सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

आशरीरविमोक्षाद्वा वसेद्गुरुकुले द्विजः॥८॥एवं व्रतान्ते गुरुवे च दत्त्वा वरं यथावत्परिपूर्णविद्यः॥गृहाश्रमी स्याद्विधिवद्द्विजेन्द्रो यात्रारथ लोकद्वितीयं प्रदिष्टम् ॥ ९ ॥ इति श्रीविष्णुधर्मोत्तरे तृ०ख० मार्कण्डेयवज्रसंवादे हंसगीतायां ब्रह्मचारिव्रतवर्णनो नामाष्टाविंशदुत्तरद्विशततमोऽध्यायः ॥२२८॥

॥ ॥ हंस उवाच ॥ ॥ ततो गृहाश्रमे तिष्ठन्नीनाथाया धर्मवित् ॥ कृत्वा विवाहं विधिवद्धर्मेण च धनागमम् ॥ १ ॥ त्रिवर्गं तत्र सेवेत यज्ञैश्च विविधैर्यजेत् ॥ २ ॥ आचारपालनं कुर्याद्वेदाध्ययनमेव च ॥ २ ॥ उत्सर्गं छन्दसां कुर्याच्छुक्यान्ते श्रावणस्य च ॥ पौषमासस्य रोहिण्यामुपाकर्म विधीयते ॥ ३ ॥ उत्सर्गानन्तरं वेदं नाधीयीत कदाचन ॥ तत्रापि शास्त्राध्ययनं द्विजातीनां विधीयते ॥ ४ ॥ यत्नः कार्यः पूजने चातिथीनां चैतत्कार्यं सर्वकालं गृहस्थैः ॥ नान्यो धर्मो विद्यते तस्य विप्राश्चैतद्वमं तस्य श्रेष्ठं प्रदिष्टम् ॥५॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां गृहस्थ्यधर्मवर्णनो नामैकोनत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २२९ ॥

हंस उवाच ॥ कीनाशबद्धचौराणां क्लीबव्रज्यावतांरणाम् ॥ पतिताव्रात्यदुष्टानां तथा बन्धनरक्षिणाम् ॥ १ ॥ उदक्याव्यभिचारावापापण्डवधजीविनाम् ॥ २ ॥ चिकित्साजीवकव्याधपुंश्चलीनुपविद्विषाम् ॥ २ ॥ चर्मकारायुधाजीविराज्ञाम्विक्रयकारिणाम् ॥ वैलद्यवृत्तशंस्तारिबीजताममयाजिनाम् ॥ ३ ॥ तुन्नवायकदम्बस्य कूटकृच्छूद्रयाजिनाम् ॥ ५ ॥ अपामन्नं न भोक्तव्यं यश्च दद्यादनावृतम् ॥ ४ ॥ पर्यायान्नं शतं चैव संसृष्टं पतितैस्तथा ॥ गुल्कं पर्युषितोच्छिष्टं तथा चौच्छिष्टजीविनः ॥ ५ ॥ उदक्यया तथा स्पृष्टं यच्च भ्रातं गवा शुना ॥ केशकीटावपन्नं च पक्षिदग्धं तथैव च ॥ ६ ॥ दासादासीगोपालनापितानं तथाविनाम् ॥ शूद्रान्त्रानं तथा श्राद्धमाममिक्किचिणस्तथा ॥ ७ ॥ अन्नं पर्युषितं भोज्यं स्नेहाक्तं गणषाण्डवत् ॥ निस्नेहा अपि गोधूमयवपोराणसक्तवः ॥ ८ ॥ अजागोमहिषीवर्ज्यं सर्वाण्यपि पयांसि च ॥ अनिर्दशाहं तेषां वै विवत्सायाश्च गोस्तथा ॥ ९ ॥ कपिञ्जलस्तित्तिरिंश्च मयूरो लावकस्तथा ॥ एते हि पक्षिणो भक्ष्या न तु शेषाः कथञ्चन ॥ १० ॥ शशकः शल्यको गोधा खड्गः कूर्मस्तथैव च ॥ भक्ष्याः पञ्चनखेष्वेवाहुरभक्ष्याश्वोभयादतः ॥ ११ ॥ सर्वे चैकशफा वर्ज्यास्तथाजाता मृगद्विजाः ॥ लशुनं गृञ्जनं चैव पलाण्डुकवकानि च ॥ १२ ॥ लोहितान्वृक्षनिर्यासांङ्गुञ्जुङ्गुच्छूमांतकं तथा ॥ अभक्ष्याणि द्विजातीनां खुर्वण्डानि तथैव च ॥ १३ ॥ वृथा कृसरसंयावपायसापूपशष्कुलीः ॥ अनुपाकृतमांसानि देवात्रानि हवींषि च ॥ १४ ॥ मांसाशनं नैव बुधस्तु कुर्याद्द्या द्विजेन्द्रा नरकस्य हेतुम् ॥ मांसं हि यो नात्ति स याति नाकं लोके तथास्मिन्सुखसङ्गतिः स्यात् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां भक्ष्याभक्ष्यवर्णनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३० ॥

बृ० ध० ॥४०१॥ तृ० खं० अ० २३२

॥ हंस उवाच ॥ ॥ पाषाणरत्नमजरतस्तत्रतोयाजकर्मणाम् ॥ पत्रमूलफलानां च तृणानां च तथा द्विजाः ॥ १ ॥ वैदलानां च रज्जूनां वारिणा शुद्धिरिष्यते ॥ उष्णेन पाच्यमत्सुस्रक्कुसुभाणां विधीयते ॥ २ ॥ भूशुद्धिर्मार्जनाद्दाहात्कालात्क्रमणात्तथा ॥ अम्लोदकेन ताम्रस्य तथा कांस्यस्य भस्मना ॥ ३ ॥ निर्मलीकरणाच्छुद्धिः सर्वलोहस्य चेष्यते ॥ स्पृष्ट्यभूर्जिनधान्यानां मुसलोलूखलश्मनाम् ॥ ४ ॥ प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ गोमूत्रेण च शुद्ध्येस्तां तक्षणाद्दारवस्य च ॥ ५ ॥ द्रवाणामपि द्रव्याणां शुद्धिरुत्प्लवनात्स्मृता ॥ सोषेणोदकगोमूत्रैः शुद्धयन्त्याविककौशिकाः ॥ ६ ॥ सश्रीफलेन्दुगृहं मार्ज्जितैः कृतपं तथा ॥ ७ ॥ सगौसर्षपैः क्षौमाः पुनः पाकैर्महीमयम् ॥ ७ ॥ मलैर्महैः सुराभिश्च स्पृष्टं पाकान्न शुद्धयति ॥ वसाशुक्रमसृङ्मज्जामूत्रविण्मूत्रकर्णविण्णखाः ॥ ८ ॥ श्लेष्मा श्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः॥ खाज्नेर्मृत्काष्ठवह्न्यार्द्र मृद्वीकारसमेव च ॥ ९ ॥ मद्यान्येतानि जानीयान्मद्यतुल्यास्तथैव च ॥ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ॥ १० ॥ अमेध्याद्द्रव्य मृतोपशुशुद्धिन्यीयकष॑णात् ॥ कृत्वा मूत्रपुरीषे च मृका उत्तोल्यतस्तथा ॥ ११ ॥ रथ्याश्वाङ्कस्य चाचमेद्रूप विष्ट उद्धृतुप्लवः ॥ शावं तदङ्गधूपं च चाण्डालं सूतिकां तथा ॥ १२ ॥ शवस्पृशं तथा स्पृष्ट्वा कटधूमं ससैथुनै ॥ स्नानमेतेषु कर्त्तव्यमशुचाते न दुःखजे ॥ १३ ॥ सर्वेषां वायुना शुद्धिरद्यूहानां लेपनेन च ॥ अकराः सर्व बुवजा याश्च विप्रुषः ॥ १४ ॥ राजा न दुष्टो न तथा च वायुदुष्टा द्विजेन्द्रा न च मक्षिका वै ॥ अदृष्टशुद्धिं च तथाप्यदृष्टसहदृष्टकं च तथोर्णजालम् ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायां द्रव्यशुद्धिवर्णनो नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३१ ॥ हंस उवाच ॥ दशाहे शावमाशौचं नृपिण्डेषु विधीयते ॥ ब्राह्मणस्य द्विजश्रेष्ठ द्वादशाहे महीभुजः ॥ १ ॥ पञ्चे देश्यस्य शूद्रस्य मासं चैव विधीयते ॥ जनने चैव मरणे मनुष्येषु द्विजोत्तम ॥ २ ॥ प्रथमान्ते विशुद्धिः स्यात्स्नानस्य द्विजोत्तमाः ॥ द्वितीयान्ते तथा ज्ञेया अप्रजाप्तस्य नित्यदा ॥ ३ ॥ अन्यतीर्ते दशाहे तु श्रुत्वा मरणजन्मनी ॥ यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ ४ ॥ अतीते दशरात्रे तु वर्षस्याभ्यन्तरं तथा ॥ त्रिरात्राच्छुद्धि रुद्दिष्टा स्नात्स्य तु ततः परम् ॥ ५ ॥ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनम् ॥ आन्दन्तजन्मनः सद्य आचूडन्यादहर्निशम् ॥ ६ ॥ त्रिरात्रमाव्रताद्देशाहदशरात्रमतः परम् ॥ कन्यानां तु व्रतस्थाने विवाहः परिकीर्तितः ॥ ७ ॥ विवाहितासु नारीषु पितृपक्षे विधीयते ॥ यातमहे त्रिरात्रं स्याद्भार्यास्वन्यगतासु च ॥ ८ ॥ परपूर्वासु च स्वासु पुत्रेष्वन्यगतेषु च ॥ आचार्यं च तथा प्रेते निवाससखायपि ॥ ९ ॥ आचार्ये

