विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 853, कुल 1001 में से
संदर्भ में पढ़ेंइति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अष्टकवक्रदिक्संवादो नाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥ मार्कण्डेय
उवाच ॥ व्रतं कंचिन्ममाचक्ष्व सर्वकल्मषनाशनम् ॥ व्रतानामुत्तमं ब्रह्मन्पवित्रं पुण्यवर्धनम् ॥ १ ॥ मार्कण्डेय उवाच ॥ रोचं तु पौरुषं प्राप्य
सोपवासो जितेन्द्रियः ॥ २ ॥ पौरुषेण च सूक्तेन स्नातः प्रयतमानसः ॥ तेनैव तर्पणं कृत्वा जाप्यं च मनुजोत्तम ॥ ३ ॥ अष्टपत्रस्य पद्मस्य
मध्ये हंसं जनार्दनम् ॥ पौरुषेण च सूक्तेन सत्कृतं पूजयेन्नरः ॥ ४ ॥ पुष्पैर्गन्धैस्तथा धूपैः फलैश्च तदनन्तरम् ॥ दीपेन च ततो राजन्नैवेद्येन
ततः परम् ॥ ५ ॥ पौरुषेण च सूक्तेन ततो वह्निं समर्चयेत् ॥ ततस्तु धेनुर्दातव्या कर्मान्ते च पयस्विनी ॥ ६ ॥ संवत्सरमिदं कृत्वा व्रतं परम-
पावनम् ॥ सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥ ७ ॥ अश्वमेधमवाप्नोति राजसूयं च विन्दति ॥ मुक्त्वा भोगांस्ततः पश्चान्मोक्षमाप्नो-
त्यसंशयम् ॥ ८ ॥ माङ्गल्यमेतत्परमं पवित्रं श्रीवर्धनं धर्मविवर्धनं च ॥ व्रतोत्तमं पापहरं नृलोके हंसव्रताख्यं पुरुषेण कार्यम् ॥ ९ ॥ इति
श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे हंसव्रतनिरूपणो नाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२५ ॥ वज्र उवाच ॥
विष्णुना देवदेवेन हंसरूपेण किं कृतम् ॥ एनं मे संशयं छिन्धि मार्कण्डेय महामुने ॥ १ ॥ मार्कण्डेय उवाच ॥ आसीत्प्रजा ज्ञाननिष्ठा पूर्वं कृत-
युगे नृप ॥ जनानां ज्ञाननिष्ठत्वात्तदा यदुकुलोद्वह ॥ २ ॥ स्वयं प्रवृत्तमभवत्तथा देवयजनानि च ॥ तथा कृतयुगस्यान्ते प्रावर्तन्त परिग्रहे ॥ ३ ॥
परिग्रहात्ततो लोभो लोभाद्वेषोऽभवत्ततः ॥ रागद्वेषाभिभूतानां ज्ञानमन्तर्दधीयत ॥ ४ ॥ नष्टज्ञाने तथा लोके धर्मो नाशमुपागमत ॥ धर्मे नष्टे
तु नश्यन्तं दृष्ट्वा लोकं जनार्दनः ॥ ५ ॥ भूत्वा हंसरूपेण¹ वर्णे विजहार महीमिमाम् ॥ सुपक्षो हेमचरणः सुचक्षुः स्वायतेक्षणः ॥ ६ ॥ स महर्षीं-
स्तदा देशे कस्मिंश्चित्संस्थितान्नृप ॥ ध्यायन्तो मूढविज्ञानाः किंकर्तव्यपरायणाः ॥ ७ ॥ स तान्दृष्ट्वा तु पप्रच्छ तेषां कुशलमव्ययम् ॥ ते तमूचुः
कुतो नष्टे ज्ञाने नः कुशलं द्विज ॥ ८ ॥ तानब्रवीन्मुनीन्सर्वान्स हंसः पक्षिराट् ततः ॥ ज्ञानं प्रकाशयिष्यामि तं निबोधत सत्तमाः ॥ ९ ॥
एतच्छ्रुत्वा शुभं वाक्यं हंसेनोक्तं महात्मना ॥ हंसमूचुर्महात्मानो भव त्राता द्विजोत्तम ॥ १० ॥ ज्ञाननाशेन सकलं मा नश्येदखिलं जगत् ॥
आदावेव त्वमात्मानं ब्रूह्यस्माकं महामते ॥ ११ ॥ वयं हि भ्रष्टविज्ञानास्त्वां न विद्मो महाद्युते ॥ तानब्रवीद्द्विजान्हंसो विष्णुमस्मि द्विजोत्तमाः ॥
॥ १२ ॥ ते तं ज्ञात्वा तदा विष्णुं पूजयामासुरञ्जसा ॥ अन्वब्रुवंस्तथा ज्ञानं यथोक्तं तेन यादव ॥ १३ ॥ ददुश्च गूढं शिष्येभ्यो नाशभीता मनन्त-
१ 'हंससमो' इति पाठः ।