर्वाणि यथानुरूपम् ॥२८॥ इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्यावर्णनो नाम द्व्यशीत्युत्तरशततमोऽध्यायः ॥ १८२ ॥ ॥ पुष्कर उवाच ॥ सन्नद्धैश्चामिसंनार्य्ये तथा बद्धकृपाणिभिः ॥ चर्म्माणि तत्र वैय्याघ्रमाहिषाण्युपथाणि च ॥ १ ॥ खेटकाद्य च वा राम चर्म्माणि प्रभवन्ति तु ॥ तथा वरुणमुल्यानि खड्गानि विविधानि च ॥ २ ॥ बद्धा- दिभिः सतूणीरैस्तथा राम सतोमरैः ॥ बद्धगोधाङ्गुलित्राणैर्बद्धदेशैर्विभीषणैः ॥ ३ ॥ तथा परश्वधोपेतै राम स्वासनयोधिभिः ॥ ४ ॥ गदा- धरैस्तथैवान्यैः सकृत्पाणिपरिच्छदाः ॥ सुसंनद्धाः सुमनसो मयेयुर्विपुलो जसः ॥ ५ ॥ युद्धं यस्य विशेषेण शस्त्रास्त्रैर्वितकौशलम् ॥ तदेव तस्य निर्द्दिष्टं यथानवमनुजोत्तम ॥ ६ ॥ स्रवल्लीनाः सपर्याणस्तथा सास्तरणा हयाः ॥ कार्याः सकवचा युद्धे चामरापीडधारिणः ॥ ७ ॥ अश्वौ- मतेत्समुत्सोढो रश्मिप्रग्रहकोविदः ॥ तथा सावरणी राम सकृपाणी परिच्छदः ॥ ८ ॥ बद्धासिर्बद्धजीवश्च तुरगारूढपिण्डकः ॥ समुत्प्रासो भवद्राम नानायुधधरस्तथा ॥ ९ ॥ रथः कार्यस्तथा युक्तः ईषादण्डकबन्धुरैः ॥ सुचक्रोपरस्कुशयुतः सर्वदण्डः पताकराट् ॥ १० ॥ त्रिवेणुसंततश्चैव वैयाघ्रपरि- वारणः ॥ किंकिणीजालनिर्घोषस्तथा वै सुप्रतिष्ठितः ॥ ११ ॥ उपासङ्गिनिषङ्गीच तूणीरवरकार्मुकैः ॥ सर्वयुद्धोपेतश्च तथा वृक्षावृतीवृतः ॥१२॥ तोयजीर्णकपिण्डीभिर्युक्तः शुद्धैस्तथैव च ॥ सन्नद्धः सारथिस्तत्र सवेष्टाम प्रतोदवान् ॥ १३ ॥ रश्मिग्रहणविद्यापि तथा मण्डलकोविदः ॥ तथाश्व- हृदयज्ञश्च दृढदृष्टिः सुयन्त्रितः ॥ १४ ॥ स्वासनः कालविच्चैव बद्धासिः पाशसंयुतः ॥ पार्ष्णिः स्यादयुद्धज्ञस्य तथैवायुधकोविदः ॥ १५ ॥