पतिपुत्रेषु शिष्ये सब्रह्मचारिषु ॥ एकरात्रमशौचं स्यान्मृते तु तथा सुते ॥ १० ॥ मुग्धाग्निनाशकाम्भोभिर्हतानामात्मघातिनाम् ॥ पतितानां च नाशौचं विद्युदिच्छाहताश्च ये ॥ ११ ॥ छत्रिव्रतिद्वहस्तचारितृणकोशकृदीक्षिताः ॥ नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ॥ १२ ॥ अतीतं वार्षिके शुद्धे पश्चाच्छुद्धिरिष्यते ॥ द्वादशाहेन शुद्धिः स्यादतीते वत्सरत्रये ॥ १३ ॥ जातेः संवत्सरेः षड्भिर्मासेन परिकीर्तिता ॥ अष्टादशभि स्नानं षण्मासाश्च शोधनम् ॥ १४ ॥ जननमरणोर्दर्शाहन भवति न शौचविधिर्न विप्रभोज्यञ्चान्नं च भवति प्रतिग्रहो दोषो द्विपट्चतुष्पद्धान्य दक्षिणासु ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतायामाशौचविधिवर्णनो नाम द्वात्रिंशादुत्तरशततमोऽ ध्यायः ॥ १२२ ॥ हंस उवाच ॥ अङ्गुष्ठग्रेस्मृतं देवं पित्र्यं तर्जनिमूलकम् ॥ अङ्गुष्ठमूले ब्राह्मं तु कनिष्ठायाश्च मालयन् ॥ १ ॥ उपस्पृशेत्तु ब्राह्मेण देवा दिव्येन तर्पयेत् ॥ पितॄन्पित्र्येण धर्मज्ञ मातुष्येण तथा पिवेत् ॥२॥ अविकार्य्य तथा जप्ये पूजने भाजने तथा ॥ अध्यापने भाष्यवृत्तौ भवेन्नान्यमना नरः॥३॥एतेष्वेव तु कार्येषु गुरूलापमपि सन्निधौ ॥ उद्धरेद्दक्षिणं पाणिं धृतोपानत् च पादुके ॥४॥ अविकाशं देवकार्यं पूजयेत्प्रयतैस्तथैव च ॥ भोजनं पितृकार्यं च बहिर्जानु न कारयेत् ॥५॥ न नाम दीक्षितस्येह गृहीयाद् वटुयः क्वचित् ॥ कुर्यात् केवलं नाम गृहीत्वेत्यमथापि व ॥६॥ याचमानं यथाशक्त्या न कुर्याद्विमुखं क्वचित् ॥ दैवं पूर्वाणिकं कार्यं त्वपराह्ने तु पैतृकम् ॥ ७ ॥ अतिथीनां तथा पूजा सर्वकालं विधीयते ॥ यदिशिष्टतमं लोके यच्चास्ति दयितं गृहे ॥ ८ ॥ तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥ प्रियाणि लभते लोके प्रियदः प्रियकृत्तथा ॥ ९ ॥ प्रतिश्रुतं प्रयत्नेन दातव्यमृषिसत्तमाः ॥ अप्रयच्छंस्तदाप्नोति मूर्तीधुकृतसंशयम् ॥ १० ॥ नरकं महदाप्नोति शृगालश्चैव जायते ॥ माता पिता गुरुश्चैव ज्येष्ठो भ्राता तथा स्वसा ॥ ११ ॥ पितृव्यो मातुलश्चैव तथा मातृस्वसा द्विजाः ॥ पितृव्वसा तथा श्वश्रूःश्वशुरो वैष्णवं पदम् ॥ ॥ १२ ॥ मातामहश्च श्वशुरः पूजनीयाः प्रयत्नतः ॥ प्रत्युत्थानञ्च कर्त्तव्यं तेषां पूर्वाभिवादनम् ॥ १३ ॥ मातुलञ्च पितृव्यञ्च यदा स्यातां कनी यसौ ॥ नाभिवाद्यास्तु ते पूर्वं प्रत्युत्थानं तु कारयेत् ॥ १४ ॥ उच्छिष्टो न स्पृशेच्छीर्षं सर्वं प्राणस्तदाश्रयाः ॥ पूर्वां सन्ध्यां जपस्तिष्ठेदपासीन श्च पश्चिमाम् ॥ १५ ॥ मध्यन्दिने निशाकाले त्वर्धरात्रे विशेषतः ॥ चतुष्पथं न सेवेत उपसन्ध्ये तथैव च ॥ १६ ॥ नास्तिकं वेहनिन्द्रा ञ्च देवतानाञ्च कुत्सनम् ॥ द्वेषस्तम्भाभिमानौ च तैक्ष्ण्यं चैव विवर्जयेत् ॥ १७ ॥ परस्य दण्डं नोद्यच्छेद्वुद्धो नैवं निपातयेत् ॥ अन्यत्र पुत्रा च्छिष्याद्वा शिष्ट्यर्थं ताडनं स्मृतम् ॥ १८ ॥ न बाह्मणं परिवदेन्नक्षत्राणि न निर्दिशेत् ॥ तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥ १९ ॥

वि० ध० ॥४०२॥

तृ० दं० अ० २३३ ॥४०२॥

प्रागस्तशायी न भवेन्न चाभ्युदयशायिकः ॥ अवेलोभयो न चादृशौ मलिनो बुद्धिमन्नरैः ॥ २० ॥ अकृत्वा देवतापूजां नान्यं गच्छेद्व्रतंचरेत् ॥ अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम्॥२१॥ वर्जयेच्च तथा प्राज्ञाश्चासनाकर्षणं सदा ॥ स्नात्वा तु नावमार्जत गात्राणि तु विचक्षणः ॥ २२॥ विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ॥ तथा नात्युद्धतं धार्यं न चापद्रशमेव च ॥ २३ ॥ अन्यदेव भवेद्वासः शयनीये द्विजोत्तमाः ॥ अन्य द्रव्यासु देवानां त्वार्यायामन्यदेव तु ॥ २४ ॥ उपवासं तु कुर्वीत स्नातः शुचिरलंकृतः ॥ पर्वकालेषु सर्वेषु ब्रह्मचारी तथा भवेत् ॥ २५ ॥ पिप्पलं च वटञ्चैव शणशाकं तथैव च ॥ उदुम्बरं न खादेत मत्यार्थी पुरुषः सदा ॥२६॥ पुत्रमांसोपमं मांसं पृष्ठमांसं च वर्जयेत् ॥ पाणौ च लवणं रात्रौ दधिसक्तूंस्तथैव च ॥ २७ ॥ सायं प्रातश्च भुंजीत नान्तराले कदाचन ॥ सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ॥ २८ ॥ भूमौ सदैव चाश्नीयान्न चासीनो च शब्दवत् ॥ तोयपूर्णं यदा पानमतिथियो द्विजोत्तमाः ॥ २९ ॥ पञ्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥ न धावेद्वर्षमाणे तु नदीं मत्तां न लङ्घयेत् ॥३०॥गां चरन्तीं पिबन्तञ्च वत्सकं न निषेधयेत् ॥ समानमेकपङ्क्त्यां तु देयमन्नं तथा भवेत्॥३१॥ पङ्क्त्यान्तु विषमं दत्त्वा नरकं प्रति पद्यते ॥ विषं हालाहलं भुङ्क्ते यो प्रदाय सुहृज्जने ॥ ३२ ॥ लोष्टमर्दी तृणच्छेदी नखखादी च यो नरः ॥ नित्योच्छिष्टो भवेद्यः स नेहायुर्विन्दते महत् ॥ ३३ ॥ परं ज्ञेयमनुष्यायुष्यं परदाराभिमर्शनम् ॥ उदक्यागमनं ज्ञेयमलंघ्यं परमं सुखम् ॥ ३४ ॥ पुरीषमूत्रे नोदीक्षेन्नष्ठिवित्तुक्कुडाम्न च ॥ उदक्याया तु संभाषणं न तु कुर्वीत कर्हिचित् ॥ ३५ ॥ नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः ॥ अन्यस्य चाम्लुपास्थानं दूरतः परिवर्जयेत् ॥ ३६ ॥ त्रीणि तेजांसि नोच्छिष्टो नालभेत कदाचन ॥ अग्निं गां ब्राह्मणं चैव तथा ह्मायुर्न रिष्यते ॥ ३७ ॥ त्रीणि तेजांसि चोच्छिष्टो नोदीक्षेत कदाचन ॥ सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः ॥ ३८ ॥ नावमन्येत धर्मज्ञं त्रीणि तेजांसि पण्डितः ॥ अग्निं च कुलपुत्रं च ब्राह्मणञ्च द्विजोत्तमाः ॥ ३९ ॥ त्रीन्कुशान्प्रातजपानीयाद्दर्घामायुर्जिजीविषुः ॥ ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषाद्वयाः ॥ ४० ॥ नाध्यापयेद्यथोच्छिष्टो नार्थयीत कदाचन ॥ सर्वं च तिलसंबद्धन्नाद्यादस्तमिते रवौ ॥ ४१ ॥ उर्ध्वप्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति ॥ प्रत्युत्थानाभिवादाभ्यां पुनस्तानप्रतिपद्यते ॥ ४२ ॥ अभिवादयेत वृद्धांश्च आसनं चैव दाप येत् ॥ कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ ४३ ॥ नासित चासने भिन्ने भिन्नं कांस्यं च वर्जयेत् ॥ नैकवस्त्रेण भोक्तव्यं न नग्नः स्नान मर्हति ॥ ४४ ॥ गुरुणा वैरनिर्वन्धो न कर्तव्यः कदाचन ॥ अनुमात्यः प्रसाद्यश्च गुरुः क्रुद्धो विजानता ॥ ४५ ॥ दूरादुदवसथान्मूत्रं दूरादात्मा

