सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 859, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 859

वसेचन्नम् ॥ उच्छिष्टोन्यार्ज्जनं चैव दूरात्कार्यं विजानता ॥ ४६ ॥ उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत ॥ पादं पादेन नाक्रामेत्र कण्डूयेन्न शौचयेत् ॥ ४७ ॥ हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्विगर्हितान् ॥ रूपद्रविणहीनांश्च सत्त्वहीनांश्च नाक्षिपेत् ॥ ४८ ॥ भुञ्जानो ब्राह्मणश्रेष्ठो नैव शङ्कां समाचरेत् ॥ दधि चाप्युपपानं च न कर्तव्यं भवार्थिना ॥ ४९ ॥ आचम्य चैव हस्तेन परित्राव्यं तथोदकम् ॥ अङ्गुष्ठचरणस्याग्रे दक्षिणस्य तथोपरि ॥ ५० ॥ पापपाडं न ब्रूयान्नाप्रियञ्च कदाचन ॥ न मन्युः कस्यचित्कार्यः कदाचिदपि वै द्विजः ॥ ५१ ॥ होमश्चाहुतिदिते सूर्ये दातव्यो द्विजपुङ्गवाः ॥ तावद्भवति वह्निस्थो यावन्नोदेति भास्करः ॥ ५२ ॥ परीप्सितं च वह्निस्थः सम्यग्दत्तामाहुतिम् ॥ तदा भासयते सर्वं त्रैलोक्यं सचराचरम् ॥ ५३ ॥ पतितेस्तु कथां नेच्छेदंर्शनं चापि वर्जयेत् ॥ संसर्गं न च गच्छेत्तु तथास्यायुर्न रिष्यते ॥ ५४ ॥ वृद्धौ ज्ञातिस्तथा मित्रं दरिद्रं च कुलोद्भूतम् ॥ गृहे वासयितव्यानि धन्यानि मुनिसत्तमाः ॥ ५५ ॥ ब्राह्मणस्य पदाभ्यां तु वसेत्पूजितमाल्यम् ॥ सन्ध्यास्वध्ययनं वर्ज्यं भोजनं स्वप्नक्रिया ॥ ५६ ॥ नक्तं न कुर्यात्पितृव्याणि भुक्त्वा चैव प्रसाधनम् ॥ पानीयस्य क्रिया नक्तं न कार्या भूति मिच्छता ॥ ५७ ॥ अनिम्नन्चितो न गच्छेत्तु यज्ञं गच्छेत्तु दर्शकः ॥ ५८॥ चरितानि पुराणानां श्रोतव्यानि पुनःपुनः ॥ श्रुतिस्मृत्युदितं धर्मं त्वनुतिष्ठेत्तथा सदा ॥ ५९ ॥ सुखी स्यात्तत्प्रसन्नस्तु इह लोके परत्र च ॥ ६० ॥ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तथा स्मृतिः ॥ ते सर्वार्थेष्व मीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ ६१ ॥ योऽवमन्येत भूतेभ्यो हेतुशास्त्राश्रयाद्विजाः ॥ साधुभिः स बहिष्कार्यो नरकाग्रस्त भाजनम् ॥ ६२॥ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ॥ एतच्चतुर्विधं प्राहुः साक्षानां धर्मलक्षणम् ॥६३॥ चातुर्वर्णव्यवस्थानं यस्मिन्देशे न विद्यते ॥ स म्लेच्छविषयो ज्ञेय आर्यावर्तमतः परम् ॥६४॥ सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ॥ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ ६५ ॥ यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः ॥ वर्णानां सान्तरालानां स सदाचार उच्यते ॥ ६६ ॥ वैदिकैः कर्मभिः पुण्यैर्निषेकादिद्विजन्मनाम ॥ ६८॥ स्वाध्यायेन रसंस्काराः पावनाः प्रेत्य चेह चा॥६७॥ गामैः कृत्यैर्जातकर्मचौलोमौञ्जीनिबंधनैः ॥ बैजिकं गार्भिकं चैनो द्विजानामपहन्यते ॥ ६८॥ स्वाध्यायेन व्रतैर्होमैऋषिदेवेज्यया सुतैः ॥ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः॥६९॥गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ॥ गर्भादेके दशै राज्ञो गर्भात्तु द्वादशे विशः ॥७०॥ आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ॥ आद्वाविंशात्क्षत्रबन्धोश्चतुर्विंशतेर्विशः ॥७१॥अत ऊर्ध्वं त्रयोप्येते यथाकालमसस्कृ ताः॥सावित्रीपतिता व्रात्या भवन्ति च विगर्हिताः ॥७२॥ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ॥ स्रवत्यनोंकृतं पूर्वं परस्ताच्च विशीर्यते ॥ ७३ ॥

६८