विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 868, कुल 1001 में से
संदर्भ में पढ़ेंवि० ध० तृ० खं० अ० २३४ ॥४०७॥
भ्याद्दहेत ॥ यथास्य वाचा पर मुद्विजेत न तां वदेद्रुषतीं पापलोकाम् ॥ २७९ ॥ वाक्सहायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ॥ परस्य तुमर्मसु ते पतन्ति न तान्धीरोऽवसृजेत्परेषु ॥२८०॥ प्रियाणि लोके शृणुते प्रियंवदः प्रियाणि चाप्नोति प्रियाणि चाश्नुते ॥ प्रियश्च सर्वस्य जनस्य जायते जनानुरागमभवा हि संपदः ॥ २८१॥ आचारयुक्किल्बिषं प्रयाति आचारेणानवे भवत्यरोगः ॥ आचारावानेव चिरन्तु जीव दाचारावानेव मुनक्ति लक्षणम् ॥ २८२ ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु आचारवर्णनो नाम त्रयोविंश दधिकद्विशततमोऽध्यायः ॥ २३३॥ हंस उवाच ॥ प्रायश्चित्तीयातां प्राप्य दैवात्पूर्वरुतेन वा ॥ न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते नरः ॥ १ ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वाङ्गनागमः ॥ महान्ति पातकान्याहुः संयोगमपि तैः सह ॥ २ ॥ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ॥ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ३॥ ब्रह्मोझता वेदनिन्दा कूटसाक्ष्यं सुहृद्वधः ॥ गर्हितान्नाद्ययोर्जग्धिः सुरापानसमानिषट् ॥४॥ निक्षे पस्यापहरणं नराश्वरजतस्य चा॥भूमिद्रव्यमणीनां च रुक्मस्तेयसमं स्मृतम्॥५॥ रेतस्कः सयोनिषु कुमारीष्वन्त्यजासु चा सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ६ ॥ गोवधोऽयाज्यसंयाज्यं पारदार्यमात्मविक्रयः ॥ गुरुमातृपरित्यागः स्वाध्यायाग्नेः सुतस्य च ॥७॥ परिवित्तितानुजेज्येष्ठे परिवेदनमेव च ॥ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ८ ॥ कन्यायादूषणं चैव वार्धुष्यं व्रतलोपनम् ॥ तडागारामदाराणामपत्यस्य च विक्रयः॥ ९ ॥ व्रात्यता बान्धवत्यागो भृताध्यापनमेव च ॥ भृताच्चाध्ययनादानमपण्यानां च विक्रयः॥१०॥ सर्वंकौर्यंञ्चध्वेकारो महायन्त्रप्रवर्त नम् ॥ हिंसौषधिवियाजीवोऽभिचारो मूलकर्म चा ॥११॥ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ॥ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥१२॥ अनाहिताग्निता स्तेयमृणानां चानपाक्रिया ॥ असच्छास्त्राभिगमनं कौशीलव्यस्य च क्रिया ॥ १३॥ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषे वणम् ॥ स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ १४ ॥ ब्राह्मणस्य रुजःकृत्यं घ्रातिरघ्रेयमद्ययोः ॥ जैह्मं पुंसि च मैथुन्यं जातिभ्रंशक स्मृतम्॥१५॥ खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा ॥ संकरीकरणं ज्ञेयं मीनाहिमहिसिष्य च ॥ १६ ॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्र सेवनम् ॥ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ १७ ॥ कृमिकीटवयोहत्या मद्यानुगतभोजनम् ॥ फलेधुंकुसुमस्तेयमैर्यं च मलापहम् ॥ ॥ १८ ॥ एतान्यन्यानि सर्वाणि यथोक्तानि पृथक्पृथक् ॥ धैयैर्व्रतैपोहन्ते तानि मे सन्निबोधत ॥ १९ ॥ ब्रह्महा द्वादशसमाः कुटि कृत्वा वने वसेत ॥ भैक्ष्याश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ २० ॥ लक्षं शस्त्रभृतां वा स्याद्दिद्दिपामिच्छद्यात्मनः ॥
॥४०७॥