वसेचन्नम् ॥ उच्छिष्टोन्यार्ज्जनं चैव दूरात्कार्यं विजानता ॥ ४६ ॥ उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत ॥ पादं पादेन नाक्रामेत्र कण्डूयेन्न शौचयेत् ॥ ४७ ॥ हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्विगर्हितान् ॥ रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥ ४८ ॥ भुञ्जानो ब्राह्मणश्रेष्ठो नैव शङ्कां समाचरेत् ॥ दधि चाप्युपपानं च न कर्तव्यं भवार्थिना ॥ ४९ ॥ आचम्य चैव हस्तेन परित्राव्यं तथोदकम् ॥ अङ्गुष्ठचरणस्याग्रे दक्षिणस्य तथोपरि ॥ ५० ॥ पापपाडं न ब्रूयान्नाप्रियञ्च कदाचन ॥ न मन्युः कस्यचित्कार्यः कदाचिदपि वै द्विजः ॥ ५१ ॥ होमश्चाहुतिदिते सूर्ये दातव्यो द्विजपुङ्गवाः ॥ तावद्भवति वह्निस्थो यावन्नोदेति भास्करः ॥ ५२ ॥ परीप्सितं च वह्निस्थः सम्यग्दत्तामाहुतिम् ॥ तदा भासयते सर्वं त्रैलोक्यं सचराचरम् ॥ ५३ ॥ पतितेस्तु कथां नेच्छेदंर्शनं चापि वर्जयेत् ॥ संसर्गं न च गच्छेत्तु तथास्यायुर्न रिष्यते ॥ ५४ ॥ वृद्धौ ज्ञातिस्तथा मित्रं दरिद्रं च कुलोद्भूतम् ॥ गृहे वासयितव्यानि धन्यानि मुनिसत्तमाः ॥ ५५ ॥ ब्राह्मणस्य पदाभ्यां तु वसेत्पूजितमाल्यम् ॥ सन्ध्यास्वध्ययनं वर्ज्यं भोजनं स्वप्नक्रिया ॥ ५६ ॥ नक्तं न कुर्यात्पितृव्याणि भुक्त्वा चैव प्रसाधनम् ॥ पानीयस्य क्रिया नक्तं न कार्या भूति मिच्छता ॥ ५७ ॥ अनिम्नन्चितो न गच्छेत्तु यज्ञं गच्छेत्तु दर्शकः ॥ ५८॥ चरितानि पुराणानां श्रोतव्यानि पुनःपुनः ॥ श्रुतिस्मृत्युदितं धर्मं त्वनुतिष्ठेत्तथा सदा ॥ ५९ ॥ सुखी स्यात्तत्प्रसन्नस्तु इह लोके परत्र च ॥ ६० ॥ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तथा स्मृतिः ॥ ते सर्वार्थेष्व मीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ ६१ ॥ योऽवमन्येत भूतेभ्यो हेतुशास्त्राश्रयाद्विजाः ॥ साधुभिः स बहिष्कार्यो नरकाग्रस्त भाजनम् ॥ ६२॥ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ॥ एतच्चतुर्विधं प्राहुः साक्षानां धर्मलक्षणम् ॥६३॥ चातुर्वर्णव्यवस्थानं यस्मिन्देशे न विद्यते ॥ स म्लेच्छविषयो ज्ञेय आर्यावर्तमतः परम् ॥६४॥ सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ॥ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ ६५ ॥ यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ॥ वर्णानां सान्तरालानां स सदाचार उच्यते ॥ ६६ ॥ वैदिकैः कर्मभिः पुण्यैर्निषेकादिद्विजन्मनाम ॥ ६८॥ स्वाध्यायेन रसंस्काराः पावनाः प्रेत्य चेह चा॥६७॥ गामैः कृत्यैर्जातकर्मचौलोमौञ्जीनिबंधनैः ॥ बैजिकं गार्भिकं चैनो द्विजानामपहन्यते ॥ ६८॥ स्वाध्यायेन व्रतैर्होमैऋषिदेवेज्यया सुतैः ॥ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥६९॥गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ॥ गर्भादेके दशै राज्ञो गर्भात्तु द्वादशे विशः ॥७०॥ आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ॥ आद्वाविंशात्क्षत्रबन्धोश्चतुर्विंशतेर्विशः ॥७१॥अत ऊर्ध्वं त्रयोप्येते यथाकालमसस्कृ ताः॥सावित्रीपतिता व्रात्या भवन्ति च विगर्हिताः ॥७२॥ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ॥ स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यते ॥ ७३ ॥

६८

वि० ध० ॥४०३॥ तृ० खं० अ० २३३ ॥४०३॥

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ॥ संशये यत्नमातिष्ठेद्वाम्यन्त्वेव वाजिनाम् ॥ ७४ ॥ वशीकृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ॥ सर्वान्संसाधयेदर्थानक्ष्णिन्वन्द्योगतस्तनुम् ॥ ७५ ॥ न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवर्त्मव भूय एवाभिवर्धते ॥७६॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥ यासौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥७७॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः॥ कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ ७८ ॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ॥ संनियम्य तु तान्येव ततः सिद्धिं स गच्छति ॥ ७९ ॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ॥ चत्वारि संप्रवर्धन्ते ह्यायुर्मेधा यशो बलम् ॥ ८० ॥ ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ॥ वैश्यं क्षेमं समागम्य शूद्रं त्वारोग्यमेव च ॥ ८१ ॥ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ॥ एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ ८२ ॥ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ॥ ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ८३ ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां च वीर्यतः ॥ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ८४ ॥ अहिंसयैव भूतानां कार्यं श्रेयोऽनुपालनम् ॥ वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मकामिणा ॥ ८५ ॥ यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ॥ स वै सर्वमवाप्नोति वेदान्तगमनात्फलम् ॥८६॥ वेदमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः ॥ वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ ८७ ॥ योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ॥ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ ८८ ॥ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ॥ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ ८९ ॥ न ह्यस्मिन्संयुज्यते कर्म किंचिदामौञ्जिबन्धनात् ॥ नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ ९० ॥ शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ कृतोपनयनस्यास्य व्रतादेशनमिष्यते ॥ ९१ ॥ गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ॥ कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ९२॥ खरो भवति परीवादी श्वा वै भवति निन्दकः ॥ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ ९३॥ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ॥ एकासनस्थो न भवेदाप्रोक्षोऽपि कदाचना ॥९४॥ गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥ नासीत गुरुणा सार्धं शिलाफलकनौषु च ॥ ९५ ॥ गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ॥ अध्यापयन्पुत्रसुतौ गुरुवन्मानमर्हति ॥ ९६ ॥ न कुर्याद्गुरुपुत्रस्य पाद्यौचावनेजनम् ॥ गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः ॥ ९७॥ असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ॥ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ॥ ९९॥ पूर्णा विंशतिवर्षेण

गुणदोषौ विजानता ॥ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ॥ १००॥ बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ विप्रोष्य पादग्रहणन्त्वन्वहञ्चा भिवादनम् ॥ १०१॥ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ स्त्रियो रत्नान्यथो विद्या धर्मस्सत्यं सुभाषिताम् ॥ १०२॥ शिल्पानि चाप्यदुष्टानि समादे यानि सर्वतः ॥ अब्राह्मणादध्ययनं चापत्काले विधीयते॥ १०३॥ अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरौ ॥ नाब्राह्मणेगुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥ १०४ ॥ ब्राह्मणे वाननूचाने काङ्क्षन्गतिमनुत्तमात् ॥ पितृभिर्मातृभिर्भार्यैः पतिभिर्देवरैस्तथा ॥ १०५॥ पूज्या भूषयितव्याश्च बहुकल्याण मीप्सुभिः ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ॥ १०६ ॥ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ सन्तुष्टो भार्यया भर्ता भार्या भर्त्रा तथैव च ॥ १०७ ॥ यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ अविवाहैः क्रियालोपैर्वेदानध्ययनेन च ॥ १०८ ॥ कुलान्य कुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ शिल्पेन व्यवहारेण शूद्रापुत्रैश्च केवलैः ॥१०९॥ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ अयाज्य याजनाच्चैव नास्तिक्येन च कर्मणा ॥ ११० कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ॥ ॥ १११ ॥ कुलसंख्यान्तु गच्छन्ति कर्षन्ति च महद्यशः ॥ ऋषयः पितरो देवा भूतान्यतिथयस्तथा ॥ ११२ ॥ आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ॥ ११३ ॥ पितॄञ्छ्राद्धेन नॄनन्नैर्भूतानि बलिकर्मणा ॥ द्वादशाहरहः श्राद्धमन्नाद्येनोदकेन च ॥ ११४ ॥ पयोमूलफलैर्वापि पितृभ्यः प्रीतिमाहरेन् ॥ एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके ॥ ११५ ॥ न चैवात्रा शयत्कञ्चिद्वैश्वदेवं प्रति द्विजम् ॥ वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ॥ ११६ ॥ स्वसूत्रविहितं कुर्याद्वैश्वदेवमतन्द्रितः ॥ प्रणीते वाग्नौ हविष्ये वा हुतोत्सृष्टे जलेऽपि वा ॥ ११७ ॥ वैश्वदेवं ध्रुवं कार्यं ब्राह्मणेन विपश्चिता ॥ परं स्थानमवाप्नोति कृत्वैवं सततं गृही ॥ भोजयेदतिथिं पश्चाद्भिक्षां दद्याच्च भिक्षवे ॥ ११८ ॥ यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरौ ॥ तत्पुण्यफलमा प्नोति भिक्षां दत्त्वा यथार्चिताम् ॥ ११९ ॥ विद्यातपःसमृद्धेषु हुतं विप्रमुखेऽग्निषु ॥ निस्तारयति दुर्गेषु भवत्यक्षयमेव च ॥ १२० ॥ संप्राप्ताय त्वतिथये प्रदद्यादासनोदकम् ॥ अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ १२१ ॥ शिलान्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ॥ सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ १२२ ॥ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ॥ एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १२३ ॥ एकरात्रन्तु निवसन्मतिथिर्ब्राह्मणः स्मृतः ॥ नैकग्रामीणामतिथिं विप्रं साङ्गतिकं तथा॥१२४॥ उपासते ये गृहस्थाः परपाकमबुद्धयः ॥

