सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 854, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 854

वि० ध० ॥४००॥ तृ० खं० अ० २२८ ॥४००॥

था परम् ॥ ततः प्रभृति लोकेऽस्मिञ्ज्ञानिनः केचिदेव तु ॥ १४ ॥ एवं कृत्वा विष्णुना हंसस्वरूपं ज्ञानं नष्टं विप्रमुख्येषु दत्तम् ॥ ज्ञाने प्राप्ते भूतले नष्टशोकाः सर्वे चासन्निवृत्तमुख्या नृवीर ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां हंसप्रादुर्भाववर्णनो नाम पञ्च- विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२६ ॥ वज्र उवाच ॥ किमुक्तं तेन हंसेन ऋषीणां भावितात्मनाम् ॥ एतं मे संशयं छिन्धि भृगुवंशविवर्द्धन ॥ १॥ मार्कण्डेय उवाच ॥ बहूतं तेन हंसेन ऋषीणां भावितात्मनाम् ॥ तस्मात्किञ्चिदिहं वक्ष्ये तन्मे निगदतः शृणु ॥ २ ॥ ऋषय ऊचुः ॥ वर्णानामाश्रमाणां च ब्रूहि धर्मं द्विजोत्तमा॥ तथा भक्ष्यमभक्ष्यं च शौचाशौचे तथैव च॥ ३॥ हंस उवाच॥ यजनं याजनं दानं विशिष्टश्च प्रतिग्रहः॥ अध्यापनमध्ययनं विप्रकर्म प्रकीर्तितम् ॥ ४ ॥ दानमध्ययनं यज्ञः पाशुपाल्यं वणिक्क्रिया ॥ अमात्सर्यं च धर्मेष् धर्मस्साधारणो मतः ॥ ५ ॥ आनुलोम्येन वर्णानां जातिर्मातृसमा भवेत् ॥ प्रतिलोमोद्भवाः सर्वे भवन्त्यार्याद्विगर्हिताः ॥ ६॥ सूतो वैदेहकश्चैव चाण्डालश्च द्विजोत्तमाः ॥ विज्ञेया ब्रा- ह्मणीपुत्राः क्षत्रियाद्वैश्ययोनितः ॥ ७ ॥ मागधः पुक्कसश्चैव विट्शूद्रैः क्षत्रियासुतौ ॥ आयोगवश्च वैश्यायां शूद्रपुत्रः प्रकीर्तितः ॥ ८ ॥ अन्ये वक्तुं न शक्यन्ते सङ्करात्सङ्करोद्भवाः ॥ विवाहः सदृशैरेषां नौत्तमेनाधमैः सह ॥ ९ ॥ सूतानामश्वसारथ्यं मागधानां स्तुतिक्रिया ॥ वैदेहः स्यात्तदन्तर्जैी¹वः पुक्कसानां च व्याधता ॥ १० ॥ आयोगवस्य शिल्पानि रंगावतरणं तथा ॥ चण्डालानामसंस्पर्शस्तथ्या वैध्यव्यगामिता ॥ ॥ ११ ॥ गोब्राह्मणार्थे समरे हतानां स्त्रीबालहेतोर्यदि वाप्यशेषम् ॥ स्वाम्यर्थकार्यं यदि वा प्रकुर्वतां सिद्धिः प्रदिष्टा न हि संशयोऽत्र ॥ १२ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतायां वर्णधर्मवर्णनो नाम सप्तविंशत्युत्तरद्विशततमोऽध्यायः ॥ २२७ ॥ हंस उवाच ॥ उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ॥ आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥ १ ॥ प्रयतं कल्यमुत्थाय स्नातो हुतहुताशनः ॥ अभिगम्य गुरोः कुर्यात्प्रयतस्त्वभिवादनम् ॥ २ ॥ अनुज्ञातस्तु गुरुणा ततोऽध्ययनमाचरेत् ॥ भैक्ष्यचर्यां ततः कुर्याद्ब्राह्मणेषु यथाविधि ॥ ३ ॥ गुरोः कुले न भिक्षेत भुञ्जीत तदनुज्ञया ॥ हितप्रियं गुरोः कार्यं भक्त्याहङ्कारवर्जितः ॥ ४ ॥ मधुमांसाञ्जनं श्राद्धं नृत्तं गीतं च साहसम् ॥ हिंसां परोपवादं च मण्डनं च विवर्जयेत् ॥ ५ ॥ मेखलामजिनं दण्डं धारयेत्प्रयतः सदा ॥ विनष्टान्यप्सु विक्षिप्य तथान्यानि धारयेत् ॥ ६ ॥ अधःशायी भवेन्नित्यं ब्रह्मचारी समाहितः ॥ एवं व्रतस्तु कुर्वीत वेदस्वीकरणं बुधः ॥ ७ ॥ गुरवे वचनं दत्त्वा स्नायाच्च तदनुज्ञया ॥


¹ 'ध्याजीव' इति ख० 'त त्याजीव' इति क० ।

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 854, कुल 1001 में से · BharatKosha