सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 860, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 860

वि० ध० ॥४०३॥ तृ० खं० अ० २३३ ॥४०३॥

इन्द्रियाणां विचरतां विषयेष्वपहारिषु ॥ संशये यत्नमातिष्ठेद्वाम्यन्त्वेव वाजिनाम् ॥ ७४ ॥ वशीकृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ॥ सर्वान्संसाधयेदर्थानक्ष्णिन्वन्द्योगतस्तनुम् ॥ ७५ ॥ न जातु कामः कामानामुपभोगेन शाम्यति ॥ हविषा कृष्णवर्त्मव भूय एवाभिवर्धते ॥७६॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः ॥ यासौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥७७॥ त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः॥ कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ ७८ ॥ इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ॥ संनियम्य तु तान्येव ततः सिद्धिं स गच्छति ॥ ७९ ॥ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ॥ चत्वारि संप्रवर्धन्ते ह्यायुर्मेधा यशो बलम् ॥ ८० ॥ ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् ॥ वैश्यं क्षेमं समागम्य शूद्रं त्वारोग्यमेव च ॥ ८१ ॥ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ॥ एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ ८२ ॥ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ॥ ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ८३ ॥ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां च वीर्यतः ॥ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ ८४ ॥ अहिंसयैव भूतानां कार्यं श्रेयोऽनुपालनम् ॥ वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्मकामिणा ॥ ८५ ॥ यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा ॥ स वै सर्वमवाप्नोति वेदान्तगमनात्फलम् ॥८६॥ वेदमेव सदाभ्यस्येत्तपस्तप्तुं द्विजोत्तमः ॥ वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ ८७ ॥ योऽनधीत्य द्विजो वेदानन्यत्र कुरुते श्रमम् ॥ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ ८८ ॥ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ॥ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ ८९ ॥ न ह्यस्मिन्संयुज्यते कर्म किंचिदामौञ्जिबन्धनात् ॥ नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ ९० ॥ शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ कृतोपनयनस्यास्य व्रतादेशनमिष्यते ॥ ९१ ॥ गुरोर्यत्र परीवादो निन्दा वापि प्रवर्तते ॥ कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ ९२॥ खरो भवति परीवादी श्वा वै भवति निन्दकः ॥ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ ९३॥ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ॥ एकासनस्थो न भवेदाप्रोक्षोऽपि कदाचना ॥९४॥ गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ॥ नासीत गुरुणा सार्धं शिलाफलकनौषु च ॥ ९५ ॥ गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ॥ अध्यापयन्पुत्रसुतौ गुरुवन्मानमर्हति ॥ ९६ ॥ न कुर्याद्गुरुपुत्रस्य पाद्यौचावनेजनम् ॥ गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः ॥ ९७॥ असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ॥ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ॥ ९९॥ पूर्णा विंशतिवर्षेण