॥४०४॥ वि० ध०

तृ० खं० अ० २३१

तेन ते प्रेत्य पशुतां व्रजन्त्याब्रह्मघायिनाम् ॥१२६॥ अप्रीणन्योऽतिथिः सायं सूर्यान्ते गृहमेधिना ॥ काले प्रातस्त्वकाले वा नास्यानश्नन्गृहे वसेत् ॥ १२६ ॥ न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ॥ धन्यं यशस्यमायुष्यं स्वर्ग्यमतिथिपूजनम् ॥१२७॥ वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् ॥ तथा चान्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ १२८ ॥ न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ॥ भोजनार्थं तु शंसन्वा वान्ताशीत्युच्यते बुधैः ॥ १२९ ॥ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाजयेत् ॥ भुक्तवत्सु च विप्रेषु कामं तमपि पूजयेत् ॥१३०॥ वैश्यशूद्रावपि प्राप्तौ कुटुम्बे ऽतिथिधर्मिणौ ॥ भोजयेत्सह भृत्यैस्तानानुशंस्यं प्रयोजयन् ॥१३१॥ सख्यादीन्भार्यया सार्धं भोजयेद्गृहमागतान ॥ पतितश्वपचेभ्यस्तु श्वभ्यस्तु भुवि निर्वपेत् ॥ १३२ ॥ सुवासिनीः कुमारींश्च रोगिणो गर्भिणीस्तथा ॥ अतिथिम्योऽग्र एवैतान्भोजयेदविचारयन् ॥ १३३ ॥ अदत्त्वा तु य एतेभ्यः पूर्वं भुंक्ते विचक्षणः ॥ स भुञ्जानो न जानाति श्वगृद्धैर्जग्धमात्मनः ॥ १३४॥ भुक्तवत्सु तु विप्रेषु स्वेषु भृत्येषु चैव हि ॥ भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ १३५॥ गृहस्थैरर्थयैर्विप्रैस्तैलौक्यं सचराचरम् ॥ पाकः कार्यो गृहस्थेन भूतोद्धरणकाम्यया ॥ १३६ ॥ अद्यं स केवलं भुंक्ते यः पचत्यात्मकारणात् ॥ विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः ॥ १३७॥ विघसं भुक्तशेषं तु यज्ञशेषं तथामृतम् ॥ १३९ ॥ वेदोदितं चार्यप्रियंश्वशुरमातुलान् ॥ १३८॥ अर्हयन्मधुपर्केण परिसंवत्सरोषितान् ॥ द्वौ कालौ गृहिणः पाको वैश्वदेवश्च कीर्त्यते ॥ १३९ ॥ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ॥ सर्वांन्समुत्सृजेद्धर्मान्सन्ध्यायन्यस्य विरोधिन्नः ॥ १४०॥ बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ॥ नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ १४१॥ ऋषिभ्यं देवमृणं भूतयज्ञं तथैव च ॥ नृयज्ञं पितृयज्ञं च पञ्चयज्ञान् हापयेत् ॥१४२॥ अग्निहोत्रं च जुहुयादाहुते धूनिशोः सदा ॥ दर्शेन चार्धमासान्ते पौर्णमासे तथैव च ॥ १४३॥ तयोः कालः स्मृतः क्षीणे पूर्ण च शशलक्षणे ॥ पशुनाप्यायनान्ते च मासान्ते सौमिकैर्मखैः ॥ १४४॥ नाग्रयण्या नवसस्येष्ट्या पशुना वाग्निमान्द्विजः। नवान्नमद्यान्न तथा दीर्घमायुर्जिजीविषुः ॥ १४५ ॥ नवेनानार्चितो ह्यस्य पशून्हन्त्यन चाशयः ॥ प्राणानवेनावंलुम्पन्ति नवाश्रीमपगाद्विना ॥ १४६॥ आसनाशनशय्याभिर्मृद्भिरद्भिस्तृणेन वा॥ नास्य कश्चिद्वसेद्गेहे शक्तितो ऽनर्चितोऽतिथिः॥१४७॥ पाषण्डिनो विकर्मस्थान्बैडालव्रतिकाञ्शठान्॥ हेतुकाम्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्॥१४८॥ न दानं यशसे दद्यान्न भयान्नोपकारिणे ॥ न नृत्तगीतशीलेभ्यो हासकेभ्यश्च धार्मिकः ॥ १४९ ॥ वेदविद्याव्रतस्नातः श्रोत्रियाय्यगृहमेधिनः ॥ पूज्येद्ध्व्यकव्येषु विपरीतांस्तु वर्जयेत् ॥ १५० ॥ शक्तितो यजमानस्य दातव्यो गृहमेधिनः ॥ संविभागश्च भृत्यभ्यः कर्तव्योऽनुपरोधतः ॥ १५१ ॥ राजतो धनमन्वि-

॥४०४॥

च्छेत्ससीदन्स्नातकः क्षुधा ॥ याज्यान्तेवासिनो वापि न त्यज्यत इति स्थितिः ॥ १६२ ॥ न जीर्णमलद्वद्वासा भवेच्च विभवं सति ॥ स्वाध्यायं नित्ययुक्तः स्यान्नित्यमात्महितेषु च ॥ १६३॥ वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ॥ यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ १६४ ॥ शुक्लवासा भवेन्नित्यं परिसृष्टपरिच्छदः ॥ न चैव प्रलिवेद्भूमिं नात्मनोपहरेत्स्रजम् ॥ १६५ ॥ नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ॥ अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा ॥ १६६ ॥ एतान्यत्व तथा वह्नौ निक्षिपेन्नैव च द्विजः ॥ नैकः शून्यगृहे स्वप्याच्छयानं नैव बोधयेत् ॥ १६७ ॥ न दिवाऽन्द्रासुधं दृष्ट्वा कस्यचिद्दर्शयेद्बुधः ॥ न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ॥ १६८ ॥ न पाषण्डिजना कीर्णे नोपसृष्टे न पर्वते ॥ वैधांसांवत्सरेऽर्हन्ति तथा प्रबलनायके ॥ १६९ ॥ न कुर्वीत वृथा चेष्टां न वार्यञ्जलिना पिवेत् ॥ नोत्सङ्गे भक्षयेद्भक्ष्यान जातु स्यात्कुतूहली ॥ १७० ॥ न नृत्येदथ वा गायेन्नाब्दिाणि न वादयेत् ॥ नास्फोटयेन्न च ष्क्वेद्वेन च रक्तो विरागयेत्॥१७१॥ न पादौ धावयेत्कांस्ये न च पादौ प्रतापयेत् ॥ न छिन्द्यान्नखरूरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ १७२ ॥ पाद्येनाँचैन्न कुर्वीत दर्भेषु परिमार्जन नम् ॥ पालाशमासनं वर्ज्यं पादुके दन्तधावनम् ॥ १७३ ॥ न कर्म निष्फलं कुर्यान्नादयत्यां वा सुखोदयम् ॥ न विगर्हकथाः कुर्याद्विहिंसामूल्यं न धारयेत्॥१६४॥ अद्वारेण न चातीयाद्रामं वा वेश्म चैव वा ॥ रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ १७६॥ आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संवि शेत् ॥न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ॥ १६६॥ न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत् ॥ न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रव र्तिनः॥१६७॥ नक्तार्णानि च सर्वाणि द्वाद्वाशप्रजायतिक्षुः ॥ दशसूनासहस्रकी दशचक्रसमो ध्वजी॥ १७८॥दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ एतद्विक्षाय वै राज्ञां न प्रगृह्णन्ति साधवः ॥ १६९ ॥ उपाकर्मणि चोत्सर्गे त्रिरात्रं न पठेद् द्विजः ॥ वेदाङ्गानि पठेत्कृष्णे शुक्ले वेदमदन्तिदूतः ॥ ॥ १७० ॥ नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ ॥ न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ १७१॥ सायं निशीथे नाध्ययनं वादिने न च वाद्यौता अतिश्विश्राननुज्ञाप्य मारुते वाति वा भृशम् ॥ १७२॥ पशुमण्डूक मार्जारश्वसर्पनकुलादिभिः ॥ कृतेऽन्तरतालमने रुधिरे च तथा स्रुतौ ॥ १७३॥ द्वावेतो वर्जयेन्नित्यमनध्यायौ द्विजोत्तमः ॥ स्वाध्यायभूमिं चाशुद्धां चात्मानमशुचिं द्विजः ॥ १७४॥ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा॥ नाक्रामेत्कामतश्छायां बभ्रुगो दीक्षितस्य च ॥ १७५॥ नात्मानमवमन्येत पूर्वादभिरसमृद्धिभिः ॥ आमृत्योः श्रियमन्विच्छेन्नैतां मन्येत दुर्लभा म्॥ १७६॥ सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ॥ प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १७७ ॥ भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा

तृ० खं० अ० २३२

वदेत् ॥ शुष्कैर्वैरं विवादं च न कुर्यात्केनचित्सह ॥ १७८ ॥ अनात्तुरः स्वानि खानि न स्पृशेन्निमित्ततः ॥ गणान्नं गणिकान्नं च सूतकान्नं च वर्जयेत् ॥ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ॥ १७९॥ सविव्रतान्हितेमांश्र्व कुर्यात्सर्वत्र नित्यशः ॥ पितृश्र्वैवाष्टकास्वर्चेत्रिन्नवम्वष्टकासु च ॥ १८० ॥ मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम ॥ जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ १८१ ॥ न पादपाणिचपलो न नेत्र चपलो द्विजः ॥ न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ १८२ ॥ येनास्य पितरो याता येन याताः पितामहाः ॥ तेन यायात्सतां मार्ग तेन गच्छन्न रिष्यते ॥ १८३ ॥ ऋत्विक्पुरोहिताचार्यमातुलातिथिसंश्रितैः ॥ बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः ॥ १८४ ॥ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥ दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ १८५ ॥ एतैर्विवादं सन्त्यज्य सर्वलोकाञ्जयेद् गृही ॥ तस्मादेतैरधि क्षिप्तः सहेतासञ्ज्वरं सदा ॥ १८६ ॥ प्रतिग्रहणसमर्थोऽपि प्रसंगं तत्र वर्जयेत् ॥ प्रतिग्रहेण विप्रस्य ब्राह्मं तेजो विनश्यति ॥ १८७॥ न च द्रव्यमविज्ञाय विधिं धर्म्यं प्रतिग्रहे ॥ प्राज्ञः प्रतिग्रहं कुर्याद्वसीदन्नपि क्षुधा ॥ १८८॥ अतपास्त्वनधीयानः प्रतिग्रहकुरुर्द्विजः ॥ अम्भस्य संप्लवेनैव सह तेनैव मज्जति ॥ १८९ ॥ तस्मात्त्र विद्दान्गृह्णीयाद्यस्मात्तस्मात्प्रतिग्रहम् ॥ अल्पकेनाप्याविद्वांस्तु पंके गौरिव सीदति ॥ १९० ॥ प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ॥ ये लोका दानशीलानां स तानाप्नोति शाश्वतान ॥ १९१ ॥ गुरून्भृत्यांश्चोजिहीर्षुरर्चिष्यन्दैवतातिथि र्थीन् ॥ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ १९२ ॥ गुरुष्वभ्यवतीतेषु विना वर्तेंर्गृहे वसन् ॥ आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा ॥ १९३ ॥ धर्मध्वजोऽथ वा लुब्धश्छाद्मस्थो लोकदाम्भिकः ॥ बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ १९४ ॥ अधोदृष्टिनैकृतिकः स्वार्थसाधनतत्परः ॥ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ १९५ ॥ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ॥ ते पतन्त्यन्धतामिस्रे सह पापेन कर्मणा ॥ १९६ ॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ॥ व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥ प्रेत्यह तादृशो विप्रो गृह्यते ब्रह्मवादिभिः ॥ १९७ ॥ छद्मना चरितं तच्च व्रतं रक्षांसि गच्छति ॥ अलिङ्गी लिङ्गिवेशेन यो वृत्तिमुपजीवति ॥ १९८ ॥ स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ परकीयानपानेषु न स्नायाद्धि कदाचन ॥ निपानकर्त्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ १९९ ॥ यानं शय्या सनं वस्त्रं कूपोद्यानगृहाणि तु ॥ अदत्तान्युपभुञ्जानो ह्येनसः स्यात्तूरीयभाक् ॥२००॥ यमान्सेवेत सततं न नित्यं नियमान्बुधः ॥ यमान्संत्यज्य कुर्वाणो नियमान्केवलान्मजन् ॥२०१॥ शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः ॥ व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥२०२ ॥

