सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 855, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 855

आशरीरविमोक्षाद्वा वसेद्गुरुकुले द्विजः॥८॥एवं व्रतान्ते गुरुवे च दत्त्वा वरं यथावत्परिपूर्णविद्यः॥गृहाश्रमी स्याद्विधिवद्द्विजेन्द्रो यात्रारथ लोकद्वितीयं प्रदिष्टम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतायां ब्रह्मचारिव्रतवर्णनो नामाष्टाविंशदुत्तरद्विशततमोऽध्यायः ॥२२८॥

॥ ॥ हंस उवाच ॥ ॥ ततो गृहाश्रमे तिष्ठन्नीनाथाया धर्मवित् ॥ कृत्वा विवाहं विधिवद्धर्मेण च धनागमम् ॥ १ ॥ त्रिवर्गं तत्र सेवेत यज्ञैश्च विविधैर्यजेत् ॥ २ ॥ आचारपालनं कुर्याद्वेदाध्ययनमेव च ॥ २ ॥ उत्सर्गं छन्दसां कुर्याच्छुक्यान्ते श्रावणस्य च ॥ पौषमासस्य रोहिण्यामुपाकर्म विधीयते ॥ ३ ॥ उत्सर्गानन्तरं वेदं नाधीयीत कदाचन ॥ तत्रापि शास्त्राध्ययनं द्विजातीनां विधीयते ॥ ४ ॥ यत्नः कार्यः पूजने चातिथीनां चैतत्कार्यं सर्वकालं गृहस्थैः ॥ नान्यो धर्मो विद्यते तस्य विप्राश्चैतद्वमं तस्य श्रेष्ठं प्रदिष्टम् ॥५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां गृहस्थ्यधर्मवर्णनो नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥

हंस उवाच ॥ कीनाशबद्धचौराणां क्लीबव्रज्यावतांरणाम् ॥ पतिताव्रात्यदुष्टानां तथा बन्धनरक्षिणाम् ॥ १ ॥ उदक्याव्यभिचारावापापण्डवधजीविनाम् ॥ २ ॥ चिकित्साजीवकव्याधपुंश्चलीनुपविद्विषाम् ॥ २ ॥ चर्मकारायुधाजीविराज्ञाम्विक्रयकारिणाम् ॥ वैलद्यवृत्तशंस्तारिबीजताममयाजिनाम् ॥ ३ ॥ तुन्नवायकदम्बस्य कूटकृच्छूद्रयाजिनाम् ॥ ५ ॥ अपामन्नं न भोक्तव्यं यश्च दद्यादनावृतम् ॥ ४ ॥ पर्यायान्नं शतं चैव संसृष्टं पतितैस्तथा ॥ गुल्कं पर्युषितोच्छिष्टं तथा चौच्छिष्टजीविनः ॥ ५ ॥ उदक्यया तथा स्पृष्टं यच्च भ्रातं गवा शुना ॥ केशकीटावपन्नं च पक्षिदग्धं तथैव च ॥ ६ ॥ दासादासीगोपालनापितानं तथाविनाम् ॥ शूद्रान्त्रानं तथा श्राद्धमाममिक्किचिणस्तथा ॥ ७ ॥ अन्नं पर्युषितं भोज्यं स्नेहाक्तं गणषाण्डवत् ॥ निस्नेहा अपि गोधूमयवपोराणसक्तवः ॥ ८ ॥ अजागोमहिषीवर्ज्यं सर्वाण्यपि पयांसि च ॥ अनिर्दशाहं तेषां वै विवत्सायाश्च गोस्तथा ॥ ९ ॥ कपिञ्जलस्तित्तिरिंश्च मयूरो लावकस्तथा ॥ एते हि पक्षिणो भक्ष्या न तु शेषाः कथञ्चन ॥ १० ॥ शशकः शल्यको गोधा खड्गः कूर्मस्तथैव च ॥ भक्ष्याः पञ्चनखेष्वेवाहुरभक्ष्याश्वोभयादतः ॥ ११ ॥ सर्वे चैकशफा वर्ज्यास्तथाजाता मृगद्विजाः ॥ लशुनं गृञ्जनं चैव पलाण्डुकवकानि च ॥ १२ ॥ लोहितान्वृक्षनिर्यासांङ्गुञ्जुङ्गुच्छूमांतकं तथा ॥ अभक्ष्याणि द्विजातीनां खुर्वण्डानि तथैव च ॥ १३ ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः ॥ अनुपाकृतमांसानि देवात्रानि हवींषि च ॥ १४ ॥ मांसाशनं नैव बुधस्तु कुर्याद्द्या द्विजेन्द्रा नरकस्य हेतुम् ॥ मांसं हि यो नात्ति स याति नाकं लोके तथास्मिन्सुखसङ्गतिः स्यात् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां भक्ष्याभक्ष्यवर्णनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३० ॥