वि० ध०
॥३०५॥

द्वि० खं०
अ० १८२


विजित्य तु पृथग्न्यायं ततो बन्धं समाचरेत् ॥ कट्यां बद्धा ततः खड्गं वामपार्श्वावलम्बिनम् ॥ १० ॥ दृढं विगृह्य
वामेन विक्षिप्तं दक्षिणेन तु ॥ षडङ्गुलगृहीतं संहस्तं¹ समुत्क्षिप्तम् ॥ ११ ॥ अयोमयशिलाकाष्ठ चर्म्माणि विविधानि च ॥ आहतस्तं
समं चैव तिर्यगूर्ध्वहतं तथा ॥ १२ ॥ शोधयेच्चिह्निना येन तथा मे गदतः शृणु ॥ त्राणं चर्मणश्छाद्यं स्थापयित्वा नरं दृढम् ॥ १३ ॥ करेणादाय
खड्गं दक्षिणेनाप्लुतक्रमाः ॥ उद्यम्य घातयेद्यस्य नावस्तं हिंसतो दृढम् ॥ उभाभ्यामपि हस्ताभ्यां कुर्यात्तस्य निपातनम् ॥ १४॥ बिम्बोऽथ विधि
सहितो हि सः सुमुक्तिः रिख्याणां हितमुक्तिकैषा मया ते ॥ बाहानां श्रमरणभयारणार्थं योग्यं प्रथमतरं बुधेन बोध्यम् ॥ १५ ॥
इति श्रीविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्याने धनुर्वेदविद्याकथनो नामैकाशीत्युत्तरशततमोऽध्यायः
॥ १८१ ॥ पुष्कर उवाच ॥ भ्रान्तमुद्भ्रान्तमाप्लुतं विप्लुतं सृतम् ॥ संपातं समुदीर्णं च सेनापात मनाकुलम् ॥ १ ॥ उद्धावमवधूतं च
सव्यं दक्षिणमेव च ॥ अनालक्षितविस्फोटौ करालैन्द्रमहासखौ ॥ २ ॥ विकरालोऽवपातौ च विभीषणभयङ्करौ ॥ समग्रं वा तृतीयां वा पादपादा
वजाङ्गिजाः ॥ ३ ॥ प्रत्यालीढमनालीढं वराहकलितं तथा ॥ इति द्वात्रिंशद्धा ज्ञेया खड्गकर्मविधौगुणाः ॥ ४ ॥ ऋज्वायतविशालं च तिर्यङ्नमित
मेव च ॥ पक्षकर्म विनिर्दिष्टं व्यध्रे प्रासं महामसिः ॥ ५ ॥ छेदनं तर्जनं पातो भ्रमणं भ्रामणं तथा ॥ विकर्तनं कर्तनं च चक्रभ्रम एव च ॥ ६ ॥
आस्फोटवेदनं भेदस्त्रासोल्लासितको तथा ॥ शूलकर्म्माणि जानीहि पृथग्भावातसंज्ञकम् ॥ ७ ॥ दधिवातं भुजावातं पार्श्ववातं च भार्गव ॥
ऋजुवातलोपमाघातं तोमरस्य प्रकीर्तितम् ॥ ८ ॥ संतातविततं वामं गोमूत्रं कमलावलिम् ॥ ततोऽर्धमवनामितं वामदक्षिणमेव च ॥ ९ ॥
व्यावृतं च परावृतं पादोद्धूतमविप्लुतम् ॥ हंसमार्गप्रभागं च गदाकर्म प्रकीर्तितम् ॥ १० ॥ करालमथपातं च विक्षेपोपप्लवेव च ॥ क्षिप्तं हस्त
स्थितं शून्यं परगात्रं विनिर्द्दिशेत् ॥ ११ ॥ ताडनं छेदनं भङ्गं तथा चूर्णनमथ च ॥ मुद्गरस्य तु कर्माणि भिण्डस्य च तान्यपि ॥ १२ ॥
अनल्पमध्यं परावृत्तं निदेशार्द्ध तथैव च ॥ वज्रस्यैतानि कर्माणि पट्टिशस्य तथैव हि ॥ १३ ॥ हरणं छेदनं घातो भेदनं रक्षणं तथा ॥
कृपाणीकर्म निर्दिष्टं पातनं स्फोटनं तथा ॥ १४ ॥ त्रासनं रक्षणं घातं ततोद्धरणमथाञ्चितम् ॥ क्षेपणीकर्म निर्दिष्टं यन्त्रकर्मतदेव तु ॥ १५ ॥ सन्ध्या
गामङ्गमर्द्दश्य वगहोद्धूतकं तथा ॥ हस्तानिवर्हतनपालीनामक्ष्दस्ततोर्द्धहस्तकम् ॥ १६ ॥ द्वितस्तबाहुपादौ च कोटिरोचितकोद्धतौ ॥ उरो ललाटघातो


¹ 'संहस्तम्' इति ख० ।

॥३०५॥

<!-- Page 810 (Illustration / Blank Page) -->
<!-- Page 811 (Illustration / Blank Page) -->
<!-- Page 812 (Illustration / Blank Page) -->
<!-- Page 813 (Illustration / Blank Page) -->