॥४०५॥

आनृशंस्यं क्षमा सत्यमहिंसा च दमः स्पृहा ॥ ध्यानं प्रसादो माधुर्य चार्जवं च यमा दश ॥२०३॥ नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा ॥ स्त्रिया क्लीबेन च हुते भुञ्जीयाद्ब्राह्मणः क्वचित् ॥२०४॥ यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ॥ २०५॥ आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव मृत्तिकाः ॥ २०६ ॥ परलोकसहायार्थं परपीडां विवर्जयेत् ॥ उत्तमेरुत्तमैर्नित्यं सम्बन्धानाचरेत्सद्द ॥२०७॥ निहीनैः कुलमुत्कर्षमथमानश्चोत्सृजेत् ॥ एषोदकं मुङ्कफलमन्नमभ्युद्धृतं च यत् ॥ २०८ ॥ सर्वतः प्रतिगृह्णीयान्मध्वथामभयदक्षिणाम् ॥ आहृत्याभ्युद्गतां भिक्षां गृह्णीयादप्रचोदिताम् ॥ अन्यत्र कुलटाषण्ढपतितेभ्यस्तेनविद्विषः ॥ २०९ ॥ शय्यां गृहास्तृणान्नञ्चानन्नापः पुष्पमगोर्दधि ॥ धाना मत्स्याः पयो मांसं शाकं चैव तु निर्णुदेत् ॥ २१० ॥ गौऽन्वय्यास्सन्तमत्मानमन्यथा सत्सु भाषते ॥ किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ २११ ॥ वाच्यर्था नियतास्सर्वे वाङ्‌मूला वाग्विनिस्सृताः ॥ तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ ॥ २१२ ॥ सन्तानिकं यक्ष्यमाणमध्वगं सर्ववेदगम् ॥ गुर्वर्थं पितृमात्रर्थ स्वाध्यायार्थमथापिनः ॥ २१३ ॥ न चैतान्स्नातकान्वित्त्वाद्द्वा हणान्धर्मभैक्षुकान् ॥ निःस्वेभ्यो देयमेतेभ्यो दानं विद्या विशेषतः ॥ २१४ ॥ एतेभ्यो हि द्विजाग्रेभ्यो देयमन्नं सदक्षिणम् ॥ इतरेभ्यो बहि र्वैद्यां कृतान्नं देयमुच्यते ॥ २१५ ॥ कृतदारोऽपराद्दारानभिगत्वा योऽधिगच्छति ॥ रतिमात्रं फलं तस्य द्रव्यदातुस्तु सन्ततिः ॥ २१६ ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ॥ अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ २१७ ॥ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ॥ स पीतसोमपूर्वोऽपि तस्य नार्भाति तत्फलम् ॥ २१८ ॥ सक्तः परजने दाता स्वजने दुःखजीविनि ॥ मध्वापातो विषस्वादः स धर्मप्रतिरूपकः ॥ २१९ ॥ भृत्यानामुपरोधेन यः करोत्यौर्ध्वदैहिकम् ॥ तद्भवत्यसुखोदर्कं जीवतोऽस्य मृतस्य वा ॥ २२० ॥ न यज्ञार्थं द्विजः शूद्राद्भिक्षां लिप्सेत धर्मवित् ॥ यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ २२१ ॥ यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ॥ स याति भासतां विप्रः काकतां वा शतं समाः ॥ २२२ ॥ देवस्वं ब्राह्मणस्वं च यो लोभात्रोपजीवति ॥ स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ २२३ ॥ इष्टिं वैश्वानरीं विप्रो निर्वपेद्द्बहुपर्यये ॥ कृतानां पशुसोमानां निष्कृत्यर्थमसम्भवे ॥ २२४ ॥ आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ॥ समाप्नोति फलं तस्य परत्रेति विचारितम् ॥ २२५ ॥ म्रसुः प्रथमक्ल्पस्य योऽनुकल्पेषु वर्तते ॥ भ्रमेण योगं नाप्नोति नरकं चैव गच्छति ॥ २२६ ॥ क्षत्रियो बाहुवीर्येण तरेदापद्मात्मनः ॥ धनेन वैश्यशूद्रौ तु जपहौमैर्द्विजातयः ॥ २२७ ॥

वि० ध० ॥४०६॥ दृ० में० अ० २३२

न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः ॥ होता स्याद्गार्हपत्येषु नाऽर्तो नाऽसंस्कृतस्तथा ॥ २२८ ॥ प्राजापत्यमदत्त्वाऽश्वमन्वाधायस्य दक्षिणाम् ॥ अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥२२९॥ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ॥ न त्वल्पदक्षिणेनेष्टेयेजेतेह कथंचन ॥ २३० ॥ हन्त्यल्पदक्षिणो यज्ञस्तस्मादल्पधनो यजेत ॥ बालातपं न सेवेत न दिवा मैथुनं व्रजेत ॥ २३१ ॥ प्रायश्चित्ती यतां प्राप्य प्रायश्चित्तं समाचरेत् ॥ मातुः स्वसारं वा पुत्रीं परभार्या प्रकीर्त्तयेत् ॥२३२॥ नदीं तरेन्न बाहुभ्यां वर्जयेत्कूपलङ्घनम् ॥ यथाकथंचि न्नौदीक्षादादित्यं तेजसां निधिम् ॥ २३३ ॥ न क्रुद्धस्य गुरोर्वक्त्रं नैवादर्शनमार्जितम् ॥ स्नानभोजनपानानि वाङ्मेध्यो नाऽनरेत्पुनः ॥ २३४ ॥ घृतेन बिभ्रयाद्धारान्वह्निर्मोऽङ्गुपपाणिद्विजान् ॥ २३५ ॥ बहुश्रुतादिकं यस्तु व्यवसेनेोदकेन चा प्रतिजानोतिनो विप्रः स याति नरकं महत् ॥ ॥ २३६ ॥ नरोहेद्विषमं शैलं नावं संशयितांस्तथा ॥ न पातयेत लोष्टेन न काष्ठेन फलं द्रुमात् ॥ २३७ ॥ शिरःस्नातस्तु तैलेन नाङ्गं किंचिदपि स्पृशेत् ॥ वहेश्च भारं शिरसा युगपन्नाग्निवाणिणी ॥ २३८ ॥ न तोयं प्रक्षिपेद्वह्नौ वह्निं तोये तथैव च ॥ वर्जयेद्दन्तसोधाह्र भोज्यान्नस्य च कुत्सनम् ॥ २३९ ॥ राजद्रिष्टं गणद्रिष्टं लोकद्रिष्टं विवर्जयेत् ॥ सायं प्रातश्च विदुषां शृणुयात्पुष्कला गिरः ॥ २४० ॥ संस्कृतं पायसं नित्यं गवावां कृसरं वदेत् ॥ श्मश्रुकर्मणि चायुष्यं जीवितेन तथा कृतिः ॥ २४१ ॥ व्याधितानां तु सर्वेषामयुषः प्रतिनन्दनम् ॥ श्रान्तस्य विश्रमेोति चाख्यातं सीरिणस्तथा ॥ २४२ ॥ आसीनस्य सुखं चापि पुण्याहमपि गच्छतः ॥ देवकर्मप्रवृत्तस्य प्रासादं परिकीर्त्तयेत् ॥ २४३ ॥ न जातु त्वमिति ब्रूयादपांक्षोपि महत्तमम् ॥ त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ॥ २४४ ॥ अवराणां समानानां शिष्याणाअंतिरिष्यते ॥ एक एव चरेद्धर्मं न धर्मध्वजिको भवेत् ॥ २४५ ॥ अचैदवान् दम्भेन सेवेतामायया गुरून् ॥ निधिं विन्द्यव्यात्परस्वं यथार्थः शब्दवानिति ॥ २४६ ॥कर्म वै सफलं कृत्वा गृह्णां प्रतिपादयेत् ॥ वृक्षास्ती वर्द्धजातु न तु सम्प्रेष्यतेक्वचित् ॥२४७॥ न वेगीतोऽड्यकार्यः स्यान्नाग्निदाग्न्यानि कुत्सयेत् ॥ सुकैकेशो न गच्छेत्तु स्वनाहारसभाधियः॥२४८॥ पाणिनालम्भ्य निष्क्रामद्गलपूज्याज्यमण्डलम् ॥ प्रदक्षिणास्तु कुर्वीत मंगल्यं सर्वदा यतिः॥२४९॥ मूत्राञ्ज वन्यनगरं नृपन्तृग्गृहे तथा ॥ अन्तः पुरं च ऋषयो दूतः परिवर्जयेत् ॥ २५० ॥ त्रिः पक्षस्य कृत्वमश्रुनखलोमानि कल्पयेत् ॥ न प्रतिस्फालयेद्धस्तु पाणिना चरणेन वा ॥ २५१ ॥ नांसवृतमुखः कुर्यात्कृतमंगविजृम्भणम् ॥ नाक्षरेण सुहृद्रूपम् न क्षारेण रिपोर्विरोत ॥ २५२ ॥ न सपैराब्धैः क्रीडेत्तु नदीवेगं विवर्जयेत् ॥

