विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 865, कुल 1001 में से
संदर्भ में पढ़ेंआनृशंस्यं क्षमा सत्यमहिंसा च दमः स्पृहा ॥ ध्यानं प्रसादो माधुर्य चार्जवं च यमा दश ॥२०३॥ नाश्रोत्रियतते यज्ञे ग्रामयाजिहुते तथा ॥ स्त्रिया क्लीबेन च हुते भुञ्जीयाद्ब्राह्मणः क्वचित् ॥२०४॥ यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ॥ २०५॥ आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ धर्मं शनैः सञ्चिनुयाद्वल्मीकमिव मृत्तिकाः ॥ २०६ ॥ परलोकसहायार्थं परपीडां विवर्जयेत् ॥ उत्तमेरुत्तमैर्नित्यं सम्बन्धानाचरेत्सद्द ॥२०७॥ निहीनैः कुलमुत्कर्षमथमानश्चोत्सृजेत् ॥ एषोदकं मुङ्कफलमन्नमभ्युद्धृतं च यत् ॥ २०८ ॥ सर्वतः प्रतिगृह्णीयान्मध्वथामभयदक्षिणाम् ॥ आहृत्याभ्युद्गतां भिक्षां गृह्णीयादप्रचोदिताम् ॥ अन्यत्र कुलटाषण्ढपतितेभ्यस्तेनविद्विषः ॥ २०९ ॥ शय्यां गृहास्तृणान्नञ्चानन्नापः पुष्पमगोर्दधि ॥ धाना मत्स्याः पयो मांसं शाकं चैव तु निर्णुदेत् ॥ २१० ॥ गौऽन्वय्यास्सन्तमत्मानमन्यथा सत्सु भाषते ॥ किं तेन न कृतं पापं चौरेणात्मापहारिणा ॥ २११ ॥ वाच्यर्था नियतास्सर्वे वाङ्मूला वाग्विनिस्सृताः ॥ तां तु यः स्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ ॥ २१२ ॥ सन्तानिकं यक्ष्यमाणमध्वगं सर्ववेदगम् ॥ गुर्वर्थं पितृमात्रर्थ स्वाध्यायार्थमथापिनः ॥ २१३ ॥ न चैतान्स्नातकान्वित्त्वाद्द्वा हणान्धर्मभैक्षुकान् ॥ निःस्वेभ्यो देयमेतेभ्यो दानं विद्या विशेषतः ॥ २१४ ॥ एतेभ्यो हि द्विजाग्रेभ्यो देयमन्नं सदक्षिणम् ॥ इतरेभ्यो बहि र्वैद्यां कृतान्नं देयमुच्यते ॥ २१५ ॥ कृतदारोऽपराद्दारानभिगत्वा योऽधिगच्छति ॥ रतिमात्रं फलं तस्य द्रव्यदातुस्तु सन्ततिः ॥ २१६ ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ॥ अधिकं वापि विद्येत स सोमं पातुमर्हति ॥ २१७ ॥ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ॥ स पीतसोमपूर्वोऽपि तस्य नार्भाति तत्फलम् ॥ २१८ ॥ सक्तः परजने दाता स्वजने दुःखजीविनि ॥ मध्वापातो विषस्वादः स धर्मप्रतिरूपकः ॥ २१९ ॥ भृत्यानामुपरोधेन यः करोत्यौर्ध्वदैहिकम् ॥ तद्भवत्यसुखोदर्कं जीवतोऽस्य मृतस्य वा ॥ २२० ॥ न यज्ञार्थं द्विजः शूद्राद्भिक्षां लिप्सेत धर्मवित् ॥ यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ २२१ ॥ यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ॥ स याति भासतां विप्रः काकतां वा शतं समाः ॥ २२२ ॥ देवस्वं ब्राह्मणस्वं च यो लोभात्रोपजीवति ॥ स पापात्मा परे लोके गृध्रोच्छिष्टेन जीवति ॥ २२३ ॥ इष्टिं वैश्वानरीं विप्रो निर्वपेद्द्बहुपर्यये ॥ कृतानां पशुसोमानां निष्कृत्यर्थमसम्भवे ॥ २२४ ॥ आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ॥ समाप्नोति फलं तस्य परत्रेति विचारितम् ॥ २२५ ॥ म्रसुः प्रथमक्ल्पस्य योऽनुकल्पेषु वर्तते ॥ भ्रमेण योगं नाप्नोति नरकं चैव गच्छति ॥ २२६ ॥ क्षत्रियो बाहुवीर्येण तरेदापद्मात्मनः ॥ धनेन वैश्यशूद्रौ तु जपहौमैर्द्विजातयः ॥ २२७ ॥