सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 861, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 861

गुणदोषौ विजानता ॥ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ॥ १००॥ बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ विप्रोष्य पादग्रहणन्त्वन्वहञ्चा भिवादनम् ॥ १०१॥ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ स्त्रियो रत्नान्यथो विद्या धर्मस्सत्यं सुभाषिताम् ॥ १०२॥ शिल्पानि चाप्यदुष्टानि समादे यानि सर्वतः ॥ अब्राह्मणादध्ययनं चापत्काले विधीयते॥ १०३॥ अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरौ ॥ नाब्राह्मणेगुरौ शिष्यो वासमात्यन्तिकं वसेत् ॥ १०४ ॥ ब्राह्मणे वाननूचाने काङ्क्षन्गतिमनुत्तमात् ॥ पितृभिर्मातृभिर्भार्यैः पतिभिर्देवरैस्तथा ॥ १०५॥ पूज्या भूषयितव्याश्च बहुकल्याण मीप्सुभिः ॥ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ॥ १०६ ॥ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ सन्तुष्टो भार्यया भर्ता भार्या भर्त्रा तथैव च ॥ १०७ ॥ यस्मिन्नेतत्कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ अविवाहैः क्रियालोपैर्वेदानध्ययनेन च ॥ १०८ ॥ कुलान्य कुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ शिल्पेन व्यवहारेण शूद्रापुत्रैश्च केवलैः ॥१०९॥ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ अयाज्य याजनाच्चैव नास्तिक्येन च कर्मणा ॥ ११० कुलान्यकुलतां यान्ति यानि हीनानि मन्त्रतः ॥ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि ॥ ॥ १११ ॥ कुलसंख्यान्तु गच्छन्ति कर्षन्ति च महद्यशः ॥ ऋषयः पितरो देवा भूतान्यतिथयस्तथा ॥ ११२ ॥ आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ स्वाध्यायेनार्चयेतर्षीन्होमैर्देवान्यथाविधि ॥ ११३ ॥ पितॄञ्छ्राद्धेन नॄनन्नैर्भूतानि बलिकर्मणा ॥ द्वादशाहरहः श्राद्धमन्नाद्येनोदकेन च ॥ ११४ ॥ पयोमूलफलैर्वापि पितृभ्यः प्रीतिमाहरेन् ॥ एकमप्याशयेद्विप्रं पित्रर्थे पाञ्चयज्ञिके ॥ ११५ ॥ न चैवात्रा शयत्कञ्चिद्वैश्वदेवं प्रति द्विजम् ॥ वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ॥ ११६ ॥ स्वसूत्रविहितं कुर्याद्वैश्वदेवमतन्द्रितः ॥ प्रणीते वाग्नौ हविष्ये वा हुतोत्सृष्टे जलेऽपि वा ॥ ११७ ॥ वैश्वदेवं ध्रुवं कार्यं ब्राह्मणेन विपश्चिता ॥ परं स्थानमवाप्नोति कृत्वैवं सततं गृही ॥ भोजयेदतिथिं पश्चाद्भिक्षां दद्याच्च भिक्षवे ॥ ११८ ॥ यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरौ ॥ तत्पुण्यफलमा प्नोति भिक्षां दत्त्वा यथार्चिताम् ॥ ११९ ॥ विद्यातपःसमृद्धेषु हुतं विप्रमुखेऽग्निषु ॥ निस्तारयति दुर्गेषु भवत्यक्षयमेव च ॥ १२० ॥ संप्राप्ताय त्वतिथये प्रदद्यादासनोदकम् ॥ अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ १२१ ॥ शिलान्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ॥ सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ १२२ ॥ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ॥ एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १२३ ॥ एकरात्रन्तु निवसन्मतिथिर्ब्राह्मणः स्मृतः ॥ नैकग्रामीणामतिथिं विप्रं साङ्गतिकं तथा॥१२४॥ उपासते ये गृहस्थाः परपाकमबुद्धयः ॥