॥४०६॥

विद्याप्तिक्षणं मृत्योरयथातथोचेष्टितम् ॥ २६३ ॥ आहरेज्ज्ञानमर्थांश्च नरो ह्यमरवत्सदा ॥ केशेष्वेव गृहीतस्तु मृत्युना धर्ममाचरेत् ॥ २६४ ॥ प्रविष्टोजनसंबाधं तथातिगहनं न च ॥ हेम नासंस्कृतं धार्यं निशि लोष्टं न च क्षिपेत् ॥२६५॥ आदौ पङ्क्त्यां न चाश्नीयाज्जह्येद्रूद्धमितान्नम् ॥ वर्जयेच्छात्रशबलं दिवा निद्रां तथैव च ॥ २६६ ॥ कामः क्रोधो भयो हर्ष लोभो दर्पस्तथैव च ॥ रिपवः षड् विजेतव्याः पुरुषेण विपश्चिता ॥ २६७ ॥ अरिषड्गेसंन्यासात्कुर्यादिन्द्रियनिग्रहम् ॥ योगक्षेमं सदोत्थान्नात्प्रज्ञां वृद्धोपसेवनात् ॥ २६८ ॥ प्रश्रयेण जयेन्मानं दैन्यं दृष्टांत संश्रयात् ॥ अक्रोधेन जयेत्क्रोधं विनयेन त्वनार्यताम् ॥ २६९ ॥ शौघ्रत्त्वाच्छास्तपादं च वाचमुच्चारणाज्जयेत् ॥ अज्ञानं ज्ञानसंयोगात्कामं का मांगवर्जनात् ॥ २७० ॥ धर्मिष्ठैरागमेर्लोभं क्रोधं मैत्र्यादिवर्जयेत् ॥ कारुण्येन जयेन्मानं कालं कार्योपपत्तिभिः ॥ २७१ ॥ आत्मानं सुखदुः खाद्यं त्वनभिज्ञाय योजयेत् ॥ धृत्वा शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥ २७२ ॥ चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा ॥ देश कालाद्यनुवन्ध्यं धर्माणामाविरोधि यत् ॥ २६३ ॥ तत्तात्सुखं निषेवेत नास्मान्निःसुखी भवेत् ॥ रूपसंदर्शनश्चेस्वरसगन्धान्सदा जयेत्॥२६४॥ वस्त्रमपि सदोमद्ध्ये ह्यसक्तो मनसा भवेत् ॥ परेषांन्तस्व संदध्यात्प्रतिकूलं यदात्मनः ॥ २६५ ॥ कृच्छ्रेष्वपि न तत्कुर्यान्मातृवत्नां यद् संम्मतम् ॥ जीर्णाशी च मिताशी च हिताशी च तथा भवेत् ॥२६६॥ शस्यते यैर्गुणैरन्यैर्नरैर्जर्जित यशः ॥ उच्छ्रवृत्तिम्र्भवेत्तवं विपरीतमत् त्यजेत ॥ २६७ ॥ सुकारुणिकात्मात्मानं व्यापयेन्नापि निर्घृणम् ॥ देशकालौ च शक्तिं च जनताश्चावलोकयेत् ॥ २६८ ॥ न मृदुः स्यान च क्रूरो क्षुभावेव समाश्रयेत् ॥ मृदुर्भवेत्त्ववज्ञातः तीक्ष्णादुद्विजते जनः ॥ २६९ ॥ अनालिक्षितचित्तः स्यात्रेकान्ते किञ्चिदाचरेत् ॥ विद्यात्परस्य रन्ध्राणि स्वरंध्रं छादयेत्पुनः ॥ २७० ॥ गूहेत्कूर्म इवाङ्गानि रक्ष्यादात्मनमात्मना ॥ वागादीनि सहायानि कृत्वा प्रज्ञां च मन्त्रिणम् ॥ २७१ ॥ धर्मकामसुखद्व्यर्थं दासाब्धैः पुमान्भवेत् ॥ अर्थानर्थौ समासाह्य हर्षदैन्ये विवर्जयेत्॥२७२॥दुःखं दुःखाधिकान्पश्येत्सुखे पश्येत्सुखाधिकान् ॥ नत्वेवं मूढवद्ध्याद्यात्मानं सुखदुःखयोः॥२७३॥हर्षस्थानसहस्राणि शोकस्थानशतानि च ॥ दिवसेदिवसे मूढमाविशन्ति न पण्डितम्॥२७४ ॥ न तत्कुर्वीत यस्यानंते हर्षोपामल्पमाप्नुयात् ॥ अज्ञानप्रभवो मोहस्तस्माद्रोगः प्रवर्तते ॥२७५॥ रगाद्दग्धस्ततः क्रोधः क्रोधान्मानोऽभिजायते ॥ मानाद्दपार्थकं कर्म कर्मतोऽशुभलक्षणम् ॥ २७६ ॥ जन्ममृत्युजराव्याधिदुःखशोकप्रवर्त्तकम् ॥ अप्रमादो वृद्धसेवा तप्रज्ञामूलमुच्यते ॥ २७७ ॥ ज्ञानाद्धर्मः सुखं धर्मात्रिःश्रेयसऽभ्युदात्मकम् ॥ इन्द्रियार्थसंयोगो भवेद्दुःखलक्षणम् ॥ २७८ ॥ नारुंतुदः स्यान्नृशंसवादी नहींनतः परम

वि० ध० तृ० खं० अ० २३४ ॥४०७॥

भ्याद्दहेत ॥ यथास्य वाचा पर मुद्विजेत न तां वदेद्रुषतीं पापलोकाम् ॥ २७९ ॥ वाक्सहायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ॥ परस्य तुमर्मसु ते पतन्ति न तान्धीरोऽवसृजेत्परेषु ॥२८०॥ प्रियाणि लोके शृणुते प्रियंवदः प्रियाणि चाप्नोति प्रियाणि चाश्नुते ॥ प्रियश्च सर्वस्य जनस्य जायते जनानुरागमभवा हि संपदः ॥ २८१॥ आचारयुक्किल्बिषं प्रयाति आचारेणानवे भवत्यरोगः ॥ आचारावानेव चिरन्तु जीव दाचारावानेव मुनक्ति लक्षणम् ॥ २८२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु आचारवर्णनो नाम त्रयोविंश दधिकद्विशततमोऽध्यायः ॥ २३३॥ हंस उवाच ॥ प्रायश्चित्तीयातां प्राप्य दैवात्पूर्वरुतेन वा ॥ न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते नरः ॥ १ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वाङ्गनागमः ॥ महान्ति पातकान्याहुः संयोगमपि तैः सह ॥ २ ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ३॥ ब्रह्मोझता वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः ॥ गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानिषट् ॥४॥ निक्षे पस्यापहरणं नराश्वरजतस्य चा॥भूमिद्रव्यमणीनां च रुक्मस्तेयसमं स्मृतम्॥५॥ रेतस्कः सयोनिषु कुमारीष्वन्त्यजासु चा सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ६ ॥ गोवधोऽयाज्यसंयाज्यं पारदार्यमात्मविक्रयः ॥ गुरुमातृपरित्यागः स्वाध्यायाग्नेः सुतस्य च ॥७॥ परिवित्तितानुजेज्येष्ठे परिवेदनमेव च ॥ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ८ ॥ कन्यायादूषणं चैव वार्धुष्यं व्रतलोपनम् ॥ तडागारामदाराणामपत्यस्य च विक्रयः॥ ९ ॥ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥ भृताच्चाध्ययनादानमपण्यानां च विक्रयः॥१०॥ सर्वंकौर्यंञ्चध्वेकारो महायन्त्रप्रवर्त नम् ॥ हिंसौषधिवियाजीवोऽभिचारो मूलकर्म चा ॥११॥ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ॥ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥१२॥ अनाहिताग्निता स्तेयमृणानां चानपाक्रिया ॥ असच्छास्त्राभिगमनं कौशीलव्यस्य च क्रिया ॥ १३॥ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषे वणम् ॥ स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ १४ ॥ ब्राह्मणस्य रुजःकृत्यं घ्रातिरघ्रेयमद्ययोः ॥ जैह्मं पुंसि च मैथुन्यं जातिभ्रंशक स्मृतम्॥१५॥ खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ॥ संकरीकरणं ज्ञेयं मीनाहिमहिसिष्य च ॥ १६ ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्र सेवनम् ॥ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ १७ ॥ कृमिकीटवयोहत्या मद्यानुगतभोजनम् ॥ फलेधुंकुसुमस्तेयमैर्यं च मलापहम् ॥ ॥ १८ ॥ एतान्यन्यानि सर्वाणि यथोक्तानि पृथक्पृथक् ॥ धैयैर्व्रतैपोहन्ते तानि मे सन्निबोधत ॥ १९ ॥ ब्रह्महा द्वादशसमाः कुटि कृत्वा वने वसेत ॥ भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ २० ॥ लक्षं शस्त्रभृतां वा स्याद्दिद्दिपामिच्छद्यात्मनः ॥

॥४०७॥

प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्शिराः ॥ २१ ॥ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा ॥ अभिजिज्द्विश्वजिद्भ्यां वा त्रिवृताग्निष्टु- तापि वा ॥ २२ ॥ जपन्वान्यतमं वेदं योजनानां शतं व्रजेत् ॥ ब्रह्महत्यापनोदाय मितभुङ् नियतेन्द्रियः ॥ २३ ॥ सर्वस्वं वा वेदविदे ब्राह्मणाया- पपादयेत् ॥ धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥ २४ ॥ हविष्यभुग्वाऽनुसरेत्प्रतिस्रोतः सरस्वतीम् ॥ जपेद्वा नियताहारोस्त्रिर्वेदस्य संहि- ताम् ॥ २५ ॥ कृतवापनो निवसेद्ग्रामांते गोव्रजेऽपि वा ॥ आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ २६ ॥ ब्राह्मणार्थे गवाथें वा सम्यक् प्राणान्परित्यजेत् ॥ मुच्यते ब्रह्महत्याया गोब्राह्मणहिते रतः ॥ २७ ॥ त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा ॥ विप्रस्य तन्निमित्ते वा प्राणां- ल्लाभे विमुच्यते ॥ २८ ॥ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ॥ समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ २९ ॥ शिष्टा वा भूमि- देवानां नरदेवसमागमे ॥ स्वमनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ३० ॥ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ॥ तस्मा- त्तत्समागे तेषांमनो विख्याप्य शुद्ध्यति ॥ ३१ ॥ ब्राह्मणः सम्भवेनैव देवानार्माप दैवतम् ॥ प्रमाणं चैव लोकस्य ब्रह्माद्रेव हि कारणम् ॥ ३२ ॥ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनःसु निष्कृतिम् ॥ स तेषां पावनाय स्यात्पवित्रा विदुषां हि वाक् ॥ ३३ ॥ अतोऽन्यतममास्थाय विधि विप्रः समा- हितः ॥ ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥३४॥ हत्वा गर्भमविज्ञातं चैतदेवव्रतं चरेत्॥ राजन्यवैश्यौ चेज्ज्ञानादात्रेयीमेव च स्त्रियम् ॥३५॥ उक्ता चैवानृतं साक्ष्ये प्रतिकृत्य गृहस्तथा ॥ अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृद्वधम् ॥ ३६ ॥ इयं विशुद्धिरादिष्टा प्रमाप्याकामतो द्विजम् ॥ कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ३७ ॥ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ॥ तया स काये निर्दग्धे मुच्यते किल्विषात्ततः॥ ॥३८॥गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ॥ पयो घृतं वा मरणादाशङ्कत्समेव वा ॥ ३९ ॥ कणांन्वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि ॥ सुरा- पानोपनोदार्थं वालवासा जटी ध्वजी ॥ ४० ॥ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ॥ तस्माद्ब्राह्मणराजन्यौ वैश्यस्तु न सुरां पिबेत ॥ ४१ ॥ गोडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा ॥ यथैवैका तथैवान्या न पातव्या द्विजातिभिः ॥ ४२ ॥ यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् ॥ तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ ४३ ॥ अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् ॥ अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ॥ ४४ ॥ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ॥ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ४५ ॥ एषा विचित्राऽभि- हिता सुरापानस्य निष्कृतिः ॥अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ४६ ॥ सुवर्णस्तेयवान्विप्रो राजानमभिगम्य तु ॥ स्वकर्म ख्यापय-

