सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 864, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 864

तृ० खं० अ० २३२

वदेत् ॥ शुष्कैर्वैरं विवादं च न कुर्यात्केनचित्सह ॥ १७८ ॥ अनात्तुरः स्वानि खानि न स्पृशेन्निमित्ततः ॥ गणान्नं गणिकान्नं च सूतकान्नं च वर्जयेत् ॥ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ॥ १७९॥ सविव्रतान्हितेमांश्र्व कुर्यात्सर्वत्र नित्यशः ॥ पितृश्र्वैवाष्टकास्वर्चेत्रिन्नवम्वष्टकासु च ॥ १८० ॥ मङ्गलाचारयुक्तानां नित्यञ्च प्रयतात्मनाम ॥ जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ १८१ ॥ न पादपाणिचपलो न नेत्र चपलो द्विजः ॥ न स्याद्वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ १८२ ॥ येनास्य पितरो याता येन याताः पितामहाः ॥ तेन यायात्सतां मार्ग तेन गच्छन्न रिष्यते ॥ १८३ ॥ ऋत्विक्पुरोहिताचार्यमातुलातिथिसंश्रितैः ॥ बालवृद्धातुरैर्वैद्यैर्ज्ञातिसम्बन्धिबान्धवैः ॥ १८४ ॥ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ॥ दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ १८५ ॥ एतैर्विवादं सन्त्यज्य सर्वलोकाञ्जयेद् गृही ॥ तस्मादेतैरधि क्षिप्तः सहेतासञ्ज्वरं सदा ॥ १८६ ॥ प्रतिग्रहणसमर्थोऽपि प्रसंगं तत्र वर्जयेत् ॥ प्रतिग्रहेण विप्रस्य ब्राह्मं तेजो विनश्यति ॥ १८७॥ न च द्रव्यमविज्ञाय विधिं धर्म्यं प्रतिग्रहे ॥ प्राज्ञः प्रतिग्रहं कुर्याद्वसीदन्नपि क्षुधा ॥ १८८॥ अतपास्त्वनधीयानः प्रतिग्रहकुरुर्द्विजः ॥ अम्भस्य संप्लवेनैव सह तेनैव मज्जति ॥ १८९ ॥ तस्मात्त्र विद्दान्गृह्णीयाद्यस्मात्तस्मात्प्रतिग्रहम् ॥ अल्पकेनाप्याविद्वांस्तु पंके गौरिव सीदति ॥ १९० ॥ प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ॥ ये लोका दानशीलानां स तानाप्नोति शाश्वतान ॥ १९१ ॥ गुरून्भृत्यांश्चोजिहीर्षुरर्चिष्यन्दैवतातिथि र्थीन् ॥ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ १९२ ॥ गुरुष्वभ्यवतीतेषु विना वर्तेंर्गृहे वसन् ॥ आत्मनो वृत्तिमन्विच्छन्गृह्णीयात्साधुतः सदा ॥ १९३ ॥ धर्मध्वजोऽथ वा लुब्धश्छाद्मस्थो लोकदाम्भिकः ॥ बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ १९४ ॥ अधोदृष्टिनैकृतिकः स्वार्थसाधनतत्परः ॥ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ १९५ ॥ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ॥ ते पतन्त्यन्धतामिस्रे सह पापेन कर्मणा ॥ १९६ ॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ॥ व्रतेन पापं प्रच्छाद्य कुर्वन्स्त्रीशूद्रदम्भनम् ॥ प्रेत्यह तादृशो विप्रो गृह्यते ब्रह्मवादिभिः ॥ १९७ ॥ छद्मना चरितं तच्च व्रतं रक्षांसि गच्छति ॥ अलिङ्गी लिङ्गिवेशेन यो वृत्तिमुपजीवति ॥ १९८ ॥ स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ परकीयानपानेषु न स्नायाद्धि कदाचन ॥ निपानकर्त्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ १९९ ॥ यानं शय्या सनं वस्त्रं कूपोद्यानगृहाणि तु ॥ अदत्तान्युपभुञ्जानो ह्येनसः स्यात्तूरीयभाक् ॥२००॥ यमान्सेवेत सततं न नित्यं नियमान्बुधः ॥ यमान्संत्यज्य कुर्वाणो नियमान्केवलान्मजन् ॥२०१॥ शौचमिज्या तपो दानं स्वाध्यायोपस्थनिग्रहः ॥ व्रतोपवासौ मौनं च स्नानं च नियमा दश ॥२०२ ॥

॥४०५॥