वि० ध० ॥४०८॥

तृ० पं० अ० २३४

न्द्रयाद्राज्ञांमवधुशास्तिस्विति ॥ ४७ ॥ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् ॥ वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव वा ॥ ४८ ॥ तपसा पनुदत्युस्तु सुवर्णस्तेयजं मलम् ॥ चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥ ४९ ॥ एतैर्व्रतैपपोहैत पापं स्तेयकृतं द्विजः ॥ गुरुस्त्रीगमनीयं तु व्रतैरेतैर्पानुदेत् ॥ ५० ॥ गुरुतल्प्यभिभाष्यैनः शंये स्वप्यादयोमये ॥ सूर्मी ज्वलन्तीं वाश्लिष्य मृत्युना स विशुध्यति ॥ ५१ ॥ स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्जलौ ॥ नैर्ऋतीं दिशमातिष्ठेदानिपातादजिह्मगः ॥ ५२ ॥ खट्टांगी चीरवासा वा श्मश्रुलो विजने वने ॥ प्राजापत्यं चरेत्कृच्छ्रं त्वब्दमेकं समाहितः ॥ ५३ ॥ चान्द्रायणं वा त्रीन्मासानभ्यस्येन्नियतेन्द्रियः ॥ हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ५४ ॥ एभि र्व्रतैरपोह्युर्महापातकित्नो मलम् ॥ उपपातकितस्त्वेवं विविधैर्नियमैरपि ॥ ५५ ॥ उपपातकसंयुक्तो गोघ्नो मासं यवाञ्छिपवेत् ॥ कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ ५६ ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् ॥ गोमूत्रेणाचरेन्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ५७ ॥ दिवाऽनुगच्छेत्ता गावस्तु तिष्ठन्दूर्ध्वं रजः पिवेत् ॥ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ५८ ॥ तिष्ठन्तीष्वथ तिष्ठेत चरन्तीष्वप्यनुव्रजेत् ॥ आसीनासु तथासीत नियतो वीतमत्सरः ॥ ५९ ॥ आतुरार्तामभिशस्तां वा सिंहव्याघ्रादिभिर्भयैः ॥ पतितां पंकमग्नां च सर्वप्राणैर्विमोचयेत् ॥ ६० ॥ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ॥ न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥६१॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथ वा खले ॥ भक्षयन्तीं न कथयेत्पिबन्तीं चैव वत्सकम् ॥ ६२ ॥ अनेन विधिना यस्तु गोघ्नो गा अनुगच्छति ॥ स गोहत्याकृतं पापं त्रिभिर्मासै र्व्यपोहति ॥ ६३ ॥ वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः ॥ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ६४ ॥ एतदेव व्रतं कुर्युरुपपातकित्नो द्विजाः ॥ अवकीर्णि विशुद्ध्यर्थं चान्द्रायणमथापि वा ॥ ६५॥अवकीर्णी तु काणेन गर्दभेन चतुष्पथो ॥ पाकयज्ञविधानेन यजेत निर्ऋतिं निशा॥६६॥ हुत्वाग्नौ विधिवद्धोमानन्ततश्च समेत्युचा ॥ वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाहुतीः ॥ ६७॥ कामतो रेतसस्सेकं व्रतस्थस्य द्विजन्मनः ॥ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ ६८ ॥ मरुतः पुरुहूतं च गुरुं पावकमेव च ॥ चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ ६९ ॥ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ॥ सप्तागारांश्चरेद्भैक्ष्यं स्वकर्म परिकीर्तयेत् ॥ ७० ॥ तेभ्यो लब्धेन भैक्ष्येण वर्तयेन्नैककालिकम् ॥ उपस्पृशंस्त्रिषवणं चाब्देन स विशुद्ध्यति ॥७१॥ जातिभ्रंशकरं कर्म कृतवान्यतममिच्छया ॥ चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छ्या ॥७२॥ सङ्करापात्रकृत्यासु मासं शोधनमन्दूष्व् ॥ मलिनीकरणीयेषु तप्तः स्याद्यावककृच्छ्रम् ॥ ७३ ॥ तुरीयं ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतम् ॥ वैश्येऽष्टमांशं वृत्तस्थे

॥४०८॥

शूद्रं ज्ञेयं तु षोडशम्॥ ७४ ॥ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ॥ वृषभैंकं सहस्रं गा दद्याच्छुद्धयर्थमात्मनः॥७५॥ त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महणो व्रतम् ॥वसन्दूरंतरे ग्रामे वृक्षमूलनिकेतनः ॥७६॥ एतदेव चरेत्कृच्छ्रं प्रायश्चित्तं द्विजोत्तमः ॥ प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वै शतकं गवाम् ॥ ७७॥ एतदेव व्रतं कृत्स्नं षण्मासांश्चूढ्वा चरेत् ॥ वृषभैकादशा वापि दद्याद्विप्राय गाः सिताः ॥७८॥ मार्जारनकुलौ हत्वा चापं मण्डूकमेव वा॥ श्वगोघोलूककाकांश्च शुद्धह्यायाव्रतं चरेत् ॥७९॥ पयः पिबेत्तिरात्रं वा योजनं वाऽध्वनो व्रजेत् ॥ उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाब्दैवतं जपेत् ॥८०॥ अस्थि कृष्णांयसों दद्यात्सर्पं हत्वा द्विजोत्तमः ॥ पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ ८१ ॥ घृतकुम्भं वराहे तु तिलद्रोणन्तु तित्तिरी ॥ शुके द्विहायनं वत्सं कौञ्चं हत्वा त्रिहायनम्॥८२॥हत्वा हंसं बलाकं च बकं बर्हिणमेव च ॥ वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ॥८३॥ वासो दद्याद्धयं हत्वा पञ्च नीलानुषैंश्च वा ॥ अजमेषावनड्डाहं खरं हत्वैकहायनम् ॥ ८४ ॥ क्रव्यादं तु मृगं हत्वा धेनुं दद्यात्पयस्विनीम् ॥ अक्रव्यादं वत्सतरीमुरूं हत्वा तु कृष्णलम् ॥८५॥ जिनांकार्मुकबस्तावीन्पृथग्दद्याद्विशुद्धये ॥ चतुर्णामपि वर्णानां नारीं हत्वाऽनवस्थिताम् ॥८६॥ दानेन वर्धनेर्युक्तः सर्पादीनामशक्तुवन् ॥ एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥८७॥अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणा॥ पूर्णे चान- स्थनस्तां तु शुद्धह्यायाव्रतं चरेत्॥८८॥किंचिद्देव तु विप्राय दद्यादस्थिमतां वधे ॥ अनस्थ्नां चैव सत्त्वानां प्राणायामो विशोधनम् ॥८९॥फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ॥ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥९०॥ अन्नाद्यजातसत्त्वानां रसानां च सर्वशः॥ फलपुष्पोद्भ- वानां च घृतप्राशो विशोधनम् ॥९१॥ कृष्टजानाममोषानां जातानाञ्च स्वयं वने ॥ वृथालम्भेननुगच्छेद्वा दिनमेकं पयोव्रतम् ॥९२॥ एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ॥ ज्ञानाज्ञानकृतं कृत्स्नं शृणुतान्नाद्यभक्षणे ॥९३॥ अज्ञानाद्ब्राह्मणो पीत्वा संस्कारेणैव शुद्ध्यति।मतिपूर्वंमनिर्देश्यं प्राणान्तिक कमिति स्थितिः ॥९४॥अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ॥ पञ्चरात्रं वसेत्पीत्वा शङ्खपुष्पीभृतं पयः ॥९५ ॥ स्पृष्ट्वा दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च ॥ शूद्रोच्छिष्टाश्च पीत्वापः कुशवारिपिबेत्त्र्यहम् ॥ ९६॥ ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः ॥प्राणानाप्सु त्रिराचम्य घृतं प्राश्य विशुद्ध्यति ॥९७॥ अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ९८॥वपनं मेखला दण्डं भैक्ष्यचर्या व्रतानि च ॥ निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥९९॥ अभोज्यानान्तु भुक्तान्नं स्त्रीशूद्रोच्छिष्टमेव च ॥ जग्ध्वा मांसमभोज्यं च सतरान्नं पयः पिबेत् ॥ १०० ॥ युक्तानि च कषायांश्च पीत्वामेध्यानिपि द्विजः ॥ तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥ १०१ ॥ विड्वराह

६९

वि० ध० ॥ ४०१॥

तृ० सं० अ० २३४

खरोष्ट्राणां गोमायोः कपिकाकयोः ॥ प्राश्य मूत्रपुरीषाणि द्विस्त्रिश्चान्द्रायणं चरेत् ॥ १०२ ॥ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि वा ॥ अज्ञातं चैव सूपस्थं चैतदेव व्रतं चरेत् ॥ १०३ ॥ क्रव्यादसूकराणां च कुक्कुटानां च भक्षणे ॥ नक्रकाकवराणाञ्च तत्तत्कृच्छ्रं विशोधनम् ॥ ॥ १०४ ॥ मासिकान्नञ्च षोडशीयाद्यदूढ्वा कपितो द्विजः ॥ स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ १०५ ॥ व्रतचारी तु योऽश्नीयान्मधुमांसं कथञ्चन ॥ स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ १०६ ॥ बिडालकाकलूकोच्छिष्टं जग्ध्वा श्वनकुलस्य चा॥केशीकीटावपन्नञ्च पिबेद्ब्राह्मादम र्बलम् ॥ १०७ ॥ अभोज्यमन्नं नात्तव्यं चात्मनः शुद्धिमिच्छता॥ अज्ञानभुक्तं तूत्तार्य शोध्यं वाप्याशु शोधनैः ॥ १०८ ॥ एषोऽनाद्यादन्न स्योक्तो व्रतानां विविधो विधिः ॥ स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ १०९ ॥ धान्यान्नधनचौर्याणि कृत्वा कामाद्विजोत्तमः ॥ स्वजा तीयग्रहादेव कृच्छ्राब्दं विशुद्ध्यति ॥ ११० ॥ मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ॥ कूपवापीजलानाञ्च शुद्धिश्चान्द्रायणं स्मृतम् ॥ १११ ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः ॥ चरेत्सान्तपनं कृच्छ्रन्तन्निर्यात्यात्मशुद्धये ॥ ११२ ॥ भक्ष्यभोज्यापहारेणे यानशय्यासनस्य च ॥ पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनम् ॥ ११३ ॥ तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ॥ चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोज नम् ॥ ११४ ॥ मणिशुक्ताप्रवालानां ताम्रस्य रजतस्य च ॥ अयःकांस्योपलानाञ्च द्वादशाहं कणाग्रतः ॥ ११५ ॥ कार्पा सकीटजौर्णानां द्विशफैकशफस्य च ॥ पक्षिगन्धौषधीनाञ्च रज्जुवाञ्चैव 'व्यहं पयः ॥ ११६ ॥ एवमेतैर्व्रतैश्चोरोग्हित पापं स्तेयमुद्भूत द्विजः ॥ अगम्यामभिगम्याथ व्रतैर्विमरपामुदेत् ॥ ११७ ॥ गुरुतल्पव्रतं कुर्याद्द्विः सिका स्वयोनिषु ॥ सख्युः पुत्रस्य च स्त्रीषु कुमा रीष्वन्त्यजासु चा॥ ११८॥ पैतृष्वस्रेयीं भगिनीं स्वस्त्रीयां मातुरेव च॥मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ॥११९॥एताः स्त्रियस्तु भार्यार्थे नोपयच्छेद बुद्धमान॥ ज्ञातिस्तन्नातुपेयास्ताः पतन्ति ह्युपयच्छ्रधः ॥ १२०॥ अमातुषीषु पुरुष उदक्यायामयोनिषु ॥ रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ १२१ ॥ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ॥ गोयानेऽप्सु दिवा चैव सवासा स्नानमाचरेत् ॥ १२२ ॥ चाण्डालास्त्य ज्रियं गत्वा भुक्त्वा च प्रतिगृह्य च ॥ पतत्यज्ञानतो विप्रो ज्ञानात्साम्यन्तु गच्छति ॥ १२३ ॥ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ॥ यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम्॥ १२४॥सा चेत्पुनः प्रदुष्येत सदृशेनोपमन्त्रिता ॥ कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥१२५॥ यत्करोत्येकरार्थेण वृषलीसेवनं द्विजः ॥ तद्वैक्षभुग्जपन्नित्यं त्रिभिर्वर्षैरपोति ॥१२६॥ एषा पापकृतामुक्तो चतुर्णामपि निष्कृतिः ॥ पतितैः

॥४०१॥

संयुक्तानां चेमाः शृणुत निष्कृतीः ॥ १२७ ॥ संवत्सरेण पतति पतितेन सहाचरन् ॥ याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ १२८ ॥ यो येन पतितेनैवं संसर्गं याति मानवः ॥ स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ॥ १२९॥ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ॥ निन्दिते ऽहनि सायाह्ने ज्ञात्यूर्त्विग्गुरुसन्निधौ ॥ १३० ॥ दासीघटमपां पूर्णं पर्यस्येत्प्रेतवत्सदा ॥ अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ १३१ ॥ निवर्तेरंस्तस्मात्तु सम्भाषणसहासनै ॥ दायादस्य प्रदानञ्च यात्रामेव च लौकिके ॥ १३२॥ ज्येष्ठता च निवर्तेत ज्येष्ठं वापि च यद्वसु ॥ ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान्गुणतोऽधिकः ॥ १३३॥ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ॥ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्यजलाशये ॥ १३४ ॥ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ॥ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ १३५ ॥ एतमेव विधिं कुर्याद्योषित्सु पतिता स्वपि ॥ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ १३६ ॥ एनस्विभिर्निर्णिक्तैर्नार्थं कञ्चित्समाचरेत् ॥ कृतनिर्णेजनांश्चैवान्न जुगुप्सेत कर्हि चित् ॥ १३७॥ बालघ्नांश्च कृतघ्नांश्च विशुद्धानापि धर्मतः ॥ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ १३८॥येषां द्विजानां सावित्री नानूच्येत यथा विधि ॥ तांश्चारयित्वा त्रीन्कृच्छ्रान्यथाविध्युपनाययेत् ॥ १३९ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ॥ ब्रह्मणा च परित्यक्ता स्तेषामप्येतदादिशेत् ॥ १४० ॥ यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ॥ तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥ १४१ ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ॥ मासं गोष्ठे पयः पीत्वा मुच्येतासत्प्रतिग्रहात् ॥ १४२ ॥ उपवासकृशःश्रान्तं तु गोव्रजानुगतङ्गतम् ॥ प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १४३ ॥ सत्यमुक्त्वा तु विप्रेभ्यो विकिरेद्यवसं भुवम् ॥ गोभिः प्रवर्तिते तीर्थे कुर्वन्नुत्सृज्य परि ग्रहम् ॥ १४४ ॥ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ॥ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ १४५ ॥ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ॥ संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १४६ ॥ श्वसृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ॥ खराश्वोष्ट्रवराहेभ्य प्राणा यामेन शुद्ध्यति ॥ १४७॥ षष्ठान्नकालता मासं संहिताजप एव वा ॥ होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ १४८ ॥ उष्ट्रयानं समारुह्य खरयानञ्च कामतः ॥ स्नात्वा च विप्रो दिग्वासाः प्राणायामेन शुद्ध्यति ॥ १४९ ॥ विनाद्भिरप्सु वाप्यन्तः शरीरे सन्निवेश्य तु ॥ सचैलो बहिराप्लुत्य गामालभ्य विशुद्ध्यति ॥ १५० ॥ वेदोदितानां नित्यानां कर्मणां समतिक्रमे ॥ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ॥ १५१ ॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं तु गरीयसः ॥ स्नात्वानश्नन्नहःशेषं चाभिवाद्य प्रसादयेत् ॥ १५२ ॥ ताडयित्वा तृणेनापि कण्ठे

॥०ध०॥ ॥४१०॥

अ० २३६

बद्ध्वा च वाससा ॥ विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ १५३ ॥ अवगूर्य त्वब्दशतं सहस्रमामहन्त्यु ॥ १५५ ॥ अवगूर्या
नरकं प्रतिपद्यते ॥ १५४ ॥ शोणितं यावतः पांसुन्संगृह्णाति द्विजन्मनः ॥ तावन्त्यब्दसहस्राणि तत्कर्ता नरकं वसेत् ॥ १५५ ॥ अवगूर्या
चरेत्कृच्छ्रमतिकृच्छ्रं निपातने ॥ कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ १५६ ॥ वेदाभ्यासोन्वहं शक्त्या महायज्ञाक्रिया क्षमा ॥
नाशयन्त्याशु पापानि महापातकान्यपि ॥ १५७ ॥ यथैव तेजसा वह्निः प्रातार्निर्द्दहति क्षणात् ॥ तथा ज्ञानाग्निना पापं कृत्स्नं दहति वेद-
वित् ॥ १५८ ॥ पापानुरूपं पुरुषस्य शक्तिं देशं च कालं च तथा विदित्वा ॥ अनुक्तशुद्धिः प्रविचार्या देया उक्ते तथैवञ्च निरूपणीयम् ॥ १५९ ॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे हंसगीतासु प्रायश्चित्तवर्णनो नाम चतुस्त्रिंशदधिकद्विशततमोऽध्यायः ॥ २३४ ॥
हंस उवाच ॥ इत्येतेद्दानसामुक्तं प्रायश्चित्तं यथाविधि ॥ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ १ ॥ सव्याहृतीकाप्रणवाः प्राणाया-
मास्तु षोडश ॥ अपि भ्रूणहनं मासात्पुनन्त्यहहरहः कृताः ॥ २ ॥ कौत्सं जप्त्वाब्द इत्येतद्वासिष्ठं च त्र्यचं प्रति ॥ माहित्रीं शुद्धवत्यश्च सुरा
पोऽपि विशुध्यति ॥ ३ ॥ सकृज्जप्त्वास्थ वामीयं शिवसंकल्पमेव च ॥ अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ४ ॥ हविष्पन्तीयमभ्यस्य
नतमहं इतीति च ॥ जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ५ ॥ एनसां स्थूलसूक्ष्माणां चिकीर्षुरपनोदनम् ॥ अपै तृचं जपेदब्दं
यत्किञ्चिदमितीति च ॥ ६ ॥ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ॥ जपस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ ७ ॥ सोमारौद्रं तु बह्वेनोनरः
मासमभ्यस्य शुध्यति ॥ सवन्त्यामाप्वन्नास्नानमर्चणमिसिति च तृचम् ॥ ८ ॥ अब्दैार्घमन्दिरित्येतेद्नस्त्वं समर्क जपेत् ॥ अम्ररस्तन्व्
कृत्वाप्सु मासमासीत भैक्ष्यभुक् ॥ ९ ॥ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ॥ सुगुर्वप्यपहन्त्येनो जत्वा वा नम इत्यृचम् ॥ १० ॥
उपपातकसंयुक्तोगच्छेद्द्वाः समाहितः ॥ अभ्यस्याब्दं पावमानीर्भैक्ष्याहारो विशुध्यति ॥ ११ ॥ अरण्ये वा त्रिश्श्वस्य प्रयतो वेद्संहिताम् ॥
मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ १२ ॥ त्र्यहं तूपवसेद्यस्तु त्रिरात्रोत्युपुथ्व्रपः ॥ मुच्यते पातकैः सर्वैर्द्विजपीत्वाघमर्षणम् ॥ १३ ॥
ऋक्संहितां त्रिश्श्वस्य यजुषां वा समाहितः ॥ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ १४ ॥ यद्धार्चिकं तत्स्य परस्य पुंसो यस्मिन्नि
बद्धं भुवनं समग्रम् ॥ जपन्तमोङ्कारमतन्द्रितात्मा पापानि शीघ्रं प्रजहाति मर्त्यः ॥ १५ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेय
वज्रसंवादे हंसगीतासु रहस्यप्रायश्चित्तवर्णनो नाम पञ्चत्रिंशदधिकद्विशततमोऽध्यायः ॥ २३५ ॥ ऋषय ऊचुः ॥ कर्माणि श्रोतुमिच्छा

॥४१०॥